झरा
jharāस्त्री · fem.In 6 kośas: 6 synonym verses.
तत्समूहे झरा तु स्याझ्झरीति परिकीर्तितः ।पयः कीलालममृतं पुष्करं सर्वतोमुखम् ॥ ९६ ॥
अनुष्टुप्
genderस्त्रीfem.
झरा झरिर्झरी स्त्रीत्वे प्रवाहो वाहसो रयः ।ओघो धारा-वेणि-वेण्यः पूरो*वर्धनं प्लवः ॥ २४ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 वे (syllables merged)
genderस्त्रीfem.
भैषज्ये ना तु विपिने द्वे मत्स्ये मकरेऽपि च ।झरो ना निर्झरे स्त्री तु झरा स्याज्झरणे त्रि तु ॥ ४९७ ॥
अनुष्टुप्
genderस्त्रीfem.
तत्प्रासादो वैजयन्तो भास्वरं कामदं शिवम् ।तत्सभा सुरसा धर्मा सुधर्मा नाटकी झरा ॥ ७० ॥
अनुष्टुप्
genderस्त्रीfem.
आवालोऽस्त्री, उत्स उत्सुः स्रवः प्रस्रवणं झरः ।झरी झरा निर्झरश्च, वह्नावग्निस्तु पुं-स्त्रियोः ॥ १११ ॥
अनुष्टुप्
genderस्त्रीfem.
शुकनासोऽप्यथो पश्चात्सुन्दरो ग्रीष्मसुन्दरः ।कपित्थपत्र्यधःपुष्पी व्रणघ्नी झरसी झरा ॥ १५७ ॥
अनुष्टुप्
genderस्त्रीfem.