सुन्दर
sundaraवि · adj.In 21 kośas: 24 synonym verses, 55 as a meaning of another word.
चारु हारि रुचिरं मनोहरं वल्गु कान्तमभिरामबन्धुरे ।वामरुच्यसुषमाणि शोभनं मञ्जुमञ्जुलमनोरमाणि च ॥ १४४४ ॥साधुरम्यमनोज्ञानि पेशलं हृद्यसुन्दरे ।काम्यं कम्रं कमनीयं सौम्यं च मधुरं प्रियम् ॥ १४४५ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 म (wrong syllable)
genderविadj.
सुन्दरं रुचिरं चारु सुषमं साधु शोभनम् ।कान्तं मनोरमं रुच्यं मनोज्ञं मञ्जु मञ्जुलम् ॥ ५२ ॥
अनुष्टुप्
genderविadj.
प्राग्र्यं प्राग्रहरं प्रवेकमपरं वर्यं वरेण्यं वरं,श्रेष्ठं प्रेष्ठमनुत्तमं च मधुरं मञ्जु प्रियं मञ्जुलम् ।हृद्यं हारि मनोहरं च रुचिरं कान्तं परं सुन्दरं,सौम्यं साधु च वल्गु चारु सुषमं वामं शुभं पेशलम् ॥ ६८९ ॥
शार्दूलविक्रीडितम्
genderविadj.
लक्ष्मणस्तूर्मिलाकान्तो महेन्द्रद्वेषिसूदनः ।अनिद्रः सुन्दरः शूरो लक्ष्मीवान् लक्ष्मिवर्धनः ॥ १३ ॥
अनुष्टुप्
genderपुंmasc.
सौमित्रिः सुन्दरः श्रीमान् कुमारो विश्ववल्लभः ।रामस्य चापे धर्माङ्गशात्रवानन्दभैरवः ॥ १५ ॥
अनुष्टुप्
genderपुंmasc.
सुन्दरं रुचिरं चारु कान्तं वल्गु च पेशलम् ।अभिरामं रामवामे मञ्जुलं मञ्जु पेसलम् ॥ १०० ॥
अनुष्टुप्
genderविadj.
खण्डैर्ध्रुवा भवन्त्येवं षड्विंशत्यादितः क्रमात् ।कमलाकरः कलापः कामश्चैवात्र सुन्दरः ॥ ३५ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 क (wrong syllable)
genderपुंmasc.
सूचीमुखं रत्नमुख्यं वज्राह्वं चाथ सुन्दरम् ।गोमेदकं पीतमणिस्तथा तृणचरं मतम् ॥ ७२ ॥
अनुष्टुप्
genderक्लीneut.
कान्तं मनोज्ञं रुचिरं रुचिष्यं ।रुचिर्मनोहारि मनोहरं च ।हृद्यं प्रियं बन्धुर-सुन्दराभि-रामाणि वामं रमणीयमाहुः ॥ ६० ॥
उपजातिः
genderविadj.
तत्कौस्तुभे सुधासारः सुरागः सुन्दरः स्मृतः ।श्रीवत्से तस्य शृङ्गारः सेव्या तु वनमालिका ॥ ३६ ॥
अनुष्टुप्
genderपुंmasc.
कान्तं च कमनं कम्रं कमनीयं मनोहरम् ।अभिरामं रमणीयं रम्यं सौम्यं च सुन्दरम् ॥ १७७ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 म (wrong syllable)
genderविadj.
बन्धुरं चाभिरामं स्यात्सुषमं साधुसुन्दरे ।मनोहारि? काम्यकम्रे कमनीयमनोरमे ॥ ३३३ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 रि (wrong syllable)
genderविadj.
सुन्दरः सुन्दरद्वेषी चोरः स्वप्रियवेदनः ।राजमित्रः सुमसखश्चण्डश्चण्डपराक्रमः ॥ ४५ ॥
अनुष्टुप्
genderपुंmasc.
मातलिर्माकलिः शित्रो देवसारथिराशुगः ।जयन्तो विजयो मोदी सुन्दरः सुखलोलुपः ॥ ७३ ॥
अनुष्टुप्
genderपुंmasc.
सुन्दरं युवतीमोद्यं नन्द्यं लोहितचन्दने ।कर्पूरागरुकस्तूरीत(क?)क्कोलैर्मिश्रिते शुभे ॥ १८९ ॥
अनुष्टुप्
genderक्लीneut.
कात्रं कम्बरि(ल?)वाह्यं च गन्त्री कम्बलिवाह्यकम् ।आन्दोलिकायां शिबिका याप्ययानं च सुन्दरम् ॥ ३१० ॥
अनुष्टुप्
genderक्लीneut.
सुभगे सुन्दरः शाली चक्षुष्यश्चटुलोऽपि च ।वैरङ्गिको विमोदी च विरागार्हे विरागवान् ॥ ६७४ ॥
अनुष्टुप्
genderविadj.
सुन्दरं रुचिरं रुच्यं xxxx मनोहरम् ।मनोज्ञं मञ्जुलं मञ्जु पेशलं वल्गु बन्धुरम् ॥ ९६ ॥
अनुष्टुप्metre not read in every lineLatin letters: xxxx
genderविadj.
genderविadj.
तेनैवोद्भिदमुद्भिज्जमुद्भिदिति निगद्यते ।सुन्दरं शोभनं साधु मञ्जु कान्तं मनोरमम् ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 2 द्भि (wrong syllable)
genderविadj.
वल्लभदयिताभीप्सितहृद्यप्रियरुचिररुच्यकान्तेष्टाः ।मञ्जुलमञ्जुमनोरमसुन्दरकमनीयचारुसुषमाश्च ॥ १५८१ ॥
गीतिः
genderविadj.
इः सूक्ष्मा शाल्मली विद्या चन्द्रः पूषा सुगुह्यकः ।सुमित्रं सुन्दरो वीरः कोटर काटरः पयः ॥ १२ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 र (wrong syllable)
genderपुंmasc.
शुकनासोऽप्यथो पश्चात्सुन्दरो ग्रीष्मसुन्दरः ।कपित्थपत्र्यधःपुष्पी व्रणघ्नी झरसी झरा ॥ १५७ ॥
अनुष्टुप्
genderपुंmasc.
प्रकाशं प्रकटं स्पष्टमुल्बणं विशदं स्फुटम् ।सुन्दरं रुचिरं रुच्यं मनोज्ञं मञ्जु मञ्जुलम् ॥ १३४ ॥
अनुष्टुप्
genderविadj.
सुन्दर as a meaning in nānārtha verses
- नामलिङ्गानुशासनम् सौम्यन्याय्येऽपि मध्यं सौम्यं तु सुन्दरे सोमदैवते ॥ १६१ ॥ Amarakośa 3.3.161
- धरणिकोश मुग्धगाधः स्थाने च लिप्सायां व्याधो मृगयुदुष्टयोः । मुग्धः स्यात्सुन्दरे मूढे स्निग्धे वत्सलचिक्कणे ॥ Dharaṇikośa 18.1.3
- धरणिकोश सुरभिसुरभिरयमुदीर्णश्चैत्रमासे वसन्ते सति च सुरभिरुक्तो धीरविख्यातयोश्च । सुरभि गदितमेतत्सुन्दरे साधुगन्धे सुरभिरियमुदीर्णा गौः सुरा शल्लकी च ॥ Dharaṇikośa 23.3.2
- धरणिकोश सुषमदुर्नामा दीर्घकोषी स्यान्नाम यस्याश्च कुत्सितम् । सुषमा परमा शोभा सुषमं सुन्दरं समम् ॥ Dharaṇikośa 24.2.11
- धरणिकोश वामवामं निर्भरसुन्दरद्रविणयोर्वामं प्रतीपार्थकं वामं सव्यमुदाहृतं कविवरैर्वामः स्मृतः शंकरः । वामः कामः पशौ पयोधरवरे वामा स्मृता कामिनी वामी स्याद्वडवा तथोष्ट्रकवधूर्वामी शिवा गर्दभी ॥ Dharaṇikośa 24.3.8
- धरणिकोश भव्यभव्यं श्रेयसि योग्ये च भव्यं भाविनि सुन्दरे । मध्यं न्यायेऽवकाशे च लग्नके चावलग्नके ॥ Dharaṇikośa 25.2.13
- धरणिकोश पुण्यपुण्यं त्रितयमुद्दिष्टं श्रेयःसुकृतसुन्दरम् । दूष्यं पटकुटी प्रोक्ता दूष्यं दूषणमर्हति ॥ Dharaṇikośa 25.2.15
- धरणिकोश बन्धुरशाङ्करोऽनुडुहि ज्ञेय उक्तं छन्दसि शाङ्करम् । बन्धुरं सुन्दरे नम्रे बन्धुरं स्याच्चोन्नतानतम् ॥ Dharaṇikośa 26.2.36
- धरणिकोश धवलकुशलं सुकृतौ क्षेमे कुशलौ शक्त[91]शिक्षितौ । धवलः सुन्दरे श्वेते महोक्षे धवला च गौः ॥ Dharaṇikośa 27.2.17
- धरणिकोश मञ्जुलपांशुलो हरखट्वाङ्गे पुंश्चले पांशुसंयुते । मञ्जुलः सुन्दरे प्रोक्तो जलरङ्कपतत्रिणि ॥ Dharaṇikośa 27.2.27
- कोषकल्पतरु वृन्दारकआकल्पकः स्यान्मुदि चाथ वृन्दा- रकः सुरे सुन्दरमान्ययोश्च । आक्षेपको निन्दकवातरोग- व्याधेष्वथो कापटिकश्च शिष्ये ॥ ३१ ॥ Koṣakalpataru 6.1.31
- कोषकल्पतरु भासन्ततर्यां स्त्री गिरिशे ******** जयन्तः पुमान् शर्वाण्यां त्वरणिद्रुमेन्द्रतनयाधू ( ? )कास्वसौ योषिति । गोदन्तो हरितालदंशितकयोर्भासे तु भासां निधौ भासन्तस्त्रिषु सुन्दरेऽप्यथ मह[295b]त्प्राज्ये विशाले त्रिषु ॥ २१ ॥ Koṣakalpataru 6.16.21
- कोषकल्पतरु मुग्धबाधा निषेधेऽपि च दुःख उक्ता सुधा तु मूर्वाविकसास्नुहीषु । विलेपवस्तुन्यमृतेऽथ संधा स्थितौ च संवि[8b]द्यथ लालसायाम् । श्रद्धातिभक्तौ क्रमतस्तु वृद्धौ स्पर्धापि संघर्षणसाम्ययोः स्यात् । मुग्धोऽन्यवत्सुन्दरमूढयोः स्या- द्विधुः सुधांशौ गरुडध्वजे च ॥ ६४ ॥ Koṣakalpataru 6.20.64
- कोषकल्पतरु शोभननाभिस्थवायौ तु समानमस्त्री समैकसत्सु प्रथितं त्रिलिङ्गम् । योगे तु ना सुन्दरवाचि भेद्ये स्याच्छो[13b]भनं शासनमस्ति शास्तेः ॥ Koṣakalpataru 6.21.43
- कोषकल्पतरु वर्ष्मन्रश्मौ शरीरेऽप्यथ साम वेदा- न्तरेऽप्युपायान्तरके च षण्ढे । वर्ष्म प्रमाणे वपुषि प्रदिष्टं स्यात्सुन्दरे चाकृतिवाचकं च ॥ ९२ ॥ Koṣakalpataru 6.21.92
- कोषकल्पतरु प्रियधवे मनोज्ञे त्रिषु वृद्धिवल्ल्यां स्त्रियां स्वभावे तु तनौ च कायः । संघे च लक्ष्ये परवत्कदैवे क्लीबे नृतीर्थेऽप्यथ सायमस्त्री । प्रियो धवे सुन्दरवाचकश्च वृद्ध्यौषधौ मानवतीर्थके तु । देहे च शङ्खे निकरे च कायो लक्ष्येऽपि सायं तु दिनान्तवाचि ॥ ६ ॥ Koṣakalpataru 6.26.6
- कोषकल्पतरु रम्यसंबोधनीये [36b] सलिले तु षण्ढे प्रकीर्तितो योषिति चेल्वलासु । रम्यो भवेच्चम्पकवाचको ना रात्रौ स्त्रियां स्यात्त्रिषु सुन्दरे च ॥ २२ ॥ Koṣakalpataru 6.26.22
- कोषकल्पतरु धवलसितवर्णे तद्वति तु त्रितये तद्वत्स सुन्दरेऽपि स्यात् । योषिति तु सौरभेय्यां कुवलं त्रिषु चोत्पले बदरे ॥ ३ ॥ Koṣakalpataru 6.28.3
- नानार्थार्णवसंक्षेप श्लक्ष्णअरातौ वैरवति च समाम्नाताथ शक्लवाक् । प्रियंवदे च शक्ते च श्लक्ष्णं त्वल्पेऽपि सुन्दरे ॥ २८ ॥ Nānārthārṇavasaṃkṣepa 2.4.28
- नानार्थार्णवसंक्षेप चन्द्रसुन्दरे तु त्रिषु ज्ञेयं क्ली त्वारण्यकसामनि । अत्र हेत्यृक्समुद्भूते कुमुदे रजतेऽप्यथ ॥ ३९५ ॥ Nānārthārṇavasaṃkṣepa 2.5.395
- नानार्थार्णवसंक्षेप चारुऊहापोहक्षमायां च बुद्धौ चार्वी त्रिषु त्वयम् । सुन्दरे चित्रवाक्ये च चाटुस्तु स्त्रीनपुंसकम् ॥ ४१४ ॥ Nānārthārṇavasaṃkṣepa 2.5.414
- नानार्थार्णवसंक्षेप चुक्रअम्लाख्ये बीजपूरेऽम्लवेतसे च निमन्त्रणे । गुञ्जिकायां द्वयोस्तु स्यात् सुन्दरेऽथ नपुंसकम् ॥ ४२९ ॥ Nānārthārṇavasaṃkṣepa 2.5.429
- नानार्थार्णवसंक्षेप चोक्षतद्राजे नास्य सन्ताने द्वयोर्जानपदेषु च । गृहच्छदिःषु न स्त्री स्याच्चोक्षस्तु त्रिषु सुन्दरे ॥ ४४१ ॥ Nānārthārṇavasaṃkṣepa 2.5.441
- नानार्थार्णवसंक्षेप न्यूङ्खवैजयन्त्यां तु ना व्याधावित्युक्तं न्यूङ्खवाक् पुनः । षट्स्वोङ्कारेषु ना त्रिस्तु सुन्दरेऽथाजयोऽवदत् ॥ ६९६ ॥ Nānārthārṇavasaṃkṣepa 2.5.696
- नानार्थार्णवसंक्षेप प्रियसूर्ये प्रियस्तु करुणसंज्ञवृक्षे धवे त्रि तु । वल्लभे सुन्दरे स्त्री तु प्रियाभीप्सितयोषिति ॥ ७६७ ॥ Nānārthārṇavasaṃkṣepa 2.5.767
- नानार्थार्णवसंक्षेप वामवामः स्यात् सुन्दरे सव्ये प्रतिकूले स्त्रियां पुनः । महादेवस्य नवसु शक्तिष्वेकत्र योषिति ॥ १२१५ ॥ Nānārthārṇavasaṃkṣepa 2.5.1215
- नानार्थार्णवसंक्षेप शुबिद्वे तु विप्रे सुन्दरे तु त्र्यथ स्त्री शोषणे शुषिः । रन्ध्रे च ना तु धातौ स्याच्छुष्यतौ शुण्ठिवाक् तु ना ॥ १४०० ॥ Nānārthārṇavasaṃkṣepa 2.5.1400
- नानार्थार्णवसंक्षेप सारस्थिराङ्गे रेतसि व्योम्नि सरणे च नरि त्रि तु । सुन्दरोत्कृष्टयोर्दत्तस्तूत्कृष्टे नरमभ्यधात् ॥ १४८५ ॥ Nānārthārṇavasaṃkṣepa 2.5.1485
- नानार्थार्णवसंक्षेप सोम्यउपाध्याये तु ना सोम्यः पुनस्त्रिः सोमदेवते । सुन्दरे च पुमांस्त्वेष वत्परे च बुधग्रहे ॥ १५६६ ॥ Nānārthārṇavasaṃkṣepa 2.5.1566
- नानार्थार्णवसंक्षेप धवलअष्टानामेकलेख्ये स्याद् धवलस्तु नृलिङ्गकः । वृषभे श्वेतवर्णे च त्रिस्तु श्रेष्ठेऽपि सुन्दरे ॥ ९६९ ॥ Nānārthārṇavasaṃkṣepa 4.969
- नानार्थार्णवसंक्षेप बन्धुरबन्धुरस्तु द्वयोर्हंसे त्रिस्तु सुन्दरनम्रयोः । उन्नतानत इत्यन्ये रभसस्त्वस्त्रिया(मि?म)यम् ॥ १२२७ ॥ Nānārthārṇavasaṃkṣepa 4.1227
- नानार्थार्णवसंक्षेप बन्धूरबन्धूके पक्षिभेदे चेत्यथ बन्धूर इत्यमुम् । एष्वेवार्थेषु रभसस्तत्तल्लिङ्गमवोचत ॥ १२२८ ॥ Nānārthārṇavasaṃkṣepa 4.1228
- नानार्थार्णवसंक्षेप मञ्जुलआरामे चाप्यर्थ ज्ञेयं मञ्जुलं त्रिषु सुन्दरे । द्वयोस्तु पक्षिभेदे स्याज्जलरङ्काह्वयेऽप्यथ ॥ १३४० ॥ Nānārthārṇavasaṃkṣepa 4.1340
- नानार्थार्णवसंक्षेप रुचिरसुन्दरे भेद्यवच्छन्दोवृत्तभेदे तु सा स्त्रियाम् । रुचिरातिजगत्यां स्यात् तद्वृत्तमथ पुंस्ययम् ॥ १५१६ ॥ Nānārthārṇavasaṃkṣepa 4.1516
- नानार्थार्णवसंक्षेप लडहविलासे भेद्यलिङ्गं तु सुन्दरे शब्दवित् पुनः । व्याचष्टे हर्षनन्दीमं विलासवति नप् पुनः ॥ १५५५ ॥ Nānārthārṇavasaṃkṣepa 4.1555
- नानार्थार्णवसंक्षेप शोभनत्रि तु स्यात् सुन्दरे क्ली तु शोधनं शुद्धिकर्मणि । अना तु शोधयत्यर्थे शोधना ना तु शोधनः ॥ १८६१ ॥ Nānārthārṇavasaṃkṣepa 4.1861
- नानार्थार्णवसंक्षेप सुषमअथो परमशोभायां सुषमा स्त्री त्रि सुन्दरे । सुषिरं तु नपिच्छिद्रे वैजयन्त्यां समीरितम् ॥ १९६६ ॥ Nānārthārṇavasaṃkṣepa 4.1966
- नानार्थार्णवसंक्षेप प्राप्तरूपस्यात् तु पक्षचरो यूथभ्रष्टेऽप्येकचरेऽपि च । प्राप्तरूपः सुन्दरे स्यात् तथैव च विचक्षणे ॥ २१ ॥ Nānārthārṇavasaṃkṣepa 6.21
- नानार्थार्णवसंक्षेप वृन्दारकविलेशया तु गोधायां स्त्री स्याद्वृन्दारकः पुनः । द्वे देवे त्रि तु मुख्येऽपि सुन्दरेऽथ बृहच्छदः ॥ ४२८ ॥ Nānārthārṇavasaṃkṣepa 6.428
- परमानन्दीयनाममाला गाङ्गेयगाङ्गेयं सुन्दरे स्वर्णे मुस्तकेऽपि कशेरुके । कृपणे गाढमुष्टिश्च कृपाणेऽपि निबध्यते ॥ १६७ ॥ Paramānandīyanāmamālā 5.9.167
- शब्दरत्नावली वल्गुव्यङ्गः प्लवे च हीनाङ्गे वङ्गः सीसकरङ्गयोः । वल्गुश्छागलके पुंसि सुन्दरेऽपि च वाच्यवत् ॥ Śabdaratnāvalī 7.3.24
- शब्दरत्नावली मुग्धमेधो यज्ञे स्त्रियां बुद्धौ मुग्धः सुन्दरमूढयोः । राधो वैशाखमासे ना राधा चित्रे च धन्विनाम् ॥ Śabdaratnāvalī 7.19.10
- शब्दरत्नावली साधुस्कन्धश्छन्दो विशेषाकेसयुद्धभूषतिवर्ष्मसु । तरुप्रकाण्डे भद्रादौ समूहे च भवेत्पुमान् ॥ अथ साधुर्वार्द्धुषिके सुन्दरे सज्जने त्रिषु । सिद्धो योगभिदि व्यासे देवयोनिसुसिद्धयोः ॥ Śabdaratnāvalī 7.19.18
- शब्दरत्नावली शोभनश्लैषघ्नी मल्लिकाज्योतिष्मत्योस्त्रिकटुके स्त्रियाम् । शोभनः स्याद्योगभेदे स्यात्पुमान् सुन्दरे त्रिषु ॥ Śabdaratnāvalī 7.20.87
- शब्दरत्नावली धवलधवलं सुन्दरे शुभे त्रिषु ना वृषपुङ्गवे । निर्मलं क्लीबमभेऽपि निर्माल्ये विमले त्रिषु ॥ Śabdaratnāvalī 7.28.70
- शब्दरत्नावली सुग्रीवशात्रवः पुंसि शत्रौ स्यात्क्लीबं तद्भावनन्दयोः । षाडवो गालभेदे स्याद्रसभेदे भवेत्पुमान् ॥ सम्भवो मेलके हेतौ जन्मन्यांधेयधारणे । सुग्रीवो विष्णुतुरगे सुन्दरे च कपीश्वरे ॥ Śabdaratnāvalī 7.29.36
- शब्दार्णव सुभगसुन्दरेऽधिकभाग्ये च दुर्दिनेतरवासरे । तुरीयांशे श्रीमति च सुभगः … ॥ १९३ ॥ Śabdārṇava 193
- शब्दार्णव ललितना भावभेदे स्त्री नृत्ये ललितं त्रिषु सुन्दरे । अस्त्रियां प्रमदागारे क्रीडिते जातपल्लवे ॥ २०१ ॥ Śabdārṇava 201
- त्रिकाण्डशेष धवलदुकूलं श्लक्ष्णवस्त्रेऽपि चार्द्धे पत्रे छदे दलम् । धवला गवि ना शण्डे शुक्लसुन्दरयोस्त्रिषु ॥ ३९७ ॥ Trikāṇḍaśeṣa 3.3.397
- उत्पलिनी अमृतअयाचिते यज्ञशेषे निर्वाणे चापि सुन्दरे । अमृतं वारिणि प्रोक्तं अतिहृद्ये च वस्तुनि ॥ ५५ ॥ Utpalinī 55
- वैजयन्ती पुण्यपुमांस्तु पृतनाकट्यां पापं म्यात् क्रूरपाप्मनोः । पुण्यं धर्मे जले हेम्नि पुष्पे क्ली सुंदरेऽर्थवत् ॥ ५० ॥ Vaijayantī 6.5.50
- वैजयन्ती सौम्यसौम्यो विप्रे सोमजेऽब्दे सुन्दरे सोमदैवते । सखा सहाये बन्धौ ना सूक्ष्ममध्यात्मदभ्रयोः ॥ ९८ ॥ Vaijayantī 6.5.98
- वैजयन्ती बन्धुरबीभत्सौ क्रूरविकृतौ बहलौ सान्द्रपुष्कलौ । बन्धुरौ नम्रसुन्दरौ भंगुरौ वक्रनश्वरौ ॥ २१ ॥ Vaijayantī 7.4.21
- वैजयन्ती मधुरभावितौ लब्धवासितौ भुजिष्यौ स्वैरिकिङ्करौ । मधुरौ स्वादुसुन्दरौ मूर्च्छितौ मूढसोच्छ्रयौ ॥ २२ ॥ Vaijayantī 7.4.22
- वैजयन्ती बृन्दारकनकुले मूषिकेऽहौ ना गोधायां स्त्री बिलेशयः । बृन्दारकः पुमान्देवे श्रेष्ठसुन्दरयोस्त्रिषु ॥ १८ ॥ Vaijayantī 8.5.18