कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

वाहस

vāhasaपुं · masc.

In 12 kośas: 15 synonym verses, 5 as a nānārtha head word, 1 as a meaning of another word.

अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य पञ्चेन्द्रियाः Abhidhānacintāmaṇi 4.9.121 · p. 50
चक्रमण्डल्यजगरः पारीन्द्रो वाहसः शयुः ।
अनुष्टुप्
genderपुंmasc.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह पातालभोगिवर्गः Amarakośa 1.8.6
तिलित्सः स्यादजगरे शयुर्वाहस इत्युभौ ।
अनुष्टुप्
genderपुंmasc.
हलायुधकोशः (अभिधानरत्नमाला) Abhidhānaratnamālā (Halāyudha) · हलायुध पातालकाण्डम् Abhidhānaratnamālā (Halāyudha) 3.642 · p. 73
अहेः शरीरं भोगः स्यादाशीर्दंष्ट्राभिधीयते ।भवेत्तिलित्सो गोनासो वाहसोऽजगरः शयुः ॥ ६४२ ॥
अनुष्टुप्
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव सर्पादिप्रकाण्डः Kalpadrukośa 1.16.13 · p. 365
राजसर्पो भुजङ्गार्थो भोगी स्यादथ वाहसः ।चक्री मण्डल्यजगरः पारीन्द्रोऽजगिलः शयुः ॥ १३ ॥
अनुष्टुप्
genderपुंmasc.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ वारिवर्गः Koṣakalpataru 1.7.24 · p. 101
झरा झरिर्झरी स्त्रीत्वे प्रवाहो वाहसो रयः ।ओघो धारा-वेणि-वेण्यः पूरो*वर्धनं प्लवः ॥ २४ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 वे (syllables merged)
genderपुंmasc.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ वनौषधिवर्गः Koṣakalpataru 2.3.75 · p. 180
श्रीवारकः शीतवरः स्वस्तिकः कुक्कुटः स्थितिः ।चाङ्गेरीपत्रसदृशो वाहसः पत्रशूल्पिका ॥ ७५ ॥
अनुष्टुप्
genderपुंmasc.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ पातालवर्गः Koṣakalpataru 3.1.18 · p. 303
गोनसो घोणसो चो(व्या?)डो मण्डली वाहसः पुनः ।शयुस्तनजोऽजगरः शीवा शीरः शयानकः ॥ १८ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 न (wrong syllable)
genderपुंmasc.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास तृतीयः परिच्छेदः Paramānandīyanāmamālā 3.208 · p. 78
राजसर्पो भुजंगाशी शयुः पारीन्द्रवाहसौ ।मण्डल्यजगरौ तुल्यौ अलगर्दो जलोद्भवः ॥ २०८ ॥
अनुष्टुप्
genderपुंmasc.
पर्यायशब्दरत्न Paryāyaśabdaratna · धनञ्जयभट्ट पाताललोकसर्गः Paryāyaśabdaratna 3.24 · p. 125
गोनसे गोकरश्चैव तिलिङ्गश्च तिलिप्यकः ।तविप्यश्च तिविप्यश्च वाम(ह?)सः कुण्डबालकः ॥ २४ ॥
अनुष्टुप्
genderपुंmasc.doubtful
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि पञ्चेन्द्रियजीवनामानि Suśīlanāmamālā 5.9.2359 · p. 381
अजगरः शयुश्चैव पारीन्द्रश्चक्रमण्डली ।वाहसश्चेति नामानि मन्यन्तेऽजगरस्य वै ॥ २३५९ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 3 ग (wrong syllable)
genderपुंmasc.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि पञ्चेन्द्रियजीवनामानि Suśīlanāmamālā 5.9.2370 · p. 383
सविषाः भुजगास्ते स्युर्निर्विषाः वाहसादयः ।सर्पाः स्युर्दृग्विषा लूमविषास्तु वृश्चिकादयः ॥ २३७० ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 स्तु (wrong syllable)
genderपुंmasc.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश भूमिवर्गप्रकाशः Śabdaratnāvalī 2.2.9 · p. 37
अथ वोड्रस्तिलित्सः स्यात् गोनासो गोनसोऽपि च ।वाहसः स्यादजगरः शीर-शीनौ शयुः शयः ॥
अनुष्टुप्
genderपुंmasc.
शब्दरत्नाकर Śabdaratnākara · वाचनाचार्यश्रीसाधुसुन्दरगणि तृतीयः काण्डः Śabdaratnākara 3.260 · p. 209
शकटी शकटं तद्वच्छकटिर्वहसाऽन्वितः ।वाहसो वृषभेऽप्येतौ, प्रधौ नेमी च नेमिवत् ॥ २६० ॥
अनुष्टुप्
genderपुंmasc.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण पातालाध्यायः Śabdaratnākara 1.10.306 · p. 41
स भुजंगस्त्वजो नाम यः स्यादुभयतोमुखः ।गोनसस्तु तिलित्सः स्याद्वाहसोऽजगरः शयुः ॥ ३०६ ॥
अनुष्टुप्
genderपुंmasc.
वैजयन्ती Vaijayantī · यादवप्रकाश सरीसृपाध्यायः Vaijayantī 4.1.19 · p. 149
अलगर्द्धो जलव्यालो वाहसोऽजगरः शयुः ।मालुधानो मातुलाहिः पुण्डरीकस्तु डुंडुभः ॥ १९ ॥
अनुष्टुप्
genderपुंmasc.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ सान्ताः Koṣakalpataru 6.31.89 · p. 380
श्रीवास उक्तो वृकधूपविष्ण्वोःसरोरुहेऽन्त्येऽप्यथ साहसं स्यात् ।बलात्कृतौ स्यात्कृतकार्यके चदमे शयौ वाहस ईरितोऽत्र ॥ ८९ ॥
उपजातिः
meaningsशयु
कोषकल्पतरु Koṣakalpataru · विश्वनाथ सान्ताः Koṣakalpataru 6.31.90 · p. 380
वार्निर्गमे स्यात्सुनिषण्णकेऽथस्याल्लालसा तर्षविशेषकेऽपि ।औत्सुक्ययाच्ञास्वपि युग्मलिङ्गासमास उक्तोऽपि समर्थवाची ॥ ९० ॥
उपजातिः
doubtful
शब्दरत्नावली Śabdaratnāvalī · मथुरेश सान्ताः Śabdaratnāvalī 7.32.32 · p. 296
वर्चस्तेजोरूपविष्ठास्वपि क्लीबं बुधे पुमान् ।बर्हिः पुमान् वीतिहोत्रे भवेद्दर्भेऽपि न स्त्रियाम् ।वाहसोऽजगरे नीरनिर्याणे सुनिषण्णके ॥
अनुष्टुप्metre not read in every line
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण अनेकार्थाधिकाराध्यायः Śabdaratnākara 4.1.2162 · p. 261
वाहसोऽजगरे वह्नौ चित्रे दर्पे च विस्मयः ।विस्तारे प्रतिबन्धे च विष्कम्भो विबुधः सुरे ॥ २१६२ ॥
अनुष्टुप्
meaningsअजगर
वैजयन्ती Vaijayantī · यादवप्रकाश पुंलिङ्गाध्यायः Vaijayantī 7.1.65 · p. 244
व्यवायो मैथुनेऽन्तर्धौ चित्रे दर्पे च विस्मयः ।वाहसौ वह्न्यजगरौ द्रुप्रवालौ तु विद्रुमौ ॥ ६५ ॥
अनुष्टुप्

वाहस as a meaning in nānārtha verses

  • कोषकल्पतरु शयालुक्लीबे त्वसौ वाहसकुक्कुरार्थो वातूल उक्तो नरि वातसङ्घे । वातासहे तु त्रिषु यज्ञकुण्डे दर्भे च चात्वालमुशन्ति पुं[73a]सि ॥ ४८ ॥ Koṣakalpataru 6.28.48