अमृत
amṛtaक्ली · neut.In 22 kośas: 65 synonym verses, 20 as a nānārtha head word, 25 as a meaning of another word.
महानन्दोऽमृतं सिद्धिः कैवल्यमपुनर्भवः ।शिवं निःश्रेयसं श्रेयो निर्वाणं ब्रह्म निर्वृतिः ॥ ७४ ॥महोदयः सर्वदुःखक्षयो निर्याणमक्षरम् ।मुक्तिर्मोक्षोऽपवर्गोऽथ मुमुक्षुः श्रमणो यतिः ॥ ७५ ॥वाचंयमो व्रती साधुरनगार ऋषिर्मुनिः ।निर्ग्रन्थो भिक्षुरस्य स्वं तपोयोगशमादयः ॥ ७६ ॥
अनुष्टुप्
genderक्लीneut.
genderक्लीneut.
genderक्लीneut.
अयाचितं स्यादमृतं सेवावृत्तिः श्वजीविका ॥ ८६६ ॥
अनुष्टुप्metre not read in every line
genderक्लीneut.
नीरं वारि जलं दकं कमुदकं पानीयमम्भः कुशंतोयं जीवनजीवनीयसलिलार्णांस्यम्बु वाः संवरम् ।क्षीरं पुष्करमेघपुष्पकमलान्यापः पयःपाथसीकीलालं भुवनं वनं घनरसो यादोनिवासोऽमृतम् ॥ १०६९ ॥कुलीनसं कबन्धं च प्राणदं सर्वतोमुखम् ।
शार्दूलविक्रीडितम्
genderक्लीneut.
स्यात्सुधर्मा देवसभा पीयूषममृतं सुधा ॥ ४८ ॥
अनुष्टुप्metre not read in every line
genderक्लीneut.
मुक्तिः कैवल्यनिर्वाणश्रेयोनिःश्रेयसामृतम् ॥ ६ ॥मोक्षोऽपवर्गोऽथाज्ञानमविद्याहंमतिः स्त्रियाम् ।
अनुष्टुप्
genderक्लीneut.
आपः स्त्री भूम्नि वार्वारि सलिलं कमलं जलम् ।पयः कीलालममृतं जीवनं भुवनं वनम् ॥ ३ ॥कबन्धमुदकं पाथः पुष्करं सर्वतोमुखम् ।अम्भोऽर्णस्तोयपानीयनीरक्षीराम्बुशम्बरम् ॥ ४ ॥मेघपुष्पं घनरसस्त्रिषु द्वे आप्यमम्मयम् ।
अनुष्टुप्
genderक्लीneut.
genderक्लीneut.
genderक्लीneut.
कैवल्यं निर्वाणं निःश्रेयसममृतमक्षरं ब्रह्म ।अपुनर्भवोऽपवर्गो मुक्तिर्मोक्षो महानन्दः ॥ १२४ ॥
आर्या
genderक्लीneut.
भुवनं विष्टपं लोको जगदेकार्थवाचकाः ।अमृतं त्रिदशाहारः सुधा पीयूषमुच्यते ॥ १३३ ॥
अनुष्टुप्
genderक्लीneut.
आपस्तोयं घनरसपयः पुष्करं मेघपुष्पं,कं पानीयं सलिलमुदकं वारि वाः शम्बरं च ।अर्णः पाथः कुशजलवनं क्षीरमम्भोऽम्बु नीरं,प्रोक्तं प्राज्ञैर्भुवनममृतं जीवनीयं दकं च ॥ ६४८ ॥
मन्दाक्रान्ता
genderक्लीneut.
तत्समूहे झरा तु स्याझ्झरीति परिकीर्तितः ।पयः कीलालममृतं पुष्करं सर्वतोमुखम् ॥ ९६ ॥
अनुष्टुप्
genderक्लीneut.
शौनामृते मृतं तद्वदृतं चाप्यमृतं क्रमात् ।सेवाकृषिर्याचितं चायाचितं तु शिलोञ्छके ॥ ४४ ॥
अनुष्टुप्
genderक्लीneut.
अमृतं यज्ञशेषे स्याद्विघसो भुक्तशेषके ।राद्धं सिद्धमथो चारुव्रता मासोपवासिनी ॥ ९५ ॥
अनुष्टुप्
genderक्लीneut.
क्लीबे कैवल्यनिर्वाणश्रेयो निःश्रेयसामृते ।संन्यासवत्यनशनव्रते प्रायस्तु न स्त्रियाम् ॥ १८१ ॥
अनुष्टुप्
genderक्लीneut.
धूसरः श्वेतकृष्णश्च मकुष्टस्तु मयुष्टकः ।कृमीलको वनमुद्गो वल्लीमुद्गोऽमृतोऽपि च ॥ ५७ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 न (wrong syllable)
genderपुंmasc.
सर्पिरायुस्तैजसं स्यात् म्रक्षणं स्नेहनं पुनः ।अमृताह्वं जीवनीयं पवित्रं नवनीतजम् ॥ २२५ ॥
अनुष्टुप्
genderक्लीneut.
दुग्धं प्रस्रवणं धारि सौम्यमूधस्यमित्यपि ।पयोमृतं तन्नारीणां दुग्धे स्तन्यमतः परम् ॥ २२७ ॥
अनुष्टुप्
genderपुंक्लीm. n.
सूतो रसोत्तमो जैत्रश्चपलो रुद्रजः प्रभुः ।शिवाह्वः शिवबीजाह्वो लोकेशो दुर्द्धरोऽमृतः ॥ ५८५ ॥
अनुष्टुप्
genderपुंmasc.
वनं पवित्रममृतं कंवलं कं कुलीनसम् ।पानीयं पिप्पलं पीथं पातालं सर्वतोमुखम् ॥ ९ ॥
अनुष्टुप्
genderक्लीneut.
महानन्दोऽपवर्गः स्त्री निवृत्तिर्मुक्तिरित्यपि ।सिद्धिः क्लीबे ब्रह्म शिवं श्रेयो निःश्रेयसामृते ॥ १५४ ॥
अनुष्टुप्
genderक्लीneut.
मोक्षः स्यादपुनर्भवोऽपि च महानन्दोऽपवर्गस्तथादुःखौघप्रलयो महोदयद्रहः स्त्री निर्वृतिः सिद्धिवत् ।मुक्तिर्ब्रह्म नपुंसकेऽमृतशिवश्रेयांसि निःश्रेयसम्निर्वाणं सुखमक्षरं च कथितं कैवल्यमुच्चैःपदम् ॥ ३३ ॥
शार्दूलविक्रीडितम्metre not read in every linenearly शार्दूलविक्रीडितम्: pāda 2, syllable 10 य (wrong syllable)
genderक्लीneut.
पेयूषोऽस्त्री च पीयूषममृतं स्यात्सुधा बुधा ।विश्वकर्मा सुकर्माऽथ त्वष्टा च सुरवर्द्धकिः ॥ ११४ ॥
अनुष्टुप्
genderक्लीneut.
तिथिप्रणीश्च पाथोब्धिनवनीतमिहामृतम् ।प्रतिपच्चन्द्रमा मासप्रमितः परिकीर्त्तितः ॥ ६० ॥
अनुष्टुप्
genderक्लीneut.
स्त्रियामापो वारो बहुषु सलिलं वारि सरिलंजलं पाथः पीथं दकमुदकमम्भोऽम्बु च पयः ।कबन्धं कं पाथं घृतममृतमर्णो जनहितंकृपीटं पानीयं जलदकुसुमं पावन-वने ॥ १ ॥
शिखरिणी
genderक्लीneut.
सम्बर-शम्बर-कीलालान्न-प्राणद-पुष्कर-नीरापांसि ।पिप्पल-वैष्प(?)-कुलीनस-नारं शरमृत[63b]मूषः(?) सर्वग-तोयम् ॥ २ ॥
metre not recognised
genderक्लीneut.
दध्ना युते मधुन्यस्त्री मधुपर्क्कं महोदयः ।यज्ञशेषे सुरोच्छिष्टममृतं च प्रकीर्त्तितम् ॥ ६० ॥
अनुष्टुप्
genderक्लीneut.
ऋतं द्वे अमृतं तु स्यादयाचितमथो मृतम् ।याचितं स्याद्वणिज्या तु न ना वाणि[125b]ज्यमन्तिमे ॥ ३ ॥
अनुष्टुप्metre not read in every line
genderक्लीneut.
सक्तोऽक्षद्यूतपानेषु विचित्रा शब्दपद्धतिः ।सर्पिर्हैयङ्गवीनाज्यं दुग्धं क्षीराऽमृतं पयः ॥ १२२ ॥
अनुष्टुप्
genderक्लीneut.
तेषामन्धोऽमृतं पेयूषं पीयूषमपि स्मृतम् ।समुद्रनवनीतं च सुधा यानमथोच्यते ॥ ५२ ॥
अनुष्टुप्
genderक्लीneut.
आपः स्त्रियां बहुत्वे च मेघपुष्पार्णसी मते ।अमृतं प्राणदं नारं ? जीवनीयाम्बुनी अपि ॥ ३४६ ॥
अनुष्टुप्
genderक्लीneut.
कैवल्यममृतं सिद्धिर्महानन्दोऽपुनर्भवः ।मुक्तिर्ब्रह्म शिवं मोक्षो निर्वृतिः श्रेयसा सह ॥ २६६ ॥
अनुष्टुप्
genderक्लीneut.
उञ्छमुञ्छशिलं कुञ्चं शिलोञ्छं च शिलातलम् ।स्यादयाचितवृत्तौ स्यादमृतं मृतमन्यथा ॥ ४०८ ॥
अनुष्टुप्
genderक्लीneut.
सदाफलं मिष्टरसममृ[म्रू]तं मिहिकाम्रकम् ।आर्द्रकं नागरं तीक्ष्णं शुण्ठ्युष्मा? विश्वभेषजम् ॥ २१५ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
genderक्लीneut.
रत्नाकरः सरिद्भर्त्ता यादोनाथो हिमांशुभूः ।सूधा पीयूषाममृतं सुरान्धः षड्रसाधिकम् ॥ २७९ ॥
अनुष्टुप्
genderक्लीneut.
अमृतं जीवनं वारि सलिलं भुवनं पयः ।कबन्धमर्णोम्भस्त्योयमुदकं ककुशं शरम् ॥ २८० ॥
अनुष्टुप्
genderक्लीneut.
पुलोमजा शचीन्द्राणी पीयूषममृतं सुधा ।हाहा हूहूश्च गन्धर्वो विश्वकर्मा तु शिल्पिकृत् ॥ ४४ ॥
अनुष्टुप्
genderक्लीneut.
उदकं पुष्करं क्षीरममृतं सर्वतोमुखम् ।कङ्कबन्धं घनरसमापो वा कमलं विषम् ॥ १११ ॥
अनुष्टुप्
genderक्लीneut.
मोक्षोऽपवर्गो निर्वाणं मुक्तिर्निःश्रेयसं शिवः ।महोदयोऽमृतं सिद्धिः कैवल्यमपुनर्भवः ॥ १४८ ॥
अनुष्टुप्
genderक्लीneut.
गोकुलं तु व्रजो घोषो गोष्ठं गोपास्तु बल्लवाः ।दुग्धं पयोऽमृतं क्षीरं गोरसः क्षीरजं दधि ॥ ५० ॥
अनुष्टुप्
genderक्लीneut.
महानन्दोऽमृतं मुक्तिः मोक्षो ब्रह्म महोदयः ।श्रेयो निःश्रेयसं सिद्धिः कैवल्यमपुनर्भवः ॥ ४८ ॥
अनुष्टुप्
genderक्लीneut.
पीयूषं चापि पेयूषं देवभोज्यं सुधाऽमृतम् ।देवाहारश्च देवान्नं समुद्रनवनीतकम् ॥ ७० ॥
अनुष्टुप्
genderक्लीneut.
ऊधस्यममृतं गव्यं स्तन्यं योग्यं रसोत्तमम् ।बालसात्म्यं मधुज्येष्ठं जीवनीयं सरं रसम् ॥ ६०४ ॥
अनुष्टुप्
genderक्लीneut.
अमृतं यज्ञशेषश्च यज्ञशिष्टे हि वस्तुनि ।विघसो भृक्तशेषको यज्ञे भुङ्क्ते हि योऽधिकम् ॥ १३९० ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 7 ष (wrong syllable)
genderक्लीneut.
कबन्धं कमलं चाऽम्भः कमन्धं शम्बरं दकम् ।अर्णोऽम्बु चाऽमृतं कं वाः आपोऽप् च सर्वतोमुखम् ॥ १८५६ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 च (wrong syllable)
genderक्लीneut.
सुधर्मा च सुधर्मा स्यादमृतं निर्जरं सुधा ।पीयूषमपि पेयूषं समुद्र-नवनीतकम् ॥
अनुष्टुप्
genderक्लीneut.
या बुद्धिः शिल्पशास्त्रादौ विज्ञानं तत् प्रकीतितम् ।मुक्तिर्निःश्रेयसं श्रेयः कैवल्यममृतं परम् ।मोक्षोऽपवर्गो निर्वाणं मुक्तिपर्याय ईरितः ॥
अनुष्टुप्
genderक्लीneut.
अर्णः कवन्धममृतं मेघपुष्पञ्च कम्बलम् ।नारा घनरसः पात आपः स्यन्दनसम्बलम् ॥
अनुष्टुप्
genderक्लीneut.
अमृतं यज्ञशेषे स्यात् विघसो भुक्तशेषके ।दानं प्रदानं ददनं दायस्त्यागो विसर्जनम् ॥
अनुष्टुप्
genderक्लीneut.
विधिहृदयमनङ्गो मृत्युरुर्वी नभस्वां-स्तपनशशिमयूखा जातवेदाश्च वेदाः ।अमृतमचिररोचिर्दक्षकन्ये जलं चत्रिदशपुरवधूनां जन्मनः कारणानि ॥ ८७ ॥
मालिनी
genderक्लीneut.
पिशाचाः कापिशेयाः स्युः सिद्धास्तु सनकादयः ।सुधा त्वमृतपीयूषे सुधर्मा दिविषत्सभा ॥ ९० ॥
अनुष्टुप्
genderक्लीneut.
मुक्तिनिर्वाणकैवल्यब्रह्मनिःश्रेयसामृतम् ।मोक्षोऽपवर्गः सत्त्वोऽस्त्री प्रधानं प्रकृतिः स्त्रियाम् ॥ २७५ ॥
अनुष्टुप्
genderक्लीneut.
अम्भःपुष्करवारितोयजलवाःपाथोवनार्णःपयः-पनीयोदकमेघपुष्पसलिलक्षीराम्बुनीरामृतम् ।कीलालं भुवनं कबन्धकमले तज्जीवनं शम्बरंनारः पुंसि कमव्यये धनरसो नापस्तु भूम्नि स्त्रियाम् ॥ ३१८ ॥
शार्दूलविक्रीडितम्metre not read in every linenearly शार्दूलविक्रीडितम्: pāda 2, syllable 1 प (wrong syllable)
genderक्लीneut.
ते तु सभ्याः सभास्तारा अमृतं यज्ञशेषके ।चौलं तु भद्राकरणं वपनं परिवापणम् ॥ १२३० ॥
अनुष्टुप्
genderक्लीneut.
ऋतं तदुभयं लब्धममृतं स्यादयाचनात् ।मृतं तु याचितं कृष्यामनृतप्रमृते उभे ॥ १३९६ ॥
अनुष्टुप्
genderक्लीneut.
महाब्राह्मी वासुदेवो धनेशः केशवोऽमृतम् ।कीर्त्तिर्निवृत्तिर्वागीशो नरकारिर्हरो मरुत् ॥ ६ ॥
अनुष्टुप्
genderक्लीneut.
झिण्टीशः पद्मनाभश्च शक्तिर्दक्षः क्षमाऽमृतम् ।भग ऊर्ध्वं कामरूप ए-कारश्च त्रिकोणकः ॥ १३ ॥
अनुष्टुप्
genderक्लीneut.
ठकारो लाङ्गली चैव दक्षोरुर्वर्त्तुलः पुनः ।पूर्णचन्द्रामृताख्यौ च तथा करतलद्वयम् ।वनजो जीवनो जीवो वृषघ्नश्चन्द्रकः सुधा ॥ ३७ ॥
अनुष्टुप्
genderक्लीneut.
सकारः शक्तिनामा च चन्द्रपिण्डः शशी तथा ।प्रकृतिर्मूर्तिरेवाशुरीश्वरः शक्तिरूपकः ।जगद्बीजं जलाख्यश्च परमात्माऽमृतः स्मृतः ॥ ५७ ॥
अनुष्टुप्
genderपुंmasc.
दुःखलोको भवश्चैव संसारः कष्टचारकः ।निर्वाणमन्तको मोक्षः शीतिभावः शमोऽमृतम् ॥ ११ ॥
अनुष्टुप्
genderक्लीneut.
मृतं क्ली याचितं भैक्षममृतं स्यादयाचितम् ।उंछो धान्यश आदानं कणिशाद्यार्जनं सिलम् ॥ २ ॥
अनुष्टुप्
genderक्लीneut.
ऊधस्यं जीवनीयं च धारोष्णं त्वमृतं पयः ।आसप्ताहात्तु पीयूषं ततो मोरटमोरके ॥ १४६ ॥
अनुष्टुप्
genderक्लीneut.
नूत्ने त्वभिनवो नव्यो नवीनो नूतनो नवः ।शाश्वते त्वमृतो नित्यः सनातनसदातनौ ॥ ८८ ॥
अनुष्टुप्
genderविadj.
अयाचिते स्याच्च घृते सुधायांस्त्रियां गुडूच्यामलकाभयासु ।असत्यकृष्योरनृतं हरौ तुप्रोक्तोऽजितो निर्जितकेऽन्यवत्स्यात् ॥ ७० ॥
उपजातिः
doubtful
धारोष्णदुग्धेऽप्यमृतो क्षीरमात्रे धनञ्जयः ।एतेष्वर्थेषु जानीयात् क्लीबं वेदे तु पुंस्ययम् ॥ २ ॥
अनुष्टुप्
मागध्यां चाह सूर्यस्य पुनस्तेषु गभस्तिषु ।ये वृष्टिसर्जने प्रोक्ता येषा सङ्ख्या चतुःशती ॥ ४ ॥
अनुष्टुप्
doubtful
त्रिस्त्वप्र(ती?मी)त एकान्तसुन्दरे स्वादुनित्ययोः ।हृद्ये चाथाक्षरः पुंसि विरिञ्चे विष्णुखड्गयोः ॥ ५ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 1 त्रि (syllables merged)
doubtful
कज्जलेऽथाञ्जना माता मारुतेरमरः सुरे ।स्नुहीवृक्षेऽस्थिसंहारकव्योरमृतमम्बरे ॥ २७ ॥
अनुष्टुप्
meaningsअम्बर
रसायने यज्ञशेषे तोये हृद्ये च गोरसे ।माक्षीकवर्णयोरन्ने सुधाकैवल्ययोरथ ॥ २८ ॥
अनुष्टुप्
doubtful
अयाचिते जले मोक्षे त्रिषु स्यात् स्वादुनित्ययोः ।अप्पती वरुणाम्भोधी अगस्त्यौ मुनिपादपौ ॥ २०३७ ॥
अनुष्टुप्
doubtful
क्लीबो ना त्वमरे स्त्री तु गुलूच्यां मद्यभिक्षयोः ।आमलक्यां हरीतक्यां त्रिषु तु स्वादुनित्ययोः ॥ ८ ॥
अनुष्टुप्
doubtful
अमृत as a meaning in nānārtha verses
- नामलिङ्गानुशासनम् घृतवार्तं फल्गुन्यरोगे च त्रिष्वप्सु च घृतामृते । Amarakośa 3.3.148
- नामलिङ्गानुशासनम् सुधावधूर्जाया स्नुषा स्त्री च सुधा लेपोऽमृतं स्नुही । Amarakośa 3.3.196
- धरणिकोश सुधाविधा विधौ प्रकारे च गजान्नवेतनर्धिषु । सुधा लेपोऽमृतं मूर्वा गङ्गेष्टिका स्नुही सुधा ॥ Dharaṇikośa 18.2.2
- कोषकल्पतरु कञ्जसञ्जो विरिञ्चौ च हरेऽथ कञ्जः । केशे विरिञ्चे[267b]चरमे तु पद्मे- ऽमृतेऽथ कामे च[हरे]हरौ च ॥ २० ॥ Koṣakalpataru 6.7.20
- कोषकल्पतरु सुधाबाधा निषेधेऽपि च दुःख उक्ता सुधा तु मूर्वाविकसास्नुहीषु । विलेपवस्तुन्यमृतेऽथ संधा स्थितौ च संवि[8b]द्यथ लालसायाम् । श्रद्धातिभक्तौ क्रमतस्तु वृद्धौ स्पर्धापि संघर्षणसाम्ययोः स्यात् । मुग्धोऽन्यवत्सुन्दरमूढयोः स्या- द्विधुः सुधांशौ गरुडध्वजे च ॥ ६४ ॥ Koṣakalpataru 6.20.64
- कोषकल्पतरु पेयूषस्यात्सप्तघस्रावधिदुग्धकेऽन्त्ये पीयूषमुक्तं च तथा सुधायाम् । पेयूषमस्त्री ह्यभिनव्यदुग्धे- ऽमृतेऽथ शैलूषमुशन्ति बिल्वे ॥ ५५ ॥ Koṣakalpataru 6.30.55
- नानार्थार्णवसंक्षेप सुधागङ्गेष्टिकायां कुड्यादिलेपद्रव्यान्तरेऽमृते । स्नुह्यां स्थूणा तु गेहस्य स्तम्भे वातादिषु त्रिषु ॥ १२३ ॥ Nānārthārṇavasaṃkṣepa 2.1.123
- नानार्थार्णवसंक्षेप रसरेतस्यास्वादने हेम्नि निर्यासेऽमृतशब्दयोः । देहधातुविशेषे च शृङ्गारादौ फले जले ॥ १०७८ ॥ Nānārthārṇavasaṃkṣepa 2.5.1078
- नानार्थार्णवसंक्षेप सोमसोमो ब्रह्मणि पूष्णीन्तो वह्नौ पुण्ये लतान्तरे । याज्ञिकानां प्रसिद्धे ना ----- चामृते ॥ १५६२ ॥ Nānārthārṇavasaṃkṣepa 2.5.1562
- नानार्थार्णवसंक्षेप कीलालब्रह्मास्ये च वने चाथ कीलालं रुधिरे जले । अन्ने पक्कान्ननिःष्यन्देऽप्यमृते रभसोऽपठीत् ॥ २३ ॥ Nānārthārṇavasaṃkṣepa 3.3.23
- नानार्थार्णवसंक्षेप पीयूषपीयूषं त्वमृते दुग्धे नवसूतगवीभवे । पुरीषं मृत्तिकाचूर्णे विष्ठायां सलिलेऽपि च ॥ ५७ ॥ Nānārthārṇavasaṃkṣepa 3.3.57
- परमानन्दीयनाममाला ललोऽमृते चलने शक्रे ला दाने लीस्तु कङ्कणे । श्लेषबन्धनयोः श्रीश्च सरलद्रवसम्पदोः ॥ ३८ ॥ Paramānandīyanāmamālā 1.38
- परमानन्दीयनाममाला क्षीरदुग्धेऽमृते जले क्षीरं क्षितिर्भूम्यां गृहेऽपि च । कुशाग्रबुद्धयो धीरा भवन्तः प्रणमाम्याहम् । वाणीयमर्थहीनापि कृपयैव विलोक्यताम् ॥ ३८३ ॥ Paramānandīyanāmamālā 5.29.383
- शिवकोष पीयूषपेयूषमपि पीयूषं नवे क्षीरेऽपि चामृते । शिरीषो मृदुपुष्पे च कृष्णपाकफलेऽपि च ॥ ५२० ॥ Śivakoṣa 26.2.520
- शब्दरत्नावली सुधासुधा गङ्गेष्टकामूर्वीस्नुहीलेपामृतेषु च । Śabdaratnāvalī 7.19.21
- शब्दरत्नावली पीयूषपीयूषममृते सप्तदिवसावधिदुग्धके । पुरुषः सांख्यतत्त्वज्ञे पुन्नागभूरुहात्मनोः । पौरुषं पुरुषस्यैव प्रभावे कर्मभावयोः । ऊर्द्धविस्तृत …मारिषी दक्षमातरि ॥ Śabdaratnāvalī 7.31.22
- शब्दरत्नाकर रसरसो रागे विषे वीर्ये शृङ्गारादौ पराक्रमे । तक्तादौ पारदे शब्दे रेतस्यास्वादनेऽमृते ॥ १९८५ ॥ Śabdaratnākara 4.1.1985
- शब्दरत्नाकर पीयूषपीयूषममृतं ना तु नवसूतगवीपयः । पिनाकोऽजगवे पुंसि रजोवर्षे तु वा नरि ॥ २१३१ ॥ Śabdaratnākara 4.1.2131
- शब्दार्णव रसशृङ्गारादौ जले वीर्ये सुवर्णे विषशुक्रयोः । तिक्तादावमृते चैव निर्यासे पारदे ध्वनौ ॥ Śabdārṇava 254
- तन्त्राभिधान ठवर्त्तुलः कुण्डलं वह्निरमृतं चन्द्रमण्डलः । दक्षजानूरुभावौ च देवभक्षो बृहद्धनिः ॥ ९३ ॥ Tantrābhidhāna 2.29.93
- तन्त्राभिधान लखड्गी नादोऽमृतं देवी लवणं वारुणी पतिः । शिखा वाणी क्रिया माता भामिनी कामिनीप्रिया ॥ १४९ ॥ Tantrābhidhāna 2.45.149
- तन्त्राभिधान सप्रकृतिरीश्वरः शुद्धः प्रभा श्वेतः कुलोज्ज्वलः । दक्षपादोऽमृतं ब्राह्मी परमात्मा परोऽक्षरः ॥ १६० ॥ Tantrābhidhāna 2.49.160
- वैजयन्ती रसरसो रागे विषे वीर्ये तिक्तादौ पारदे द्रवे । रेतस्यास्वादने हेम्नि निर्यासेऽमृतशब्दयोः ॥ ४९ ॥ Vaijayantī 6.1.49
- वैजयन्ती सुधागंगेष्टिमूर्वयोः स्नुह्यां लेपभेदेऽमृते सुधा । रश्मिमेखलयोः स्यूना सीता सस्ये हलाध्वनि ॥ ४५ ॥ Vaijayantī 6.2.45
- वैजयन्ती पीयूषनवसूतगवीदुग्धे पीयूषममृतेऽपि च । प्रमाणं बोधनेयत्तामर्यादाशास्त्रहेतुषु ॥ २३ ॥ Vaijayantī 7.3.23