झरी
jharīस्त्री · fem.In 7 kośas: 7 synonym verses.
तत्समूहे झरा तु स्याझ्झरीति परिकीर्तितः ।पयः कीलालममृतं पुष्करं सर्वतोमुखम् ॥ ९६ ॥
अनुष्टुप्
genderस्त्रीfem.
अधिरूढाऽधित्यकाऽद्रेरासन्ना भूरुपत्यका ।गिरेः पतत्प्रवाहे स्याज्झरी झरिरुभे स्त्रियौ ॥ २१ ॥
अनुष्टुप्
genderस्त्रीfem.
झरा झरिर्झरी स्त्रीत्वे प्रवाहो वाहसो रयः ।ओघो धारा-वेणि-वेण्यः पूरो*वर्धनं प्लवः ॥ २४ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 वे (syllables merged)
genderस्त्रीfem.
स्वरुः शम्भो भिदुर्वज्रं दम्भोलिर्भिदुरं पविः ।पवी झरी गिरी(रि?) कण्ठो(ण्टो?) व्याधावः शबलोऽक्षजः ॥ ६७ ॥
अनुष्टुप्
genderस्त्रीfem.
नदी शुक्तिमती वेगवती च तटिनी झरी ।स्रोतस्विनी द्वीपवती स्रवन्ती निम्नगापगा ॥ ५ ॥
अनुष्टुप्
genderस्त्रीfem.
आवालोऽस्त्री, उत्स उत्सुः स्रवः प्रस्रवणं झरः ।झरी झरा निर्झरश्च, वह्नावग्निस्तु पुं-स्त्रियोः ॥ १११ ॥
अनुष्टुप्
genderस्त्रीfem.
झरी तु निर्झरझरावुत्सः प्रस्रवणं गिरेः ।शुण्डी शौण्डं चूतको ना पादाः पर्यन्तपर्वताः ॥ ४१५ ॥
अनुष्टुप्
genderस्त्रीfem.