कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

क्रव्य

kravyaक्ली · neut.

In 13 kośas: 13 synonym verses.

अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य मर्त्यकाण्डः Abhidhānacintāmaṇi 3.365 · p. 27
रक्तं रुधिरमाग्नेयं विस्रं तेजोभवं रसात् ।शोणितं लोहितमसृक्वासिष्ठं प्राणदासुरे ॥ ६२१ ॥क्षतजं मांसकार्यस्त्रं मांसं पललजङ्गले ।रक्तात्तेजोभवे क्रव्यं काश्यपं तरसामिषे ॥ ६२२ ॥मेदस्कृत्पिशितं कीनं पलं पेश्यस्तु तल्लताः ।
अनुष्टुप्
genderक्लीneut.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह मनुष्यवर्गः Amarakośa 2.6.109
पिशितं तरसं मांसं पललं क्रव्यमामिषम् ।
अनुष्टुप्
genderक्लीneut.
हलायुधकोशः (अभिधानरत्नमाला) Abhidhānaratnamālā (Halāyudha) · हलायुध पातालकाण्डम् Abhidhānaratnamālā (Halāyudha) 3.631 · p. 72
पललं जाङ्गलं मांसं पलं पिशितमामिषम् ।क्रव्यं तरसमेकार्थं विस्रं स्यादामगन्धिकम् ॥ ६३१ ॥
अनुष्टुप्
genderक्लीneut.
कल्पद्रुकोशः Kalpadrukośa · केशव नरादिप्रकाण्डः Kalpadrukośa 1.4.225 · p. 45
तेजस्त्वक् क्षतजन्मार्थं काश्यपं मांसजो रसः ।मांससारोप्यथो मांसं पिशितं क्रव्यमामिषम् ॥ २२५ ॥
अनुष्टुप्
genderक्लीneut.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ वनौषधिवर्गः Koṣakalpataru 2.3.32 · p. 222
मांसकृच्छोणितमसृग्वाशिष्टं प्राणदं तथा ।आसुरं क्षतजन्माथ क्रव्यं पललमस्रजम् ॥ ३२ ॥
अनुष्टुप्
genderक्लीneut.
मांसाभिधानं विवराभिधानं च तीर्थतुण्डे च नपुंसके विद्धि जानीहि । यथा मांसं पलं पललं क्रव्यमित्यादि । इदं विवरं बिलं छिद्रं रन्ध्रं कुहरं सुषिरमित्यादि । इदं तीर्थं पुण्यस्थानम् । तुण्डं वक्त्रम् । यवमाषाद्या व्रीहयः पुंसि । यथा इमे माषाः मुद्गाः कुलत्थाः सोष्टाः गोधूमाः तिलाः कलापाः मसूराः सर्षपाः । प्रियङ्गवश्च स्त्रियामेव । इमाः प्रियङ्गवः ।पल्लव उक्तः पुंसि नपुंसके किसलयं स्त्रियां लाक्षा ।ऋग्रोचना पिडका कण्डूः क्षपा चैव ॥ ५७ ॥
metre not recognised
genderक्लीneut.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास चतुर्थः परिच्छेदः Paramānandīyanāmamālā 4.279 · p. 135
पललं जङ्गलं क्रव्यं मांसं स्याद्रक्तसंभवम् ।काश्यपं रक्ततेजोऽपि मेदस्कृत्तरसं तथा ॥ २७९ ॥
अनुष्टुप्
genderक्लीneut.
पर्यायशब्दरत्न Paryāyaśabdaratna · धनञ्जयभट्ट मध्यमलोकसर्गः Paryāyaśabdaratna 2.129 · p. 42
असृग्धरा त्वचि प्रोक्ता मांसे वल्लूरमिष्यते ।वल्लुरं तरसं क्रव्यमुत्तप्तं तप्तमिष्यते ॥ १२९ ॥
अनुष्टुप्
genderक्लीneut.
शारदीयाख्यनाममाला Śāradīyākhyanāmamālā · हर्षकीर्ति शूद्रवर्गः Śāradīyākhyanāmamālā 3.4.63 · p. 40
आमिषं पिशितं मांसं पलं क्रव्यं च जङ्गलम् ।रुधिरं शोणितं रक्तमस्रं क्षतजमप्यसृक् ॥ ६३ ॥
अनुष्टुप्
genderक्लीneut.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि मर्त्यविभागः Suśīlanāmamālā 4.1003 · p. 154
जङ्गलं लेपनं कीनमुद्धसं तरसं तथा ।उद्धः रक्तभवं क्रव्यमाऽऽरटं च समारटम् ॥ १००३ ॥
अनुष्टुप्
genderक्लीneut.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश सिंहादिवर्गप्रकाशः Śabdaratnāvalī 3.5.251 · p. 99
मांसहासा वर्णलक्ष्यं खेटखल्ले च कुत्रचित् ।आमिषं मांसपिशिततरसं पललं पलम् ।क्रव्यञ्च त्रिषु वल्लूरमुत्तप्तं शुष्कमांसके ॥
अनुष्टुप्metre not read in every line
genderक्लीneut.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण मनुष्याध्यायः Śabdaratnākara 3.1.1113 · p. 137
पिशितपलपललतरसक्रव्यामिषजाङ्गलानि मांसे स्युः ।असृगस्ररुधिरलोहितरक्तक्षतजास्रशोणितं तु समम् ॥ १११३ ॥
गीतिः
genderक्लीneut.
वैजयन्ती Vaijayantī · यादवप्रकाश भूताध्यायः Vaijayantī 4.4.106 · p. 181
आग्नेयं प्राणदं विस्रं वासिष्ठं शोणितासृजी ।मांसं तु काश्यपं क्रव्यं तरसं पललं पलम् ॥ १०६ ॥
अनुष्टुप्
genderक्लीneut.