कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

पीयु

pīyuपुं · masc.

In 6 kośas: 6 synonym verses, 4 as a nānārtha head word.

कल्पद्रुकोशः Kalpadrukośa · केशव सरभादिप्रकाण्डः Kalpadrukośa 1.12.99 · p. 328
उलूकः पेचको घूकस्तामसो घोरदर्शनः ।घर्घरः काशिकः पीयुर्दिवाभीतो निशाटनः ॥ ९९ ॥
अनुष्टुप्
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव कालप्रकाण्डः Kalpadrukośa 2.4.1 · p. 405
कालोऽपष्ठुर्जहोदिष्टोऽनेहाः पीथो मतिस्तिथः ।आमतिः समयः पीयुरथ वास्रस्तु वासरः ॥ १ ॥
अनुष्टुप्
genderपुंmasc.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ कालवर्गः Koṣakalpataru 1.4.1 · p. 39
कालोऽमतिश्चायतिरप्यनेहास वत्सरात्मा समयो भवन्तः ।पारुश्च पीयुर्जहकोऽपि जिव्रि-र्यातुश्च दिष्टो लग्नः सर्वमुट् च ॥ १ ॥
उपजातिःmetre not read in every linenearly उपजातिः: pāda 2, syllable 6 ल (wrong syllable); pāda 2, syllable 7 ग्नः (wrong syllable)
genderपुंmasc.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ वनौषधिवर्गः Koṣakalpataru 2.3.4 · p. 197
घूत्काकरो दिवाभीतो दिवान्धो हृदिलोचनः ।प्रतिसूर्यः काकरूकः काकः पीयुः सकृत्प्रजः ॥ ४ ॥
अनुष्टुप्
genderपुंmasc.
त्रिकाण्डशेष Trikāṇḍaśeṣa · पुरुषोत्तमदेव कालवर्गः Trikāṇḍaśeṣa 1.4.22 · p. 18
पीथः पीयुस्तिथश्चाऽथ वास्रो व्युष्टांशके दिनम् ।उषा प्रभातं गोसर्गः सायोऽत्सूरौ विकालके ॥ २२ ॥
अनुष्टुप्
genderपुंmasc.
त्रिकाण्डशेष Trikāṇḍaśeṣa · पुरुषोत्तमदेव सिंहादिवर्गः Trikāṇḍaśeṣa 2.5.14 · p. 45
पारावतोऽथ शक्राख्यो दिवान्धो वक्रनासिकः ।हरिनेत्रो दिवाभीतो नखाशी पीयुघर्घरौ ॥ १४ ॥
अनुष्टुप्
genderपुंmasc.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ यान्ताः Koṣakalpataru 6.26.9 · p. 287
पीयुस्तु काले च रवौ ययुस्तुक्रत्व[श्व]चेष्टासु [हये]मयुस्तु ।[तु]रङ्गवक्त्रेऽथ मखे च मन्युःक्रोधे च दैन्ये च तथा प्रदिष्टः ॥ ९ ॥
उपजातिः
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् नानालिङ्गाध्यायः Nānārthārṇavasaṃkṣepa 2.5.782 · p. 109
फालास्थिखण्डकेऽप्येनं द्वे त्विभे पीयुवाक् तु ना ।आदित्ये किरणे काले स्यादुलूके तु स द्वयोः ॥ ७८२ ॥
अनुष्टुप्
शब्दरत्नावली Śabdaratnāvalī · मथुरेश यान्ताः Śabdaratnāvalī 7.26.19 · p. 258
प्रायस्तुल्ये च बाहुल्ये मृत्यावनशनेऽपि च ।प्रियो वृद्धौषधे पुंसि हृदये स्यादभिधेयवत् ॥पीयुर्यूके रवौ काले पुंसि क्लीबं रतस्वने ।पुण्यं धर्मे च सुकृते क्लीबं स्याच्छोभने त्रिषु ॥पुष्यो मासे ऋक्षभेदे तथा कलियुगे पुमान् ।पूज्यस्तु श्वशुरे पुंसि वन्द्ये च भवति त्रिषु ॥वन्ध्या स्यादप्रजस्त्रीषु पुमानफलभूरुहे ।वर्या पतिम्बरायां स्त्री श्रेष्ठे त्रिषु पुमान् स्मरे ॥बल्यं प्रधानधातौ स्यात्क्लीबं बलकरेऽन्यवत् ।वीर्यं तेजसि सामर्थ्ये दीप्तौ शुक्रप्रभावयोः ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 1 हृद (syllable split)
वैजयन्ती Vaijayantī · यादवप्रकाश पुंलिङ्गाध्यायः Vaijayantī 6.1.32 · p. 216
पीयुः काल उलूके च पीलुः काण्डे गजे द्रुमे ।पुण्ट्राः कृमीक्षुतिलकाः पत्री श्येने शरे खगे ॥ ३२ ॥
अनुष्टुप्