कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

श्येन

śyenaपुं · masc.

In 15 kośas: 20 synonym verses, 7 as a nānārtha head word, 12 as a meaning of another word.

अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य देवाधिदेवकाण्डः Abhidhānacintāmaṇi 1.48 · p. 5
वृषो गजोऽश्वः प्लवगः क्रौञ्चोऽब्जं स्वस्तिकः शशी ।मकरः श्रीवत्सः खड्गी महिषः सूकरस्तथा ॥ ४७ ॥श्येनो वज्रं मृगश्छागो नन्द्यावर्तो घटोऽपि च ।कूर्मो नीलोत्पलं शङ्खः फणी सिंहोऽर्हतां ध्वजाः ॥ ४८ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 व (wrong syllable)
genderपुंmasc.
अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य पञ्चेन्द्रियाः Abhidhānacintāmaṇi 4.9.1334 · p. 51
चिल्लः शकुनिरातापी श्येनः पत्त्री शशादनः ॥ १३३४ ॥
अनुष्टुप्
genderपुंmasc.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह सिंहादिवर्गः Amarakośa 2.5.19
पारावतः कलरवः कपोतोऽथ शशादनः ॥ १४ ॥पत्री श्येन उलूकस्तु वायसारातिपेचकौ ।दिवान्धः कौशिको घूको दिवाभीतो निशाटनः ।
अनुष्टुप्metre not read in every line
genderपुंmasc.
हलायुधकोशः (अभिधानरत्नमाला) Abhidhānaratnamālā (Halāyudha) · हलायुध भूमिकाण्डम् Abhidhānaratnamālā (Halāyudha) 2.253 · p. 31
पक्षैराधूसरैर्हंसाः कलहंसा इति स्मृताः ।प्रोच्यन्ते प्राचिकाः श्येनाश्चटिकाः क्षुद्रपक्षिकाः ॥ २५३ ॥
अनुष्टुप्
genderपुंmasc.
बालप्रबोधिका Bālaprabodhikā · नत्कीर चतुर्दशोपदेशः Bālaprabodhikā 14.296 · p. 93
व्याघ्राटस्तु भरद्वाजः क्षिप्रः श्येनः सपर्णिकः ।वाचालमुखराशारिकोयष्टिः शेखरीति च ॥ २९६ ॥
अनुष्टुप्
genderपुंmasc.
बालप्रबोधिका Bālaprabodhikā · नत्कीर चतुर्दशोपदेशः Bālaprabodhikā 14.301 · p. 93
गृध्रस्तु पुरुषव्याघ्रो दूरदर्शी सुदर्शनः ।शशादनो वर्तुलाक्षः श्येनोऽपि च निगद्यते ॥ ३०१ ॥
अनुष्टुप्
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव क्षत्रियप्रकाण्डः Kalpadrukośa 1.6.193 · p. 110
व्रध्नः पतङ्गो हेषी स्यात्सुपर्णः श्येन इत्यपि ।वीतिः सप्तिर्दधिक्रावा वातस्कन्धार्थ इत्यपि ॥ १९३ ॥
अनुष्टुप्
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव सरभादिप्रकाण्डः Kalpadrukośa 1.12.87 · p. 327
अपि संघातचारी स्यात् मेरुतुण्डो महाखगः ।श्येनस्तरस्वी दाक्षाय्यो दूरदर्शी शशादनः ॥ ८७ ॥
अनुष्टुप्
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव नाट्यप्रकाण्डः Kalpadrukośa 2.5.161 · p. 435
वदात उज्ज्वलः श्येतः श्येनः स्याच्छुभ्रमव्ययम् ।अवदातः सितो गौरो विज्ञेयश्चार्जुनः पुनः ॥ १६१ ॥
अनुष्टुप्
genderविadj.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ धीवर्गः Koṣakalpataru 1.5.26 · p. 56
रूपे चाक्षुषमब्ज इत्यनुभवेर्वर्योपि(?) वर्णो स्त्रियांश्वेतादित्रिषु तद्युतेष्वथ सितः शुक्लोऽवदातः शुचिः ।श्येनः शुभ्र-वलक्ष-शुद्ध-धवलाः श्वेतश्च गौरोऽर्जुनःस्यादस्मिन्खरु-पाण्डरौ च विशदः शौक्लं तु भावेऽन्तिमे ॥ २६ ॥
शार्दूलविक्रीडितम्
genderविadj.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ वनौषधिवर्गः Koṣakalpataru 2.3.82 · p. 196
श्येन आपतिकः पत्री शशादी प्राचिका स्त्रियाम् ।पक्षिणा येन गृह्यन्ते पक्षिणोऽन्ये स दीपकः ॥ ८२ ॥
अनुष्टुप्
genderपुंmasc.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास तृतीयः परिच्छेदः Paramānandīyanāmamālā 3.235 · p. 81
शशादनः श्येनचिल्लावातापी शकुनिश्च सः ।दूरदृग्गृध्रदाक्षाय्या रक्ततुण्डशुकौ समौ ॥ २३५ ॥
अनुष्टुप्
genderपुंmasc.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि पञ्चेन्द्रियजीवनामानि Suśīlanāmamālā 5.9.252 · p. 390
श्येनः शशादनः पत्री नामानि श्येनपक्षिणः ।
अनुष्टुप्
genderपुंmasc.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश सिंहादिवर्गप्रकाशः Śabdaratnāvalī 3.5.36 · p. 84
श्येनः पत्री कपोतारीः पतद्भीरुः शशादनः ।पेचको बायसारातिर्दिवाभीतिर्निशाचरः ॥
अनुष्टुप्
genderपुंmasc.
शब्दरत्नाकर Śabdaratnākara · वाचनाचार्यश्रीसाधुसुन्दरगणि षष्ठः काण्डः Śabdaratnākara 6.15 · p. 250
शितिः श्वेतः श्येतः श्येनः शुभ्रिः शुभ्रश्च पाण्डुरः ।पाण्डुर-पाण्डू गोराप्तो गौरः पीतेऽरुणेऽप्यमू ॥ १५ ॥
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 5 श्ये (wrong syllable); pāda 3, syllable 2 ण्डु (wrong syllable)
genderविadj.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण शकुन्ताध्यायः Śabdaratnākara 2.5.795 · p. 101
व्याघ्राटस्तु भरद्वाजः श्येनः क्षिप्रः सुपर्णकः ।श्येनी तु प्राचिका दार्वाघाटस्तु शतपत्रकः ॥ ७९५ ॥
अनुष्टुप्
genderपुंmasc.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण शकुन्ताध्यायः Śabdaratnākara 2.5.796 · p. 101
जीवंजीवो जीवजीवः श्येनः पत्री शशादनः ।जलरङ्कुस्तु नत्यूहो दात्यूहः कलकण्ठकः ॥ ७९६ ॥
अनुष्टुप्
genderपुंmasc.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण उक्तशेषाध्यायः Śabdaratnākara 3.8.1764 · p. 213
सत्यश्रवाः सप्तवध्रिः प्रियमेधः प्रतर्दनः ।श्येनो मेध्यातिथिः शंयुः प्रगाथः शकटायनः ॥ १७६४ ॥
अनुष्टुप्
genderपुंmasc.
वैजयन्ती Vaijayantī · यादवप्रकाश खगाध्यायः Vaijayantī 2.3.19 · p. 27
कलविंकस्त्वसौ पीतमुण्डः श्यामा तु पोतकी ।व्याघ्राटस्तु भरद्वाजः क्षिप्रः श्येनः सुपर्णकः ॥ १९ ॥
अनुष्टुप्
genderपुंmasc.
वैजयन्ती Vaijayantī · यादवप्रकाश खगाध्यायः Vaijayantī 2.3.30 · p. 28
गृध्रस्तु पुरुषव्याघ्रो दूरदर्शी सुदर्शनः ।दाक्षाय्यश्चाप्यथ श्येनो वर्तुलाक्षः शशादनः ॥ ३० ॥
अनुष्टुप्
genderपुंmasc.
धरणिकोश Dharaṇikośa · धरणिदास नपादः Dharaṇikośa 19.1.4 · p. 105
लग्नं राश्युदये चापि रास्नैलापर्णिकापि च ।श्येनौ विहंगमश्वेतौ विन्नौ लब्धविचारितौ ॥
अनुष्टुप्
कोषकल्पतरु Koṣakalpataru · विश्वनाथ नान्ताः Koṣakalpataru 6.21.98 · p. 246
श्येनः पुमान्पत्रिणि पाण्डुरे तुविशेष्यलिङ्गोऽथ दिनं तु नस्त्री ।स्याद्वासरे खण्डितवाचकं तुपरोपमानं हि समामनन्ति ॥ ९८ ॥
उपजातिः
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् नानालिङ्गाध्यायः Nānārthārṇavasaṃkṣepa 2.5.1422 · p. 164
स्त्र्यर्थे वृत्तिस्तदा रूपं श्येतीत्येवाथ पुंस्ययम् ।श्येनः सामान्तरेषु स्यात् क्रतुभेदे जिघांसतः ॥ १४२२ ॥
अनुष्टुप्
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् नानालिङ्गाध्यायः Nānārthārṇavasaṃkṣepa 2.5.1423 · p. 164
द्वे त्वश्वे पत्रिसंज्ञे च पक्षिभेदे स्त्रियां पुनः ।श्येना स्यात् प्राचिकासंज्ञपक्षिजातावथ द्वयोः ॥ १४२३ ॥
अनुष्टुप्
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् नानालिङ्गाध्यायः Nānārthārṇavasaṃkṣepa 2.5.1424 · p. 164
शकुनावप्यजगरे श्येत्यः श्रेष्ठः पुनस्त्रिषु ।स्यात् प्रशस्यतमे क्ली तु ताम्रे श्रेणिस्तु नृस्त्रियोः ॥ १४२४ ॥
अनुष्टुप्
शब्दरत्नावली Śabdaratnāvalī · मथुरेश नान्ताः Śabdaratnāvalī 7.20.19 · p. 235
वानं शुष्के शुष्कफले स्यूतिकर्मकरे गतौ ।शानस्त्वजगरे मूर्खे श्येनः पाण्डौपतत्रिणि ॥
अनुष्टुप्
त्रिकाण्डशेष Trikāṇḍaśeṣa · पुरुषोत्तमदेव नानार्थवर्गः Trikāṇḍaśeṣa 3.3.266 · p. 183
विहिंसायां विडम्बे च यमे ना शमनं बंधे ।श्येनः शुक्ले पक्षिभेदे शकुनिः सौबले खगे ॥ २६६ ॥
metre not recognisednearly अनुष्टुप्: pāda 2, syllable 7 बं (wrong syllable)

श्येन as a meaning in nānārtha verses

  • धरणिकोश पत्रिन्[श्येनाख्यो विहगः पत्री ?] पत्रिणौ शरपक्षिणौ । शाखिनः स्युः तुरुष्काख्या जना वृक्षाश्च शाखिनः ॥ Dharaṇikośa 19.2.11
  • कोषकल्पतरु पत्रिन्पत्री खगे श्येनशरद्रुमेषु स्यात्सायके स्यन्दनसंस्थिते वा । वज्री शरेऽश्वे षडभिज्ञ इन्द्रे विहंगमे कोकभुजंगयोस्तु ॥ ७६ ॥ Koṣakalpataru 6.21.76
  • नानार्थार्णवसंक्षेप पत्त्रिन्पत्त्री पुंसि शरे द्वे तु श्येने सर्वखगेष्वपि । पत्त्रिणी तु स्त्रियां पत्न्याः कनिष्ठस्वसरि स्मृता ॥ ७४१ ॥ Nānārthārṇavasaṃkṣepa 2.5.741
  • नानार्थार्णवसंक्षेप बध्निप्राणनार्थकधातौ च दैत्यभेदेऽथ नृस्त्रियोः । देवतार्चनतूर्येऽथ बध्निर्द्वे श्येनकाकयोः ॥ ८३९ ॥ Nānārthārṇavasaṃkṣepa 2.5.839
  • नानार्थार्णवसंक्षेप प्राचिकाप्राचिका तु भवेत् तत्र या भवेद्वनमक्षिका । श्येनासंज्ञविहङ्गे च पालङ्क्यां तु प्रकीर्तिता ॥ ५६ ॥ Nānārthārṇavasaṃkṣepa 3.1.56
  • नानार्थार्णवसंक्षेप आपतिकपादोष्णके वणिजि च द्वे तु श्येनमयूरयोः । पुंसि कालेऽथापदिको वणिजि त्रि पुमान् पुनः ॥ ६३ ॥ Nānārthārṇavasaṃkṣepa 6.63
  • नानार्थार्णवसंक्षेप मर्मरीकशिरःस्नेहे नपि त्वेतद् दधिमण्डेऽथ पुंसि सः । मर्मरीकोऽनले शूरे द्वे तु श्येनेऽथ सा स्त्रियाम् ॥ ४८५ ॥ Nānārthārṇavasaṃkṣepa 6.485
  • परमानन्दीयनाममाला पत्रिन्पत्राणां निचये योग्ये पत्री बाणे खगे रथे । श्येने पालिः स्मृता सेतौ कर्णपाल्यां स्थितौ ततौ ॥ २८९ ॥ Paramānandīyanāmamālā 5.19.289
  • शब्दरत्नावली पत्रिन्तोदनं व्यथने तोत्रे दंशनं वर्मदंशयोः । दर्शनं दर्पणे शास्त्रे नयनस्वप्नबुद्धिषु ॥ दमनः कुसुमे वीरे उपशान्तेऽपि कुत्रचित् । दशनः शिखरे दन्ते कवचे तु नपुंसकम् ॥ दहनो दुष्टचेष्टाग्निभल्लाते चित्रकेऽपि च । दृशानं तेजसि क्लीबं स्यात्पुमांस्तु विरोचने ॥ देवनन्तु जिगीषायां स्यात्क्रीडाव्यवहारयोः । अक्षेषु देवनः पुंसि सेवायामपि देवना ॥ ध्वजी रथे च भूदेवे भये सर्पे धराधरे । धन्वी ककुभवृक्षे स्यादर्जुने च धनुर्धरे ॥ धन्व क्लीबे स्थले चापे धन्वा ना मरुदेशके । धमनो नालभेदे भस्त्राध्मापकक्रूरयोस्त्रिषु ॥ धमनी च शिराहट्टविलासिन्योरपि स्त्रियाम् । धावनन्तु गतौ शुद्धै पृश्नीपर्ण्यान्तु धावनी ॥ धाम गेहे तनौ रश्मौ स्थाने प्रभावजन्मनोः । नन्दनं वासवोद्यानं पुमानात्यजहर्षयोः ॥ नन्दी हरद्वारपाले कन्दवाले वटद्रुमे । नन्दिन्युमाधेनुभेदगङ्गाननान्दृषु स्त्रियाम् ॥ नलिन्याकाशगङ्गायां पद्मिन्यां कमलाकरे । अम्भोरुहे तु न पुमान् नीलिकायां नपुंसकम् ॥ निदानं वत्सदामादिकारणे क्षयकारणे । निधनं नाशकुलयोः प्रधनं युधि दारुणे ॥ पवनं स्यात्कुम्भकारपाकस्थाने नपुंसकम् । स्यात्पुमांस्तु जगत्प्राणे निष्पावे प्रयतेऽपि च ॥ प्रधानं प्रकृतिप्रज्ञामहामात्यपरात्मसु । एकत्वे चोत्तमे क्लीबं वाच्यलिङ्गन्तु कुत्रचित् ॥ पद्मिनी स्त्रीविशेषे स्यात्पद्मसङ्घे सरोऽम्बुजे । प्रसन्ना स्त्री सुरायां स्यात्सन्तुष्टामलयोस्त्रिषु ॥ प्रसूनं पुष्पफलयोः क्लीबं जाते तु वाच्यवत् । पत्री पत्ररथे श्येनेऽत्रिकाण्डे रथिके त्रिषु ॥ पर्व स्यादुत्सवे ग्रन्थौ प्रस्तावचिह्नभेदयोः । स्याद्दर्शप्रतिपत्सन्धौ विषुवत्प्रभृतिष्वपि ॥ पक्ष्मसूत्रांशमुद्रादिकिञ्जल्कनेत्ररोमसु । पाठीनः पाठके मीनभेदे च गुग्गुलुद्रुमे ॥ Śabdaratnāvalī 7.20.57
  • शब्दरत्नाकर पत्रीपायो वयसि बाहुल्ये तुल्यानशनमृत्युषु । पतिः स्वामिनि पत्यौ च पत्री श्येनपृषत्कयोः ॥ १९५२ ॥ Śabdaratnākara 4.1.1952
  • शब्दरत्नाकर पुङ्खपुङ्खः श्येने शराङ्गे च पविर्वज्रसमीरयोः । पशुरज्ञगवाद्योः स्यात् परोऽरिपरमात्मनोः ॥ १९५७ ॥ Śabdaratnākara 4.1.1957
  • वैजयन्ती पत्रिन्पीयुः काल उलूके च पीलुः काण्डे गजे द्रुमे । पुण्ट्राः कृमीक्षुतिलकाः पत्री श्येने शरे खगे ॥ ३२ ॥ Vaijayantī 6.1.32