निरय
nirayaपुं · masc.In 14 kośas: 11 synonym verses, 7 as a meaning of another word.
genderपुंmasc.
स्यान्नारकस्तु नरको निरयो दुर्गतिः स्त्रियाम् ।तद्भेदास्तपनावीचिमहारौरवरौरवाः ॥ १ ॥सङ्घातः कालसूत्रं चेत्याद्याः सत्त्वास्तु नारकाः ।प्रेता वैतरणी सिन्धुः स्यादलक्ष्मीस्तु निरृतिः ॥ २ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 6 नि (wrong syllable)
genderपुंmasc.
निरयो दुर्गतिश्चैव नरकः परिकीर्तितः ।नारका जन्तवः प्रेता यात्याश्चैवातिवाहिकाः ॥ ६२५ ॥
अनुष्टुप्
genderपुंmasc.
विचारभूः पैतृवणं ग्रसन्नाली तु पञ्चिका ।नरको नारकोऽपि स्याद्दुर्गतिर्निरयोऽपि च ॥ ७९ ॥
अनुष्टुप्
genderपुंmasc.
नारको नरकोऽपि स्यान्निरयो दुर्गतिः स्त्रियाम् ।तद्भेदा स्तपनावीचिमहारौरवरौरवाः ॥ १ ॥
अनुष्टुप्
genderपुंmasc.
निरयो दुर्गतिः स्त्री स्याद्विष्टिस्त्वाजूः स्त्रियामुभे ।कारणा यातना तीव्रवेदना च समा इमाः ॥ २ ॥
अनुष्टुप्
genderपुंmasc.
दुगतिर्नरकश्चैव निरयो नारकः पुनः ।तत्रोत्पन्नाः पापजीवा नारकः कथिताः स्मृतौ ॥ २५१ ॥
अनुष्टुप्
genderपुंmasc.
नरको नारकश्चैव निरयो दुर्गतिस्तथा ।नरकस्येति नामानि कथ्यन्ते पण्डितैः किल ॥ २४६७ ॥
अनुष्टुप्
genderपुंmasc.
व्यालग्रहो गारुडिको विषवैद्योऽहितुण्डिकः ।नरको नारकोऽपि स्यान्निरयो दुर्गतिः स्त्रियाम् ॥
अनुष्टुप्
genderपुंmasc.
पुत्रिका त्वभ्रसन्नाली चित्रगुप्तस्तु लेखकः ।स्त्री दुर्गतिः स्यान्निरयो नरको नारकः समाः ॥ ११५ ॥
अनुष्टुप्
genderपुंmasc.
नरको नारकोऽप्येष निरयो दुर्गतिः स्त्रियाम् ।अवीच्यन्ता रौरवाद्याः प्रायशो नरका नरि ॥ ३७ ॥
अनुष्टुप्
genderपुंmasc.
निरय as a meaning in nānārtha verses
- धरणिकोश नरकनरकौ दैत्यनिरयौ पृथुकौ चिपिटार्भकौ । लासको नर्तके वेष्टे तर्ककौ गृध्रकाङ्क्षिणौ ॥ Dharaṇikośa 1.1.12
- कल्पद्रुकोशः दुर्गतिपुंसि स्त्रियां च शङ्कुः स्यादङ्कस्थाने चतुर्दशे । निरये दुर्गतिः कक्षो दोर्मूले गर्त्त आकरे ॥ १०९ ॥ Kalpadrukośa 3.5.109
- कोषकल्पतरु दुर्गतिभवेत्स्रवन्त्यौषधिसिन्धुभेदे वाते त्वमात्ये वहतिर्वृषे ना स्त्री दुर्गतिः स्यान्निरये च निःस्वे । डिम्बे गदे स्याद्विकृतिर्विकारे शठे तु शाठ्ये निकृतिर्निकारे ॥ ३६ ॥ Koṣakalpataru 6.16.36
- नानार्थार्णवसंक्षेप सृकसृकः पुंसि शरे वज्रे निरये द्वे पुनर्बके । सृगाले चाथ सृष्टं क्ली सर्जने त्रि तु निश्चिते ॥ १५५० ॥ Nānārthārṇavasaṃkṣepa 2.5.1550
- शब्दरत्नावली नरकनरको निरये पुंसि तथा दैत्यविशेषके ॥ Śabdaratnāvalī 7.1.93
- शब्दरत्नाकर नरकनालीकः सायके पुंसि नलिने तु नपुंसके । निवहो वायुभेदेऽपि नरको निरयेऽसुरे ॥ २११७ ॥ Śabdaratnākara 4.1.2117
- त्रिकाण्डशेष नरकनरको निरये दैत्यै नौवाहै स्यान्नियामकः । सभ्ये गुरौ च नवफलिका नवरजस्यपि ॥ २८ ॥ Trikāṇḍaśeṣa 3.3.28