All kośas › Koṣakalpataru
कोषकल्पतरु Koṣakalpataru
6,194 verses · 52,591 words tagged · 11,257 marked doubtful (dashed)
पातालकाण्डः · नारकवर्गः
इति पातालवर्गः ।
स्यान्नारकस्तु नरकः परेत-प्रेत-यातिनः ।स्यादातिवाहिकोऽथ स्यान्नरको नारकोऽपि च ॥ १ ॥
3.2.1 · p. 305
अनुष्टुप्
निरयो दुर्गतिः स्त्री स्याद्विष्टिस्त्वाजूः स्त्रियामुभे ।कारणा यातना तीव्रवेदना च समा इमाः ॥ २ ॥
3.2.2 · p. 305
अनुष्टुप्
तपनः स्यादवीचिस्तु द्वंद्वे संहार-रौरवौ ।स्यान्महारौरवः कालसूत्रं तामिस्रमित्यपि ॥ ३ ॥
3.2.3 · p. 305
अनुष्टुप्
कुम्भीपाकान्धतामिस्रासिपत्रविपिनादयः ।बहवो नारका भेदा गदिताः पापकर्मणाम् ॥ ४ ॥
3.2.4 · p. 305
अनुष्टुप्
सिन्धुर्वैतरणी प्रोक्ता तत्रालक्ष्मीस्तु निर्ऋतिः ।सीमन्तकाद्या बौद्धादि [151a] शास्त्रे नरकवासिनः ।
3.2.5 · p. 305
metre not recognised