कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Kalpadrukośa

कल्पद्रुकोशः Kalpadrukośa

4,306 verses · 27,819 words tagged · 4,643 marked doubtful (dashed)

भूमिस्कन्धः · नारकादिप्रकाण्डः

सर्पादिमः पञ्चदशः प्रकाण्डः सिद्धिमागतः ।

नारको नरकोऽपि स्यान्निरयो दुर्गतिः स्त्रियाम् ।तद्भेदा स्तपनावीचिमहारौरवरौरवाः ॥ १ ॥
1.17.1 · p. 367
अनुष्टुप्
स्त्रियामवाची तद्भेदेऽप्यथ संहार इत्ययम् ।संघातः कालसूत्रं च तत्र सत्त्वास्तुनारकाः ॥ २ ॥
1.17.2 · p. 367
अनुष्टुप्
अराप्यैन्द्री कालकर्णं स्यादलक्ष्मीश्च निरृतिः ।अकं दुःखमघं कल्कं कृच्छ्रं बाधनमित्यपि ॥ ३ ॥
1.17.3 · p. 367
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 6 नि (wrong syllable)
स्यात्पीडनं विडहनं पीडा पीडिश्च पीड्यपि ।अतिरार्त्तिर्व्यथा पीडा बाधौ पुंसि स्त्रियामुभौ ॥ ४ ॥
1.17.4 · p. 367
अनुष्टुप्
विष्टिराजूः कारणा तु यातना तीव्रवेदना ।याचनाथामनस्यं स्यादामानस्य प्रसूतिजम् ॥ ५ ॥
1.17.5 · p. 367
अनुष्टुप्
भीलमाभीलमपि चामीषां वस्तुनि च त्रिषु ।महापापकृतः प्रेताः परेता अतिवाहिकाः ॥ ६ ॥
1.17.6 · p. 367
अनुष्टुप्
दुर्भोगभोगिनः क्लिष्टा भोगपर्याप्तजीविनः ।कल्पद्रौ केशवकृते फलिते नामसफलैः ॥ ७ ॥
1.17.7 · p. 368
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 6 स (wrong syllable)