कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

नीकाश

nīkāśaवि · adj.

In 6 kośas: 7 synonym verses, 1 as a nānārtha head word.

नामलिङ्गानुशासनम् Amarakośa · अमरसिंह शूद्रवर्गः Amarakośa 2.10.37
प्रतिकृतिरर्चा पुंसि प्रतिनिधिरुपमोपमानं स्यात् ।वाच्यलिङ्गाः समस्तुल्यः सदृक्षः सदृशः सदृक् ॥ ३६ ॥साधारणः समानश्च स्युरुत्तरपदे त्वमी ।निभसङ्काशनीकाशप्रतीकाशोपमादयः ॥ ३७ ॥
अनुष्टुप्metre not read in every line
genderविadj.
कल्पद्रुकोशः Kalpadrukośa · केशव शूद्रादिप्रकाण्डः Kalpadrukośa 1.8.82 · p. 211
निभसंकाशनीकाशप्रतीकाशोपमादयः ।कर्मण्या तु विधा भृत्या भृतिः स्त्री कर्मवेतनम् ॥ ८२ ॥
अनुष्टुप्
genderविadj.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ धीवर्गः Koṣakalpataru 1.5.6 · p. 53
निश्चयो नरि निर्द्धारो नीकाशः संप्रधारणा ।ना[34b]द्ये समर्थनाऽथ स्यात्परभागो गुणावधिः ॥ ६ ॥
अनुष्टुप्metre not read in every line
genderपुंmasc.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ आतङ्कवर्गः Koṣakalpataru 3.3.66 · p. 29
प्रख्य-प्रतीकाश-निभोपमानो-पमा-प्रकार-प्रतिम-प्रकाशाः ।संकाश-नीकाश-सनाभि-भूतरूपादयश्चोत्तरगाः समार्थाः ॥ ६६ ॥
उपजातिः
genderविadj.
पर्यायशब्दरत्न Paryāyaśabdaratna · धनञ्जयभट्ट मध्यमलोकसर्गः Paryāyaśabdaratna 2.616 · p. 106
निभसंकाशनीकाशप्रतीकाशोपमादयः ।वेतने तु विधा भृत्या भरण्यं भरणं भृतिः ॥ ६१६ ॥
अनुष्टुप्
genderविadj.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि सामान्यविभागः Suśīlanāmamālā 7.2658 · p. 429
प्रकारश्चाथ नीकाशः सङ्काशो रूपमेव च ।तदापि सदृशार्थकत्वमायात्येव न संशयः ॥ २६५८ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
genderविadj.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश शूद्रवर्गप्रक्लाशः Śabdaratnāvalī 3.8.65 · p. 157
निभसङ्काशनीकाशप्रतीकाशप्रभोपमाः ।कल्पभूताभरूपाद्याः स्युरुत्तरपदे त्रिषु ॥
अनुष्टुप्
genderविadj.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ शान्ताः Koṣakalpataru 6.30.18 · p. 367
संकाश उक्तः सदृशेऽन्तिकेऽथनीकाश उक्तः समनिर्णयार्थः ।हुताश उक्तो दहने त्रयेऽथकीनाश उक्तो यमकर्षकार्थः ॥ १८ ॥
उपजातिः