प्रतिकृति
pratikṛtiस्त्री · fem.In 12 kośas: 9 synonym verses, 5 as a nānārtha head word, 5 as a meaning of another word.
प्रतिकृतिरर्चा पुंसि प्रतिनिधिरुपमोपमानं स्यात् ।वाच्यलिङ्गाः समस्तुल्यः सदृक्षः सदृशः सदृक् ॥ ३६ ॥साधारणः समानश्च स्युरुत्तरपदे त्वमी ।निभसङ्काशनीकाशप्रतीकाशोपमादयः ॥ ३७ ॥
अनुष्टुप्metre not read in every line
genderस्त्रीfem.
प्रतिबिम्बं प्रतिरूपं प्रतिमानं प्रतिकृतिं प्रतिच्छन्दम् ।प्रतिकायं च प्रतिनिधिमाहुः प्रतियातनां प्रतिच्छायाम् ॥ १३० ॥
गीतिः
genderस्त्रीfem.
उपमार्चा प्रतिनिधिः पुंसि प्रतिकृतिः स्त्रियाम् ।प्रतिबिम्बं प्रतिमानमुपमानं नपुंसकम् ॥ ८० ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 ति (wrong syllable)
genderस्त्रीfem.
प्र[180a]तिबिम्बं प्रतिरूपं प्रतिमानं स्यात्प्रतिच्छन्दः ।प्रतिकृतिरर्चा प्रतिमा प्रतिमूर्तिः स्यात्प्रतिच्छाया ॥ ३४ ॥
उपगीतिः
genderस्त्रीfem.
प्रत्याकृतिः प्रतिकृतिः प्रतिः प्रतिनिधिस्तथा ।प्रतिबिम्बं प्रतिकरा चार्चा च प्रतियातना ॥ ६१३ ॥
अनुष्टुप्
genderस्त्रीfem.
प्रतिमा प्रतिमानञ्च प्रतिकायः प्रतिकृतिः ॥ २६६० ॥
अनुष्टुप्metre not read in every line
genderस्त्रीfem.
शिल्पं कलादिकं कर्म आरा चर्मप्रभेदिका ।प्रतिमानं प्रतिकृतिरर्ची प्रतिनिधिः पुमान् ॥
अनुष्टुप्
genderस्त्रीfem.
हरिणी लोहप्रतिमा सूर्मी स्थूणान्यलोहजा ।प्रतिच्छाया प्रतिकृतिः प्रतिमा प्रतियातना ॥ १५३६ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 ह (wrong syllable)
genderस्त्रीfem.
यत्र निक्षिप्य कूटेन हन्यते सा निघानका ।प्रतिच्छाया प्रतिकृतिः प्रतिमा प्रतियातना ॥ २० ॥
अनुष्टुप्
genderस्त्रीfem.
प्रकृतिर्गुणसाम्ये स्यात्स्वभावामात्ययोरपि ।प्रतीकारे प्रतिकृतिः प्रतिबिम्बेऽथ पद्धतिः ॥ १६४ ॥
अनुष्टुप्
प्रतिकृति as a meaning in nānārtha verses
- धरणिकोश प्रतिमागोलोमी श्वेतदूर्वायां तथेन्द्रजविसे हृणे ? । प्रतिमा स्यात्प्रतिकृतौ दन्तमध्ये गजस्य च ॥ Dharaṇikośa 24.2.10
- नानार्थार्णवसंक्षेप नृभुनीवी स्यात् कवचे वस्त्रे वणिङ्मूलधने तथा । स्त्रीकटीवसनग्रन्थौ नृभुः प्रतिकृतौ प्लवे ॥ ६१ ॥ Nānārthārṇavasaṃkṣepa 2.1.61
- नानार्थार्णवसंक्षेप प्रतिमाक्षितौ ह्रस्वेऽपि पठिता समाम्नाये मनीषिणा । प्रतिमा तु प्रतिकृतौ गजानां दन्तबन्धने ॥ ४५ ॥ Nānārthārṇavasaṃkṣepa 3.1.45
- नानार्थार्णवसंक्षेप प्रतिमानप्रतिदानं परीवर्ते न्यासद्रव्यस्य चार्पणे । प्रतिमानं प्रतिकृतौ गजदन्तद्वयान्तरे ॥ ३२ ॥ Nānārthārṇavasaṃkṣepa 6.32
- शब्दरत्नाकर बिम्बप्रतिबिम्बे प्रतिकृतौ बिम्बोऽस्त्री मण्डले समे । बाणः शरे बलिसुते वृक्षभेदे तु वा स्त्रियाम् ॥ १९६५ ॥ Śabdaratnākara 4.1.1965