सदृश
sadṛśaवि · adj.In 16 kośas: 13 synonym verses, 3 as a nānārtha head word, 15 as a meaning of another word.
तुल्यः समानः सदृक्षः सरूपः सदृशः समः ।साधारणसधर्माणौ सवर्णः संनिभः सदृक् ॥ १४६१ ॥
अनुष्टुप्
genderविadj.
प्रतिकृतिरर्चा पुंसि प्रतिनिधिरुपमोपमानं स्यात् ।वाच्यलिङ्गाः समस्तुल्यः सदृक्षः सदृशः सदृक् ॥ ३६ ॥साधारणः समानश्च स्युरुत्तरपदे त्वमी ।निभसङ्काशनीकाशप्रतीकाशोपमादयः ॥ ३७ ॥
अनुष्टुप्metre not read in every line
genderविadj.
सदृक् समानः सदृशः सदृक्षः,प्रख्यः प्रकाशः प्रतिमः प्रकारः ।तुल्यः समः सन्निभ इत्यभिन्नाः,शब्दाः प्रयोगेषु गवेषणीयाः ॥ ६९४ ॥
उपजातिः
genderविadj.
वाच्यलिङ्गाः समस्तुल्यः सदृक्षः सदृशः सदृक् ।साधारणः समानश्च ते तूत्तरपदे स्थिताः ॥ ८१ ॥
अनुष्टुप्
genderविadj.
समः समानः सदृशः सदृक्षःसदृक् सधर्मापि सरूप-तुल्यौ ।सवर्ण-साधारण-संनिभाश्चतथानुरूपश्च समार्थकाः[177a] स्युः ॥ ६५ ॥
उपेन्द्रवज्राmetre not read in every line
genderविadj.
समः सवर्णः सज्ञातिः सदृक्षः सदृशः सदृक् ।तुल्यः सधर्मरूपश्च तुला कक्षोपमा विधा ॥ १३६ ॥
अनुष्टुप्
genderविadj.
अन्तरं चान्तरालं च मध्यं माध्यन्दिनं समम् ।सधर्मा सदृशश्चैव समानः संनिभः सदृक् ॥ ३४७ ॥
अनुष्टुप्
genderविadj.
समे तुल्यः सदृक्षश्च सदृक् सदृश इत्यपि ।साधारणे समानं स्यात्समलः समकोऽपि च ॥ ६१५ ॥
अनुष्टुप्
genderविadj.
समानं सदृशं xx संकाशः संनिभः समः ।अनुहारश्चोपमानं समकक्षा तुलोपमा ॥ १०१ ॥
metre not recognisedLatin letters: xx
genderविadj.
समानः सन्निभस्तुल्यं सदृक्षः सदृशः सहक् ।साधारणः सधर्मा च सवर्णः सरूपः समः ॥ २६५६ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 5 रू (wrong syllable)
genderविadj.
समः समानः सदृशस्तुल्यः साधारणः सदृक् ।सदृक्षश्चेति सप्तैते वाच्यलिङ्गाः समार्थकाः ॥
अनुष्टुप्
genderविadj.
अन्तरालं, समं तुल्ये समानं सदृशं सदृक् ।सदृक्षमनुहारे तूपान्मान-मिति-मा-मताः ॥ ६० ॥
अनुष्टुप्
genderविadj.
समं समानं सविधं सदृक्षं सदृशं सदृक् ।तुल्यं सवर्णं शब्देभ्यः परे स्युः प्रतिमा प्रभा ॥ १२१ ॥
अनुष्टुप्
genderविadj.
सदृश as a meaning in nānārtha verses
- हलायुधकोशः (अभिधानरत्नमाला) साक्षात्परितः सर्वतो विष्वक् समन्ताच्च समन्ततः । प्रत्यक्षसदृशोः साक्षाद्वार्त्तासम्भाषयोः किल ॥ ८७४ ॥ Abhidhānaratnamālā (Halāyudha) 5.874
- हलायुधकोशः (अभिधानरत्नमाला) प्रतिप्रकाशे सम्भवे प्रादुः प्रधानसदृशोः प्रति । हि स्याद्विशेषणे हेतौ तु स्याद्भेदेऽवधारणे ॥ ८८१ ॥ Abhidhānaratnamālā (Halāyudha) 5.881
- धरणिकोश सनाभिजृम्भे जृम्भणविकासे रम्भा वारयोषाप्सराः । सनाभिः सदृशे ज्ञातावात्मभूः स्मरवेधसोः । ककुभ् शास्त्रे दिशि ज्ञेया अनुष्टुब्वाचि छन्दसि ॥ Dharaṇikośa 23.1.3
- कोषकल्पतरु निभयोगे शुभं स्यात्कुशले तु षण्ढे व्याजे निभोऽस्त्री सदृशेऽन्यवच्च । दम्भस्तु कल्के नरि कैतवे च डिम्भोऽर्भके बालिशके तथैव ॥ ३९ ॥ Koṣakalpataru 6.24.39
- कोषकल्पतरु प्रकारभेदे प्रकारः सदृशे तथा स्या- ट्टङ्कार उक्तोऽद्भुतकुप्रसिद्ध्योः । मौर्वीध्वनौ स्याच्छरयन्त्रके तु दण्डार उक्तोऽपि कुलालचक्रे ॥ ४४ ॥ Koṣakalpataru 6.27.44
- कोषकल्पतरु संकाशसंकाश उक्तः सदृशेऽन्तिकेऽथ नीकाश उक्तः समनिर्णयार्थः । हुताश उक्तो दहने त्रयेऽथ कीनाश उक्तो यमकर्षकार्थः ॥ १८ ॥ Koṣakalpataru 6.30.18
- नानार्थार्णवसंक्षेप विद्धविद्धं सूच्यादिभिर्भिन्ने सदृशेऽप्यथ विन्नवाक् । लब्धे विचारिते प्राप्तसत्ताकेऽप्यथ केचन ॥ २४ ॥ Nānārthārṇavasaṃkṣepa 2.4.24
- नानार्थार्णवसंक्षेप निभसदृशे निष्ट्यशब्दस्तु मर्त्यजात्यन्तरे द्वयोः । अन्ध्रीशबरजे निष्ट्या पुनः स्वातौ स्त्रियामथ ॥ ६९० ॥ Nānārthārṇavasaṃkṣepa 2.5.690
- नानार्थार्णवसंक्षेप नेमना त्रिस्तु भृतके नेमस्त्वन्ने वज्रे पुरोहिते । अर्धे च ना त्रिः सदृशे समीपे चाथ खे नपि ॥ ६९९ ॥ Nānārthārṇavasaṃkṣepa 2.5.699
- नानार्थार्णवसंक्षेप अनुरूपअकूपारा तु कस्याञ्चित् पुत्र्यामङ्गिरसः स्त्रियाम् । अनुरूपस्तु सदृशे स्मृतस्त्रिषु मनीषिभिः ॥ ५ ॥ Nānārthārṇavasaṃkṣepa 6.5
- शब्दरत्नावली निभदम्भः स्यात्कैतवे कल्के साटोपाहङ्कृतावपि । दृन्भूश्चवज्रचक्राहिमुख्यभूतिषु च स्त्रियाम् ॥ नाभिर्ना चक्रमध्ये च क्षत्रिये मुख्यभूपतौ । द्वयोः प्राण्यङ्गमध्ये तु स्त्रियां कस्तूरिकामदे ॥ निभो व्याजे तु पुंलिङ्गः प्रकाशे सदृशे त्रिषु । रम्भः कपौ च वंशे ना कदल्यप्सरसोः स्त्रियाम् ॥ विभुर्वृद्धे प्रभौ राज्ञि ब्रह्मशङ्करयोः पुमान् । शम्भुर्महेश्वरे सिद्धे सुगते परमेष्ठिने ॥ शुभं क्षेमे शुभोयोगे शुभा कान्तीच्छयोः स्त्रियाम् । सभाद्यूते मन्दिरे च गोष्ट्यां सामाजिके स्त्रियाम् ॥ स्वभूर्विष्णौ विधौ पुंसि स्तम्भः स्थूनाजडत्वयोः । Śabdaratnāvalī 7.24.7
- शब्दरत्नावली सनाभिवल्लभोऽध्यक्षदयितशुभलक्षपावाजिषु । वर्षाभूः स्त्री तु शोथघ्न्या भूवल्ली भेकयोः पुमान् ॥ विष्कम्भः प्रतिबन्धे च विस्तारयोगभेदयोः । योगिबन्धभेदेऽर्गलारूपकाङ्गप्रभेदयोः ॥ विस्रम्भः प्रणये केलिकोपविश्वासयोरपि । विष्टभ्यो रोगभेदे स्यात्प्रतिबन्धे भवेत्पुमान् ॥ वैदर्भं वाक्यवक्तत्वे वेदर्भी रीतिभिद्यपि । शरभः पशुभेदे स्यात्करमे वानरेऽपि च ॥ सनाभिः सदृशे पुंसि ज्ञातौ स्नेहयुतेऽपि च । सुरभिः शल्लकीमातृसुरागोष्वपि च स्त्रियाम् ॥ वसन्ते चम्पके जातीफलगन्धफले पुमान् । क्लीबं गन्धाश्मनि स्वर्गे सुगन्धिकान्तयोस्त्रिषु ॥ Śabdaratnāvalī 7.24.13
- शब्दरत्नावली तथातथाङ्गीकारसदृशप्रतिवाक्यसमुच्चये ॥ Śabdaratnāvalī 8.1.35
- त्रिकाण्डशेष निभदुन्दुभिर्दैत्यभेदेऽपि दम्भः कैतवकल्कयोः । दुर्लभः कर्चुरेऽकाम्ये सदृशव्याजयोर्निभः ॥ २८७ ॥ Trikāṇḍaśeṣa 3.3.287
- वैजयन्ती साक्षात्साक्षात्प्रत्यक्षसदृशोः पृथगर्थेऽन्तिके हिरुक् । वाक्यारंभेऽनुकंपायां हन्त हर्षविषादयोः ॥ ३० ॥ Vaijayantī 8.7.30