तुल्य
tulyaवि · adj.In 14 kośas: 11 synonym verses, 29 as a meaning of another word.
तुल्यः समानः सदृक्षः सरूपः सदृशः समः ।साधारणसधर्माणौ सवर्णः संनिभः सदृक् ॥ १४६१ ॥
अनुष्टुप्
genderविadj.
प्रतिकृतिरर्चा पुंसि प्रतिनिधिरुपमोपमानं स्यात् ।वाच्यलिङ्गाः समस्तुल्यः सदृक्षः सदृशः सदृक् ॥ ३६ ॥साधारणः समानश्च स्युरुत्तरपदे त्वमी ।निभसङ्काशनीकाशप्रतीकाशोपमादयः ॥ ३७ ॥
अनुष्टुप्metre not read in every line
genderविadj.
सदृक् समानः सदृशः सदृक्षः,प्रख्यः प्रकाशः प्रतिमः प्रकारः ।तुल्यः समः सन्निभ इत्यभिन्नाः,शब्दाः प्रयोगेषु गवेषणीयाः ॥ ६९४ ॥
उपजातिः
genderविadj.
वाच्यलिङ्गाः समस्तुल्यः सदृक्षः सदृशः सदृक् ।साधारणः समानश्च ते तूत्तरपदे स्थिताः ॥ ८१ ॥
अनुष्टुप्
genderविadj.
प्रग्राहस्तु तुलासूत्रमुद्गीर्णं तोलितोद्यते ।तुला सम्मितं तुल्यमुद्गीर्णाद्या विशेष्यगाः ।त्रिषु क्रीतादिके गौपुच्छिकं क्रीतं हि तेन यत् ॥ ७१ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
genderविadj.
समः समानः सदृशः सदृक्षःसदृक् सधर्मापि सरूप-तुल्यौ ।सवर्ण-साधारण-संनिभाश्चतथानुरूपश्च समार्थकाः[177a] स्युः ॥ ६५ ॥
उपेन्द्रवज्राmetre not read in every line
genderविadj.
समः सवर्णः सज्ञातिः सदृक्षः सदृशः सदृक् ।तुल्यः सधर्मरूपश्च तुला कक्षोपमा विधा ॥ १३६ ॥
अनुष्टुप्
genderविadj.
समे तुल्यः सदृक्षश्च सदृक् सदृश इत्यपि ।साधारणे समानं स्यात्समलः समकोऽपि च ॥ ६१५ ॥
अनुष्टुप्
genderविadj.
समानः सन्निभस्तुल्यं सदृक्षः सदृशः सहक् ।साधारणः सधर्मा च सवर्णः सरूपः समः ॥ २६५६ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 5 रू (wrong syllable)
genderविadj.
समः समानः सदृशस्तुल्यः साधारणः सदृक् ।सदृक्षश्चेति सप्तैते वाच्यलिङ्गाः समार्थकाः ॥
अनुष्टुप्
genderविadj.
समं समानं सविधं सदृक्षं सदृशं सदृक् ।तुल्यं सवर्णं शब्देभ्यः परे स्युः प्रतिमा प्रभा ॥ १२१ ॥
अनुष्टुप्
genderविadj.
तुल्य as a meaning in nānārtha verses
- नामलिङ्गानुशासनम् साक्षात्पुनः सहार्थयोः शश्वत्साक्षात्प्रत्यक्षतुल्ययोः ॥ २४४ ॥ Amarakośa 3.3.244
- धरणिकोश समसमा वर्षं समं तुल्यं समं साधु समं सदृक् । क्षमा तितिक्षा योग्ये च क्षमं शक्ते हिते क्षमम् ॥ Dharaṇikośa 24.2.8
- धरणिकोश प्रायकायः शरीरे लक्षे च संघाते ब्रह्मदैवते । प्रायश्चानशने मृत्यौ प्रायो बाहुल्यतुल्ययोः ॥ Dharaṇikośa 25.2.6
- धरणिकोश संकाशसंकाशौ निभतुल्ये यौ ? विकाशो विजने स्फुटे । निवेशौ शिबिरोद्वाहौ निदेशः शिष्टभाषणे ॥ Dharaṇikośa 29.1.3
- धरणिकोश साक्षात्स्वित्प्रश्ने च वितर्के स्यादाराद्दूरसमीपयोः । सकृत्सहैकवारे स्यात्साक्षात्प्रत्यक्षतुल्ययोः ॥ Dharaṇikośa 34.7.1
- कोषकल्पतरु साक्षात्पुनःसहार्थयोर्नित्ये शश्वद्भूम्नि तथा क्वचित् । प्रश्नेऽपि कूपत् साक्षात्तु भवेत्प्रत्यक्षतुल्ययोः ॥ ८८ ॥ Koṣakalpataru 5.1.88
- कोषकल्पतरु ववाते प्रचेतस्यपि वोऽन्यवत्स्या- द्धिमेऽव्ययं स्यादिवतुल्यकार्थे । षष्ठ्यादिकान्तस्य च युष्मदः स्या- त्तथा बहुत्वेऽप्यथ विः खगे स्यात् ॥ ८७ ॥ Koṣakalpataru 6.29.87
- कोषकल्पतरु सदृशस्याद्दुष्टबुद्धौ विवशोऽप्यरिष्टे- ऽवश्यात्मके निर्दयखड्गयोस्तु । निस्त्रिंश उक्तः सदृशं तु तुल्या- र्हयोः परस्मिन्नथ बालिशः स्यात् ॥ १५ ॥ Koṣakalpataru 6.30.15
- नानार्थार्णवसंक्षेप प्रायबाहुल्येऽप्यशनत्यागे मृतौ प्रगमने तथा । बाल्यादिवयसि त्रिस्तु तुल्येऽर्थे प्राच्यवाक् पुनः ॥ ७५९ ॥ Nānārthārṇavasaṃkṣepa 2.5.759
- नानार्थार्णवसंक्षेप भूतन्याय्ये प्राणिनि चान्यस्तु वाच्ययोरेतयोस्त्रिषु । अतीततुल्यलब्धेषु देवयोन्यन्तरे पुनः ॥ ९१४ ॥ Nānārthārṇavasaṃkṣepa 2.5.914
- नानार्थार्णवसंक्षेप व्ययव्ययो वित्तसमुत्सर्गे विगमे पक्षिणो गतौ । लग्नाच्च द्वादशे राशौ ना त्रिस्तुल्ये त्रपाययोः ॥ ११९४ ॥ Nānārthārṇavasaṃkṣepa 2.5.1194
- नानार्थार्णवसंक्षेप सममाहात्म्ये पौरुषे त्वस्त्री पिशाचादौ च जन्तुषु । प्राणे चाथ समं तुल्ये साधौ च त्रिषु स त्वयम् ॥ १४४१ ॥ Nānārthārṇavasaṃkṣepa 2.5.1441
- नानार्थार्णवसंक्षेप अन्तरविशेषविवरान्तर्धिष्ववसानविनार्थयोः । अवधौ च त्रिषु पुनस्तुल्येऽल्पपरिधानयोः ॥ ११ ॥ Nānārthārṇavasaṃkṣepa 4.11
- नानार्थार्णवसंक्षेप प्रकाशप्रशस्तेऽप्यजयस्त्वाह विटपेऽथ प्रकाशवाक् । पुंस्यर्चिषि च दीप्तौ च तुल्येऽपि त्रि स्फुटेऽपि च ॥ १०९२ ॥ Nānārthārṇavasaṃkṣepa 4.1092
- नानार्थार्णवसंक्षेप समानसमानस्तु पुमान् वायुभेदे देहान्तरस्थिते । त्रिस्तु साध्वेकतुल्येषु मानेन सहिते तथा ॥ १९१३ ॥ Nānārthārṇavasaṃkṣepa 4.1913
- शब्दरत्नावली स्थानस्थानं तुल्येऽवकाशे च स्थितौ वृद्धिक्षयेतरे । स्त्यानं घनत्वे जघने स्निग्धे चालस्यकेऽपि च ॥ Śabdaratnāvalī 7.20.22
- शब्दरत्नावली प्रायप्रायस्तुल्ये च बाहुल्ये मृत्यावनशनेऽपि च । प्रियो वृद्धौषधे पुंसि हृदये स्यादभिधेयवत् ॥ पीयुर्यूके रवौ काले पुंसि क्लीबं रतस्वने । पुण्यं धर्मे च सुकृते क्लीबं स्याच्छोभने त्रिषु ॥ पुष्यो मासे ऋक्षभेदे तथा कलियुगे पुमान् । पूज्यस्तु श्वशुरे पुंसि वन्द्ये च भवति त्रिषु ॥ वन्ध्या स्यादप्रजस्त्रीषु पुमानफलभूरुहे । वर्या पतिम्बरायां स्त्री श्रेष्ठे त्रिषु पुमान् स्मरे ॥ बल्यं प्रधानधातौ स्यात्क्लीबं बलकरेऽन्यवत् । वीर्यं तेजसि सामर्थ्ये दीप्तौ शुक्रप्रभावयोः ॥ Śabdaratnāvalī 7.26.19
- शब्दरत्नावली अन्तरअमरस्त्रिदशे वज्रद्रुमेनेन्द्रपुरि स्त्रियाम् ॥ गुडुच्यामपि दूर्वायां जरायुस्थूनयोरपि । अपरा च जरायौ स्याद्गज(?)पश्चार्द्धके स्त्रियाम् ॥ अर्वाचीने वाच्यलिङ्गमितरस्मिन्नपि त्रिषु । अछरो वसुभेदे स्यात्सावधाने क्रतौ पुमान् ॥ अन्तरे परिधाने स्यादवकाशे परात्मनि । छिद्रतादर्थ्यभेदेषु तुल्येऽवसरमध्ययोः ॥ Śabdaratnāvalī 7.27.52
- शब्दरत्नावली सदृशविकाशो विजने दीप्तौ सदृशस्तुल्ययोग्ययोः । संवेशः शयने स्त्रीणां रतबन्धेऽपि पुंस्ययम् ॥ Śabdaratnāvalī 7.30.26
- शब्दरत्नावली यथायथा तुल्येऽनुमाने च प्रशंसायामपीष्यते । वृथा निष्कारणे व्यर्थे तथा निष्फलचालने ॥ अव्यथा वितथे दुष्टे भिन्नार्थेऽपि निगद्यते । सर्वथा तु प्रतिज्ञायां भृशे हेतौ च कीर्त्यते ॥ Śabdaratnāvalī 8.1.36
- शब्दरत्नाकर प्रायपायो वयसि बाहुल्ये तुल्यानशनमृत्युषु । पतिः स्वामिनि पत्यौ च पत्री श्येनपृषत्कयोः ॥ १९५२ ॥ Śabdaratnākara 4.1.1952
- त्रिकाण्डशेष समसार्वभौमो गजे राज्ञि सम्भ्रमौ साध्वसादरौ । कण्टकेऽल्पे च सूक्ष्मं स्यात्साधौ तुल्येऽखिले समः ॥ ३०४ ॥ Trikāṇḍaśeṣa 3.3.304
- त्रिकाण्डशेष प्रायपर्य्यायः स्यात्प्रकारेऽपि प्रायो ना भूयतुल्ययोः । पथ्यं हितेऽभया पथ्या पानीयं पेयनीरयोः ॥ ३१६ ॥ Trikāṇḍaśeṣa 3.3.316
- वैजयन्ती प्रायपार्श्वद्वारे विरोधेऽर्धमासे चुल्लिबिलेऽन्तिके । प्रायो वयसि बाहुल्ये तुल्यानशनमृत्युषु ॥ ३६ ॥ Vaijayantī 6.1.36
- वैजयन्ती विद्धविद्धं विदारिते तुल्ये विन्नं लब्धे विचारिते । शितिः श्वेते च नीले च शुभो मंजुप्रशस्तयोः ॥ १७ ॥ Vaijayantī 6.4.17
- वैजयन्ती नेमन्युब्जं कुब्जे कर्मरंगे न्युब्जो व्याधावधोमुखे । नेमः पुरोहिते तुल्ये प्रस्थोऽस्त्री सानुमानयोः ॥ ४६ ॥ Vaijayantī 6.5.46
- वैजयन्ती समसमा स्त्री वत्सरे साधुसर्वतुल्येषु वाच्यवत् । परमार्थेऽर्थवत्सत्यं षण्डः शपथतथ्ययोः ॥ ९५ ॥ Vaijayantī 6.5.95
- वैजयन्ती प्रकाशप्रकाशोऽर्चिषि दीधित्यां ना तुल्यस्फुटयोस्त्रिषु । मुखे प्रतीकस्त्रिषु तु प्रतिकूलानुरूपयोः ॥ ५४ ॥ Vaijayantī 7.5.54
- वैजयन्ती प्रतिपुनरप्रथमे प्रश्ने व्यावृत्ताववधारणे । प्रतिदाने प्रतिनिधौ तुल्ये मात्राभिमुख्ययोः ॥ २४ ॥ Vaijayantī 8.7.24