कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

भृति

bhṛtiस्त्री · fem.

In 16 kośas: 14 synonym verses, 4 as a nānārtha head word, 32 as a meaning of another word.

अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य मर्त्यकाण्डः Abhidhānacintāmaṇi 3.28 · p. 18
स निर्भृतिः कर्मकारो भृतिः स्यान्निष्क्रयः पणः ।कर्मण्या वेतनं मूल्यं निर्वेशो भरणं विधा ॥ ३६२ ॥भर्मण्या भर्म भृत्या च भोगस्तु गणिकाभृतिः ।
अनुष्टुप्
genderस्त्रीfem.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह शूद्रवर्गः Amarakośa 2.10.38
कर्मण्या तु विधाभृत्याभृतयो भर्म वेतनम् ।भरण्यं भरणं मूल्यं निर्वेशः पण इत्यपि ॥ ३८ ॥
अनुष्टुप्
genderस्त्रीfem.
हलायुधकोशः (अभिधानरत्नमाला) Abhidhānaratnamālā (Halāyudha) · हलायुध सामान्यकाण्डम् Abhidhānaratnamālā (Halāyudha) 4.728 · p. 84
भृतिर्भृत्या च कर्मण्या वेता मूल्यं च वेतनम् ।लिपिरालेख्यलेखा स्याल्लिपिर्लेखाक्षरस्य च ॥ ७२८ ॥
अनुष्टुप्
genderस्त्रीfem.
कल्पद्रुकोशः Kalpadrukośa · केशव शूद्रादिप्रकाण्डः Kalpadrukośa 1.8.82 · p. 211
निभसंकाशनीकाशप्रतीकाशोपमादयः ।कर्मण्या तु विधा भृत्या भृतिः स्त्री कर्मवेतनम् ॥ ८२ ॥
अनुष्टुप्
genderस्त्रीfem.
कल्पद्रुकोशः Kalpadrukośa · केशव स्त्र्यादिलिङ्गप्रकाण्डः Kalpadrukośa 3.5.124 · p. 475
genderपुंस्त्रीm. f.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ शूद्रवर्गः Koṣakalpataru 2.4.33 · p. 298
निर्वेशः स्त्री तु भृत्या स्याद्भर्मण्या च भृतिर्विधा ॥ ३३ ॥
genderस्त्रीfem.
नाममालिका Nāmamālikā · भोज भूम्यादिनामधेयप्रकरणम् Nāmamālikā 3.230 · p. 37
परिस्कन्दः परैर्जातः परैधितनियोज्यकौ ।भरण्यं भरणं भर्म वैतनं निष्क्रयो भृतिः ॥ २३० ॥
अनुष्टुप्
genderस्त्रीfem.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास चतुर्थः परिच्छेदः Paramānandīyanāmamālā 4.28 · p. 105
भृतकः कर्मकारोऽपि खलपूर्बहुकर्मकृत् ।भृतिः पणस्तथा मूल्ये भरणावेतने मते ॥ २८ ॥
अनुष्टुप्
genderस्त्रीfem.
पर्यायशब्दरत्न Paryāyaśabdaratna · धनञ्जयभट्ट मध्यमलोकसर्गः Paryāyaśabdaratna 2.616 · p. 106
निभसंकाशनीकाशप्रतीकाशोपमादयः ।वेतने तु विधा भृत्या भरण्यं भरणं भृतिः ॥ ६१६ ॥
अनुष्टुप्
genderस्त्रीfem.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि मर्त्यविभागः Suśīlanāmamālā 4.536 · p. 68
भृतिः स्याद्वेतनं मूल्यं कर्मणां निष्क्रयः पणः ।भर्मण्या भर्म निर्वेशो भृत्या च भरणं विधा ॥ ५३६ ॥
अनुष्टुप्
genderस्त्रीfem.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश शूद्रवर्गप्रक्लाशः Śabdaratnāvalī 3.8.66 · p. 157
genderस्त्रीfem.
शब्दरत्नाकर Śabdaratnākara · वाचनाचार्यश्रीसाधुसुन्दरगणि तृतीयः काण्डः Śabdaratnākara 3.17 · p. 189
भृति-भृत्ये भर्म भर्मण्या कर्मण्याऽथ भारिके ।भारवाड्भारवाहश्चाप्यथो वार्तावहे जने ॥ १७ ॥
अनुष्टुप्
genderस्त्रीfem.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण वैश्याध्यायः Śabdaratnākara 3.4.1507 · p. 182
भरण्यं भरणं मूल्यं पणो भृत्या विधा भृतिः ।कर्मण्याप्यथ रोषाणो हेमादिनिकषोपलः ॥ १५०७ ॥
अनुष्टुप्
genderस्त्रीfem.
वैजयन्ती Vaijayantī · यादवप्रकाश शूद्राध्यायः Vaijayantī 3.9.5 · p. 136
भृतके भृतिभुक्कर्मकरो वैतनिकस्त्रिषु ।भरण्यं भरणं भर्म वेतनं निष्क्रयो भृतिः ॥ ५ ॥
अनुष्टुप्
genderस्त्रीfem.
धरणिकोश Dharaṇikośa · धरणिदास तपादः Dharaṇikośa 15.1.1 · p. 60
द्युतिः प्रभा द्युतिः कान्तिर्भृतिर्भरणमूल्ययोः ।सुप्तिः स्पर्शाज्ञता [33] निद्रा भित्तिः कुड्यप्रदेशयोः ॥
अनुष्टुप्
कोषकल्पतरु Koṣakalpataru · विश्वनाथ धातुवर्गः Koṣakalpataru 3.5.74 · p. 63
उपादभुक्तौ प्रत्याङो निवासस्य विपर्यये ।परेराकोटनेऽनोस्तु धूपे वासयतिर्मतः ॥स्नेहवस्तौ च संस्कारे संस्कारे त्वधितः परः ।भरते भरति भृतौ भटत्यथ नितेः परौ ॥बिभर्तिर्भरतिः प्रोक्तौ विनये प्राङ उत्तरौ ।उपायने समृद्धौ तु समोऽथाङो विभूषणे ॥ ७४ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 भ (wrong syllable)
कोषकल्पतरु Koṣakalpataru · विश्वनाथ तान्ताः Koṣakalpataru 6.16.50 · p. 211
भृतिस्तु मूल्ये भरणे क्षितिस्तुस्थाने निवासे भुवि च क्षयेऽपि ।धृतिस्तु योगान्तरवृत्तभेद-संतोषधैर्याध्वरधारणासु ॥ ५० ॥
उपजातिः
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् स्त्रीलिङ्गाध्यायः Nānārthārṇavasaṃkṣepa 2.1.77 · p. 16
भृतिस्तु धारणे पोषे भृतकादेश्च वेतने ।मतिर्बुद्धीच्छयोर्माठिस्तरुपत्रसिरास्वपि ॥ ७७ ॥
अनुष्टुप्

भृति as a meaning in nānārtha verses

  • नामलिङ्गानुशासनम् पणपणो द्यूतादिषूत्सृष्टे भृतौ मूल्ये धनेऽपि च ॥ ४६ ॥ Amarakośa 3.3.46
  • नामलिङ्गानुशासनम् निर्वेशरहःप्रकाशौ वीकाशौ निर्वेशो भृतिभोगयोः ॥ २१५ ॥ Amarakośa 3.3.215
  • नामलिङ्गानुशासनम् भिक्षाप्रेक्षा नृत्येक्षणं प्रज्ञा भिक्षा सेवार्थना भृतिः ॥ २२५ ॥ Amarakośa 3.3.225
  • धरणिकोश भरणतरणिः कुमारिकाख्यायामोषधौ नावि भास्करे । भरणी घोषके ऋक्षे भरणं वेतने भृतौ ॥ Dharaṇikośa 14.2.17
  • धरणिकोश पणपणो माने वराटानां मूल्ये कार्षापणे धने । द्यूते विक्रय्यशाकादेर्बद्धमुष्टौ भृतौ गृहे ॥ Dharaṇikośa 14.3.2
  • धरणिकोश भर्मन्मीनो मत्स्ये राशिभेदे भानू रश्मिदिवाकरौ । भर्म भृतौ सुवर्णे स्याच्चर्म स्यात्फलकेऽपि च ॥ Dharaṇikośa 19.1.6
  • धरणिकोश निर्वेशसदेशसवेशौ निकटे देशवेशान्वितौ क्रमात् । निर्वेशस्तु भृतौ भोगे क्वापि सम्मूर्च्छने स्मृतः ॥ Dharaṇikośa 29.2.9
  • धरणिकोश भिक्षाध्वाङ्क्षौ काकबकौ ख्यातौ ध्वाङ्क्षस्तर्ककभिक्षुकाः । मिक्षा याच्ञा भृतिः सेवा भिक्षा भिक्षणवस्तु च ॥ Dharaṇikośa 33.2.3
  • कोषकल्पतरु नयतेज्ञाने भृतौ[199a] वि[ग]णने व्यये कर्मणि कर्तृगे । शरीरावयवाद्भिन्ने नयतिर्ह्यात्मनेपदी ॥ ४० ॥ Koṣakalpataru 3.5.40
  • कोषकल्पतरु पणधान्यांशेऽतितनौ कणो नरि युगे त्वेष स्फुलिङ्गे लवे कृष्णाजीरकयोश्च नक्तजकृमौ च स्त्री रणस्तु क्वणे । कोणेऽस्त्री तु स संगरे नरि पुनः सत्वादिसंध्यादिक- श्वेताद्येषु वृकोदरे पचिकरे रत्यां च विद्यादिंषु । व्यायामेन्द्रियदानपोपरगते(?)धर्मे च ना स्याद्गुणो- ऽथ व्यापारमुहूर्तपर्वसु महे सूक्ष्मेऽपि काले क्षणः । ना द्यूतव्यवहारवित्तभृतिषु स्याच्छ्वेंतकानां मितौ मूल्ये चामिषशाककेऽपि च पणः कार्षापणेऽपीरितः । संख्यासैन्यविशेषयोः पशुपतेर्भृत्येषु संघे गणो घ्राते घ्राण[278b]मुदीरितं च परवत्तन्नासिकायां द्विमुक् । काणो ना करटे तथैकनयने त्रय्यां स्त्रियां त्वौषधौ बाणो ना दनुजे स्त्रियां कुसुमभित्काण्डाङ्गकाण्डेषु च ॥ ३ ॥ Koṣakalpataru 6.15.3
  • कोषकल्पतरु भर्मन्भर्मा रवौ हेम्नि भृतौ च षण्ढे चर्म त्वचि स्यात्फलके च तद्वत् । व्याप्ये क्रियायामपि कर्म न स्त्री वर्त्माध्वनेत्रच्छदवाचकं च ॥ ९० ॥ Koṣakalpataru 6.21.90
  • कोषकल्पतरु मूल्यजीवन्तिकायामथ मूल्यमाहुः वस्ने भृतौ चाथ विलेपभित्त्योः । कुड्यं च धान्यं तु किलाल्लकायां ( ? ) व्रीहौ सुपुण्ये तु परत्र धन्यः ॥ ३२ ॥ Koṣakalpataru 6.26.32
  • कोषकल्पतरु भृत्यचण्डौषधौ स्त्री सतते ध्रुवे च नित्यं पराभं प्रवदन्ति सन्तः । भृत्यस्तु दासे भृतिवाचकं स्त्री चान्त्योऽधमे चान्तभवे पराभः ॥ ४२ ॥ Koṣakalpataru 6.26.42
  • कोषकल्पतरु भिक्षाअचिक्कणेऽथो भृतियाच्ञयोः स्या- द्भिक्षा तथा भिक्षितसेवयोश्च । प्रेक्षा वितर्के धियि संप्रदिष्टा प्लीक्षा( ? )तु रक्षा किल रक्षणेऽपि । कुक्षिर्द्वयोः स्याज्जठराह्वये च गौडादयस्तूदरमात्र आहुः ॥ ५५ ॥ Koṣakalpataru 6.30.55
  • नानार्थार्णवसंक्षेप भिक्षाभिक्षा तु भिक्षितद्रव्ये देयान्ने ग्रासमात्रके । भृतियाचनसेवासु भित्तिं त्वजय आमनत् ॥ ७५ ॥ Nānārthārṇavasaṃkṣepa 2.1.75
  • नानार्थार्णवसंक्षेप पणमूल्ये भृतौ व्यवस्थायां विक्रयेऽप्यथ पट्टवाक् । प्रशस्तक्षौमकौशेयाद्यम्बरे व्रणबन्धने ॥ ७२ ॥ Nānārthārṇavasaṃkṣepa 2.2.72
  • नानार्थार्णवसंक्षेप भोगवेश्यादीनां भृतौ चापि कौटिल्येऽप्यथ मन्त्रवाक् । ऋग्यजुःप्रभृतौ गूढभाषणेऽप्यथ मन्थने ॥ ९१ ॥ Nānārthārṇavasaṃkṣepa 2.2.91
  • नानार्थार्णवसंक्षेप भूर्णिनृशण्डो मातरि त्वस्य भूता स्त्री भूरिवाक् पुनः । प्रचुरे त्रिषु हेम्न्यस्त्री भूर्णिस्तु स्त्री भृतौ तथा ॥ ९१५ ॥ Nānārthārṇavasaṃkṣepa 2.5.915
  • नानार्थार्णवसंक्षेप विधाविषा त्वतिविषायां स्त्री क्ष्वेडे तु स्यान्नृशण्डयोः । जले तु क्ली विधा तु स्त्री भृतौ वृद्धिप्रकारयोः ॥ १२५१ ॥ Nānārthārṇavasaṃkṣepa 2.5.1251
  • नानार्थार्णवसंक्षेप कर्मण्यादैन्ये करुणमित्येतन्ना तु च्छागाख्यपादपे । कर्मण्या तु भृतौ स्त्री स्यात् कर्मसाधौ तु भेद्यवत् ॥ ४१६ ॥ Nānārthārṇavasaṃkṣepa 4.416
  • परमानन्दीयनाममाला पणपणो ग्लहे भृतौ कार्षापणे मूल्ये वराटके । पाको दैत्ये शिशौ पाके पात्रं भाजनदेहयोः ॥ २८८ ॥ Paramānandīyanāmamālā 5.19.288
  • परमानन्दीयनाममाला भर्मन्भद्रो गजान्तरे श्रेयोवृषयोर्मुनिरुद्रयोः । भर्म भारे भृतौ स्वर्णे भोगी तालनृपाहिषु ॥ ३३२ ॥ Paramānandīyanāmamālā 5.20.332
  • शब्दरत्नावली पणक्लीबे घ्राणं नासिकायां घ्राते स्यादभिधेयवत् । चूर्णो धूल्यां क्षारभेदे चूणं स्यात्पटयुक्तिषु ॥ जिष्णुर्महेन्द्रार्जुनयोर्जित्वरे वाच्यलिङ्गकः । झूणि गुवाकभेदे स्याद्दुटदैवश्रुतौ स्त्रियाम् ॥ त्राणं स्यात्त्रायमाणायां रक्षिते रक्षणेऽपि च । तीक्ष्णं स्याद्विषलौहाजिमुष्ककलवणेषु च ॥ आत्मत्यागिनि तीव्रे च त्रिषु क्लीबं यवाग्रके । द्रोणोऽस्त्रियामाढके तु भवेदाढाचतुष्टये ॥ देशभेदे भारद्वाजे दग्धकाके स्त्रियां क्वचित् । तथा काष्ठाम्बुवाहिन्यां गवादन्यामपि स्त्रियाम् ॥ पणो वराटर्के मूल्ये गृहे कार्षापणेऽपि च । क्रय्ये द्यूते भृतौ वित्ते व्यवहारेऽपि पुंस्ययम् ॥ पार्ष्णि द्वयोः सैन्यपृष्ठे पादग्रन्थ्यधरेऽपि च । स्त्रियामुन्मत्तकान्तायां पार्ष्णी पार्ष्णिरिति द्विधा ॥ प्राणोऽनिले बले काव्यजीवे हृदयमारुते ॥ Śabdaratnāvalī 7.15.9
  • शब्दरत्नावली भरणभरणं पोषणादौ च क्लीबं स्याद्वेतने भृतौ । भीषणो रसशल्लक्योः प्रघाढे दारुणे त्रिषु ॥ Śabdaratnāvalī 7.15.55
  • शब्दरत्नाकर पणपणस्तु कार्षिके द्यूते ग्लहे मूल्ये भृतौ धने । स्यान्मानव्यवहाराक्षविक्रयद्रव्यमुष्टिषु ॥ १९५१ ॥ Śabdaratnākara 4.1.1951
  • शब्दरत्नाकर विधावीचिः पङ्क्त्यूर्मिधारासु वीथिः पङ्क्तिः पदव्यपि । विधाः प्रकारहस्त्यन्नविधानर्द्धिभृतिक्रियाः ॥ १९९५ ॥ Śabdaratnākara 4.1.1995
  • शब्दरत्नाकर निर्वेशनिगमो निर्णये वेदे पुरे मार्गे वणिक्पथे । कर्म भृत्युपभोगेषु निर्वेशो मूर्च्छनेऽपि च ॥ २१०९ ॥ Śabdaratnākara 4.1.2109
  • शब्दरत्नाकर विधानविधानं वारणग्रासे प्रकारे वैरकर्मणि । वेदनाप्रेरणाभ्यर्चाक्रियाभृतिसमृद्धिषु ॥ २१६६ ॥ Śabdaratnākara 4.1.2166
  • त्रिकाण्डशेष भर्मन्भृतिकाञ्चनयोर्मर्म मलिनं दूषितेऽसिते । मानं प्रमाणे तौल्ये च मीनो राश्यन्तरे झषे ॥ २५१ ॥ Trikāṇḍaśeṣa 3.3.251
  • वैजयन्ती पणद्यूते विक्रय्यशाकादिबद्धमुष्टौ भृतौ धने । पक्षः पार्श्वगरुत्साध्यसहायबलभित्तिषु ॥ ३५ ॥ Vaijayantī 6.1.35
  • वैजयन्ती भिक्षाभसदौ गुह्यविट्कोष्ठौ भक्तिर्भागे निषेवणे । मिक्षा तु भिक्षितान्नादौ याच्ञायां भृतिसेवयोः ॥ २६ ॥ Vaijayantī 6.2.26
  • वैजयन्ती विधावर्ध्री स्नायुनि नध्र्यां च व्रज्या पर्यटने गतौ । विधा विधाने हस्त्यन्ने भृत्यामृद्धिप्रकारयोः ॥ ३४ ॥ Vaijayantī 6.2.34