साधु
sādhuवि · adj.In 17 kośas: 29 synonym verses, 9 as a nānārtha head word, 44 as a meaning of another word.
महानन्दोऽमृतं सिद्धिः कैवल्यमपुनर्भवः ।शिवं निःश्रेयसं श्रेयो निर्वाणं ब्रह्म निर्वृतिः ॥ ७४ ॥महोदयः सर्वदुःखक्षयो निर्याणमक्षरम् ।मुक्तिर्मोक्षोऽपवर्गोऽथ मुमुक्षुः श्रमणो यतिः ॥ ७५ ॥वाचंयमो व्रती साधुरनगार ऋषिर्मुनिः ।निर्ग्रन्थो भिक्षुरस्य स्वं तपोयोगशमादयः ॥ ७६ ॥
अनुष्टुप्
genderपुंmasc.
कपटं कैतवं दम्भः कूटं छद्मोपधिश्छलम् ।व्यपदेशो मिषं लक्षं निभं व्याजोऽथ कुक्कुटिः ॥ ३७८ ॥कुहना दम्भचर्या च वञ्चनं तु प्रतारणम् ।व्यलीकमतिसन्धानं साधौ सभ्यार्यसज्जनाः ॥ ३७९ ॥
अनुष्टुप्
genderविadj.
चारु हारि रुचिरं मनोहरं वल्गु कान्तमभिरामबन्धुरे ।वामरुच्यसुषमाणि शोभनं मञ्जुमञ्जुलमनोरमाणि च ॥ १४४४ ॥साधुरम्यमनोज्ञानि पेशलं हृद्यसुन्दरे ।काम्यं कम्रं कमनीयं सौम्यं च मधुरं प्रियम् ॥ १४४५ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 म (wrong syllable)
genderविadj.
genderविadj.
सुन्दरं रुचिरं चारु सुषमं साधु शोभनम् ।कान्तं मनोरमं रुच्यं मनोज्ञं मञ्जु मञ्जुलम् ॥ ५२ ॥
अनुष्टुप्
genderविadj.
शरारुर्घातको हिंस्रो नृशंसः क्रूरकर्मकृत् ।साधुः सज्जन आर्यः स्याद्गृहमेधी गृहाधिपः ॥ ३७२ ॥
अनुष्टुप्
genderविadj.
प्राग्र्यं प्राग्रहरं प्रवेकमपरं वर्यं वरेण्यं वरं,श्रेष्ठं प्रेष्ठमनुत्तमं च मधुरं मञ्जु प्रियं मञ्जुलम् ।हृद्यं हारि मनोहरं च रुचिरं कान्तं परं सुन्दरं,सौम्यं साधु च वल्गु चारु सुषमं वामं शुभं पेशलम् ॥ ६८९ ॥
शार्दूलविक्रीडितम्
genderविadj.
दोषैकदृक् पुरोभागी साधुसभ्यार्यसज्जनाः ।तत्परे प्रसितासक्ता विष्टार्थोद्युक्त उत्सुकः ॥ १६ ॥
अनुष्टुप्
genderविadj.
सभ्य-साधू सज्जनार्यौ समौ पार्षद्य-पार्षदौ ।पारिषद्यः पारिषदो भवेद्दुष्कुलजः पुनः ॥ ३ ॥
metre not recognisednearly अनुष्टुप्: pāda 3, syllable 5 पा (wrong syllable)
genderविadj.
लोकंपृणस्तु लोकस्य प्रीतिकारी प्रकीर्तितः ।साधुः सहो रश्मियः (?) स्याद्भव्यस्तु भविलो भवेत् ॥प्रतिस्नातस्त्व * गथो लमकस्तीर्थशोधनः ।उपासकस्तु गोमी स्याद्गोमानिति च कीर्तितः ॥उग्रपश्यः क्रूरदर्शी द्वेष्यस्त्वक्षिगतो मतः ॥ ५० ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
genderविadj.
मनोरमं मञ्जुल-मञ्जु-वल्गु-काम्यानि सौम्यं मधुरं च हारि ।स्याच्छोभनं चारु च साधु कम्रंरम्यं सुरूपं सुषमं च दृश्यम् ॥ ६१ ॥
उपजातिः
genderविadj.
सुधाजनयिता साधुः सुराहारप्रदोऽनघः ।शुद्धोदे निर्मलः शुद्धो मेघोन्मादकरोऽनघः ॥ ९ ॥
अनुष्टुप्
genderपुंmasc.
ऋषिर्मुनिर्यतिर्भिक्षुस्तापसः संशितो व्रती ।तपस्वी संयमी योगी वर्णी साधुश्च पातु वः ॥ ३ ॥
अनुष्टुप्
genderपुंmasc.
साधीयोऽत्यर्थमत्यन्तं नितान्तं सुष्टु वै भृशम् ।स्फुटं साधु खलु स्पष्टं विशदं पुष्कलामलौ ॥ १७३ ॥
अनुष्टुप्
genderअindecl.
द्वयोस्तु तदपत्येषु स्थाणुस्तु गिरिशे पुमान् ।कुरुदेशे चाथ न स्त्री ध्रुवके साधु तु त्रिषु ॥ १५०० ॥
अनुष्टुप्
genderविadj.
बन्धुरं चाभिरामं स्यात्सुषमं साधुसुन्दरे ।मनोहारि? काम्यकम्रे कमनीयमनोरमे ॥ ३३३ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 रि (wrong syllable)
genderविadj.
सभ्यसज्जनसाध्वार्या दुर्जनः पिशुनः समः ।खले नीचो द्विजिह्वोऽपि मत्सरी सूचकस्तथा ॥ ४५ ॥
अनुष्टुप्
genderपुंmasc.
रम्ये तु शुभगं स्वादु चक्षुष्यं मञ्जु मञ्जुलम् ।पालटं(?) साधु रुचिरं सुषमं वल्गु भासुरम् ॥ ६८० ॥
अनुष्टुप्
genderविadj.
यतिर्यती मुनेः साधुस्तपस्वी संयतो व्रती ।भिक्षुर्मुमुक्षुर्निर्ग्रन्थः ऋषिर्योगी च संयमी ॥ १२० ॥
अनुष्टुप्
genderपुंmasc.
गुणवानुत्तमः श्रेष्ठो योग्यः पूज्यो महान्गुणी ।श्रेयाञ्शिष्टः सदाचारः साधुसभ्यार्यसज्जनाः ॥ ७२ ॥
अनुष्टुप्
genderविadj.
कान्तं रम्यं चारु हारि कमनीयं मनोरमम् ।हृद्यं काम्यं रमणीयं प्रशस्तं साधु शोभनम् ॥ ९७ ॥
metre not recognisednearly अनुष्टुप्: pāda 3, syllable 6 म (wrong syllable)
genderविadj.
वाचंयमोऽनगारश्च निर्ग्रन्थः श्रमणो मुनिः ।ऋषिर्यतिर्यती साधुः मुमुक्षुर्भिक्षुकश्च सन् ॥ ५१ ॥
अनुष्टुप्
genderपुंmasc.
अथाऽऽर्यश्चापि साधुः स्यात् सभ्यश्च सज्जनस्तथा ।दोषैकदृक् पुरोभागी विद्वद्भिः कथ्यते किल ॥ ५६३ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 श्च (wrong syllable)
genderपुंmasc.
रुचिरं चारु रुच्यं च लडहं हारि वल्गु च ।रमणीयं तथा सौम्यं पेशलं साधु बन्धुरम् ॥ २६२५ ॥
अनुष्टुप्
genderविadj.
तेनैवोद्भिदमुद्भिज्जमुद्भिदिति निगद्यते ।सुन्दरं शोभनं साधु मञ्जु कान्तं मनोरमम् ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 2 द्भि (wrong syllable)
genderविadj.
वरिवसिते परिवस्यितमुपासितमुपचरितपरिचरिते ।चक्षुष्यसुभगशोभनसाधुमनोज्ञाभिरामरमणीयाः ॥ १५८० ॥
उद्गीतिःmetre not read in every line
genderविadj.
कुहको व्यंसको धूर्तो जाल्मः कौसृतिकोऽपि सः ।सज्जनः सुजनः साधुर्दुर्जनः पिशुनः खलः ॥ १५८७ ॥
अनुष्टुप्
genderविadj.
खट्वारूढोविनीतः स्यान्मरालमसृणे समे ।प्राञ्जलः प्रगुणोऽजिह्मः प्रणाय्यः साध्वनिन्दितौ ॥ २६ ॥
अनुष्टुप्
genderविadj.
शोभनं सुषमं चारु हृद्यं चौक्षं मनोहरम् ।न्युंखं हारि प्रियं साधु लडहं च मनोरमम् ॥ १३५ ॥
अनुष्टुप्
genderविadj.
चारौ व्याकृतशब्दे च सज्जनेऽप्युचितेऽपि च ।केचित् तु धर्मशीलेऽन्ये पुनः संयत ऊचिरे ॥ १५०१ ॥
अनुष्टुप्
doubtful
ना तु वार्धुविके कैश्चित् पठितस्तदसद्यतः ।स्यादौपाधिकशब्दत्वादस्य लिङ्गं विशेषकम् ॥ १५०२ ॥
अनुष्टुप्
meaningsवार्धुषिक
doubtful
स्कन्धश्छन्दो विशेषाकेसयुद्धभूषतिवर्ष्मसु ।तरुप्रकाण्डे भद्रादौ समूहे च भवेत्पुमान् ॥अथ साधुर्वार्द्धुषिके सुन्दरे सज्जने त्रिषु ।सिद्धो योगभिदि व्यासे देवयोनिसुसिद्धयोः ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्nearly अनुष्टुप्: pāda 1, syllable 5 र्वा (wrong syllable)
श्राद्धं निवापे श्रद्धालौ त्रिषु साधुर्धनिन्यपि ।स्कन्धः सङ्घेऽपि सिद्धस्तु नित्यनिष्पन्दनाकिषु ॥ २२४ ॥
अनुष्टुप्
meaningsधनिन्
साधु as a meaning in nānārtha verses
- नामलिङ्गानुशासनम् सत्सत्ये साधौ विद्यमाने प्रशस्तेऽभ्यर्हिते च सत् ॥ ८३ ॥ Amarakośa 3.3.83
- नामलिङ्गानुशासनम् साधीयस्वरीयांस्तूरुवरयोः साधीयान्साधुबाढयोः ॥ २३६ ॥ Amarakośa 3.3.236
- धरणिकोश सत्सन्नित्यर्चिते साधौ विद्यमानप्रशस्तयोः । सती पतिव्रता स्त्री स्यात्सती गौरी च कीर्तिता ॥ Dharaṇikośa 15.3.1
- धरणिकोश सज्जनसज्जनं सज्जनश्चैव सज्जना त्रितयं क्रमात् । घट्टाख्ये गुल्मके साधौ हस्तिपर्याणके मतम् ॥ Dharaṇikośa 19.3.18
- धरणिकोश समसमा वर्षं समं तुल्यं समं साधु समं सदृक् । क्षमा तितिक्षा योग्ये च क्षमं शक्ते हिते क्षमम् ॥ Dharaṇikośa 24.2.8
- धरणिकोश मङ्गल्यमङ्गल्यं मङ्गले साधौ मङ्गल्यश्च मसूरकः । मङ्गल्या च वचा रुद्रा मल्लिगन्धागुरुस्तथा ॥ Dharaṇikośa 25.3.16
- धरणिकोश भद्रभद्रं मुस्तकसाधुनोः सुतसुखश्रेष्ठेषु भद्रा पुन- र्गम्भारीजघनेफलासुरसरिद्रास्नार्धचन्द्रासु च । भद्रो मेरुकदम्बके च वृषभे भद्रस्तथा खञ्जने भद्रः कुञ्जरजातिभेदकरणे भद्रं स्मृतं मङ्गलम् ॥ Dharaṇikośa 26.3.2
- धरणिकोश वरवरः श्रेष्ठे जामातरि परिवृतौ साधु च वरं वरोऽभीष्टे देवासुरमभिहितं कुङ्कुममपि । वरीमिन्दीवर्यामभिदधति षिङ्गेऽपि च वरं मनागिष्टे यत्स्याद्वरमथ च तच्चाव्ययमपि ॥ Dharaṇikośa 26.3.20
- कोषकल्पतरु वृषाङ्कभालाङ्क ईशेऽपि च शाकभेदे कूर्मे तथा रोहितनाम्नि मत्स्ये । सल्लक्षणे स्यात्पुरुषे वृषाङ्क- स्त्वीशे च साधावपि वल्लिवृक्षे ॥ ६ ॥ Koṣakalpataru 6.1.6
- कोषकल्पतरु सत्शङ्खौषधौ [संस्तु] सदस्यपूज्य- साधुप्रशस्येष्वपि विद्यमाने । स्त्रियां त्वपर्णाकुलयोषितोः स्या- देतस्तु किर्मीर उपागते च ॥ ११ ॥ Koṣakalpataru 6.16.11
- कोषकल्पतरु ?उद्वान्तस्त्वमदे द्विपे त्रिषु समुद्गीर्णेऽथ कक्षान्तरे क्ष्मापानां प्रमदापुरेऽप्यकुशले त्वस्वन्तमन्त्येऽन्तयोः । क्षेत्रे चानवधौ *** वुदितः साधौ प्रवृत्तौ पुमान् अर्हन्तः क्षपणे जिनेऽथ जलधौ प्रोक्तस्तरन्तः पुमान् ॥ २० ॥ Koṣakalpataru 6.16.20
- कोषकल्पतरु सज्जन[16b] स्याद्वर्जनं हिंसनदानवाचि स्यान्मार्जनं शुद्धिषु लोचने न (?) स्यात्सज्जनं सैन्यकगुल्मवाचि साधौ त्रये योषिति कल्पनायाम् ॥ ६० ॥ Koṣakalpataru 6.21.60
- कोषकल्पतरु समस्याद्गुग्गुलुश्चाथ सिमस्तु सर्व- शक्तावबद्धेषु तथावधौ च । स्यात्सर्वनामापि समोऽखिलार्थः साधौ सदृक्षे च विशेष्यवत्स्यात् ॥ ७६ ॥ Koṣakalpataru 6.25.76
- कोषकल्पतरु भद्रभद्रो हरे स्याद्वृषभे च मेरु- कदम्बके वारणजातिभेदे । स्याद्रामदूतेऽपि च खञ्जरीटे श्रेष्ठे तु साधुन्यपि वाच्यलिङ्गः ॥ ४५ ॥ Koṣakalpataru 6.27.45
- नानार्थार्णवसंक्षेप सत्धने तु नप् पुमान् ज्ञातौ तकारान्तं तु सत् त्रिषु । सत्ये साधौ विद्यमाने प्रशस्तेऽभ्यर्हिते बुधे ॥ २० ॥ Nānārthārṇavasaṃkṣepa 1.5.20
- नानार्थार्णवसंक्षेप सामन्साधुन्यथ जले स्रोतः प्रवाहे सरितामपि । अम्भसो निर्गमद्वार इन्द्रियेऽप्यथ हर्म्यवाक् ॥ ७२ ॥ Nānārthārṇavasaṃkṣepa 2.3.72
- नानार्थार्णवसंक्षेप भद्रसाधौ च स्त्री तु भद्रा स्याद् दूर्वाशारिबयोस्तथा । रास्नायां चाथ पक्षस्य त्रयः स्युस्तिथिपञ्चकाः ॥ ८८१ ॥ Nānārthārṇavasaṃkṣepa 2.5.881
- नानार्थार्णवसंक्षेप भाग्यदीयते यत्र भागोऽसौ तत्र तत्रापि साधुनि । भार्या स्त्री सहधर्मिण्यां ना त्वादिक्षत्त्रियान्तरे ॥ ८९८ ॥ Nānārthārṇavasaṃkṣepa 2.5.898
- नानार्थार्णवसंक्षेप मत्यस्त्रियो मध्या अथो मत्यं क्ली समीकृतिसाधने । क्षेत्रस्य कृष्टस्य मतिमतसाधौ तु स त्रिषु ॥ ९३५ ॥ Nānārthārṇavasaṃkṣepa 2.5.935
- नानार्थार्णवसंक्षेप माघधार्ये माध्यस्तु कुन्दाख्यद्रुमे ना प्रसवेऽस्य नप् । माघसाधौ पुनस्त्रि स्यात् पौर्णमास्यां पुनः स्त्रियाम् ॥ ९८७ ॥ Nānārthārṇavasaṃkṣepa 2.5.987
- नानार्थार्णवसंक्षेप सममाहात्म्ये पौरुषे त्वस्त्री पिशाचादौ च जन्तुषु । प्राणे चाथ समं तुल्ये साधौ च त्रिषु स त्वयम् ॥ १४४१ ॥ Nānārthārṇavasaṃkṣepa 2.5.1441
- नानार्थार्णवसंक्षेप सीत्यसीतायामपि साधौ स्यात् कृष्टभूमितलेऽपि च । अथ प्रख्यापने स्त्रीप्तिः स्त्री नभःपयसोः (भके ?) ॥ १५२५ ॥ Nānārthārṇavasaṃkṣepa 2.5.1525
- नानार्थार्णवसंक्षेप धनुकधनुका तु स्त्रियां वध्वां भेद्यलिङ्गं तु साधुनि । धनेशस्तु कुबेरे ना स्यात् त्वाढ्ये भेद्यलिङ्गकः ॥ ९७१ ॥ Nānārthārṇavasaṃkṣepa 4.971
- नानार्थार्णवसंक्षेप समानसमानस्तु पुमान् वायुभेदे देहान्तरस्थिते । त्रिस्तु साध्वेकतुल्येषु मानेन सहिते तथा ॥ १९१३ ॥ Nānārthārṇavasaṃkṣepa 4.1913
- नानार्थार्णवसंक्षेप सज्जनसज्जनस्तु पुमान् साधौ कुलीने भेद्यलिङ्गकम् । क्लीबं तु रभसो ब्रूत उपरक्षणघट्टयोः ॥ १९१४ ॥ Nānārthārṇavasaṃkṣepa 4.1914
- नानार्थार्णवसंक्षेप वासतेयवासतेयी तु रात्र्यां स्त्री साधौ तु वसतौ त्रिषु । वासुदेवस्तु ना विष्णौ द्वयोस्तु स्यात् तुरङ्गमे ॥ ५५० ॥ Nānārthārṇavasaṃkṣepa 6.550
- परमानन्दीयनाममाला सत्सच्छब्दः पूजिते सत्ये साधूशोभनयोः सति । स्वं निजे द्रविणे होऽथ वीरे रुद्रे भयंकरे ॥ ४१ ॥ Paramānandīyanāmamālā 1.41
- परमानन्दीयनाममाला न्यङ्कुनाडी दम्भस्य चर्यायां नाले स्नायौ गुणान्तरे । न्यङ्कुस्ताले मृगे साधौ नखो नखरखण्डयोः ॥ २६० ॥ Paramānandīyanāmamālā 5.18.260
- शब्दरत्नावली धनिकधनिकः साधुधन्यके धनिषु स्त्रीषु च स्त्रियाम् । धेनुको दैत्यभेदे ना करिण्यां गवि च स्त्रियाम् ॥ Śabdaratnāvalī 7.1.90
- शब्दरत्नावली वृषाङ्कवृश्चिको राशिभेदे स्याद् द्रूणे कीटौषधीभिदोः । वृषाङ्कः साधुशिवयोः भल्लातकमहल्लयोः ॥ Śabdaratnāvalī 7.1.142
- शब्दरत्नावली न्युङ्खनखी शुक्तौ स्त्रियां क्लीबे नखरेऽपि च न द्वयोः । न्युङ्खः साधुमनोज्ञे च साम्नां षट्प्रणवेष्वपि ॥ Śabdaratnāvalī 7.2.2
- शब्दरत्नावली सत्सत्प्रशस्ते विद्यमानेऽत्यादृते साधुसत्ययोः । धीरेऽपि च वाच्यलिङ्गं स्यात्सतीसाध्वीमयो(?) स्त्रियाम् ॥ Śabdaratnāvalī 7.16.63
- शब्दरत्नावली उदन्तआसत्तिर्लाभसंगत्योरापत्तिः प्रापणापदोः । स्यादुदन्तः पुंसि साधौ वार्तायां वृत्तियोजने ॥ Śabdaratnāvalī 7.16.88
- शब्दरत्नावली विनीतविनीतः स्यादपि साधुवाहाश्वयोरपि । जितेन्द्रियेप्यपनीते रह इत्येतेषु त्रिषु ॥ Śabdaratnāvalī 7.16.135
- शब्दरत्नावली कृतिन्कृती योगे पण्डिते स्यात्साधौ पुण्यरतेऽपि च ॥ Śabdaratnāvalī 7.20.48
- शब्दरत्नावली समशुष्मं वीर्ये रवौ पुंसि समा स्याद्वत्सरे स्त्रियाम् । साधुसर्वसमानेषु समं स्याद्वाच्यलिङ्गकम् ॥ Śabdaratnāvalī 7.25.26
- शब्दरत्नावली भद्रकट्फलायामनन्तायां तथा तिथिभिदि स्त्रियाम् । त्रिषु साधुश्रेष्ठयोः स्यान्नपुंसि करणान्तरे ॥ भारी हरौ वीवधे स्यात्पलानां द्विसहस्रके । भीरुस्त्रिलिङ्ग आगर्ते स्यात् स्त्रियां मेववस्त्रिषु (?) ॥ भूरि क्लीबं काञ्चने स्यात्प्रचुरेऽपि च वाच्यवत् । पुमान् विष्णौ महादेवे परमेष्ठिनि वासवे ॥ Śabdaratnāvalī 7.27.27
- शब्दरत्नावली वसुप्रसूर्मातरि कन्दल्यामश्वायां विरुधि स्त्रियाम् । वसुरत्ने धने क्लीबं दीप्तौ वृद्ध्यौषधे स्त्रियाम् । नाग्नौ देवे बके श्यामे योक्तभूपालसाधुषु ॥ Śabdaratnāvalī 7.32.5
- शब्दरत्नाकर सत्त्रिषु स्वीये नरि ज्ञातौ स्वो धने तु नपुंसके । साधौ श्रेष्ठे वर्तमाने सत्ये चाभ्यर्हिते च सत् ॥ २२४८ ॥ Śabdaratnākara 4.1.2248
- त्रिकाण्डशेष सज्जनधान्यभेदे पुमान् षष्टिहायनः कुञ्जरेऽपि च । ना साधौ सज्जनं क्लृप्तौ साधनं सिद्धमेढ्रयोः ॥ २६७ ॥ Trikāṇḍaśeṣa 3.3.267
- त्रिकाण्डशेष समसार्वभौमो गजे राज्ञि सम्भ्रमौ साध्वसादरौ । कण्टकेऽल्पे च सूक्ष्मं स्यात्साधौ तुल्येऽखिले समः ॥ ३०४ ॥ Trikāṇḍaśeṣa 3.3.304
- वैजयन्ती आर्यअन्यौ विभिन्नासदृशावार्यः साधुकुलीनयोः । आद्यमादिभवे भक्ष्येऽप्युत्पत्तिरहितेऽप्यृजुः ॥ २ ॥ Vaijayantī 6.4.2
- वैजयन्ती सभ्यशुभ्रं शुक्ले भास्वरे च शुक्तं तु परुषाम्लयोः । सभ्यः सामाजिके साधौ सव्यो दक्षिणवामयोः ॥ १८ ॥ Vaijayantī 6.4.18
- वैजयन्ती समानसमानः प्राणभेदे ना त्रिष्वेकसमसाधुषु । संस्कारे ना संस्कृतिः स्त्री संकल्पप्रतियत्नयोः ॥ ८८ ॥ Vaijayantī 7.5.88