संकट
saṃkaṭaवि · adj.In 8 kośas: 8 synonym verses, 6 as a meaning of another word.
प्रणतिः प्रणिपातोऽनुनयेऽथ शयने क्रमात् ।विशाय उपशायश्च पर्यायोऽनुक्रमः क्रमे ॥ १५०३ ॥परिपाट्यानुपूर्व्यातृदतिपातस्त्वतिक्रमः ।उपात्ययः पर्ययश्च समौ संबाधसंकटौ ॥ १५०४ ॥
अनुष्टुप्
genderपुंmasc.
अपसव्यं शरीरस्य दक्षिणं चाथ संकटम् ।संबाधः पुंसि कलिलं गहनं चापि संकुले ॥ १४५ ॥
अनुष्टुप्
genderविadj.
अनुहारोऽनुकारः स्यात्सादृश्येऽथार्थवर्त्तनम् ।व्ययः संकटसंबाधौ परिपाट्यानुपूर्व्यपि ॥ ५६ ॥
अनुष्टुप्
genderपुंmasc.
मृतयानं काष्ठमल्ले गाङ्गेष्टी कटशर्करा ।सूना स्त्रियां वधस्थाने मतमाघातनं तथा ।पितृवसतिः पितृविपिनं करवीरं दाहसा(स)रश्च ।संकटमघमाशौचं भवत्यशौचं च तद्वदेवेह ॥ ७६ ॥
अनुष्टुप्metre not read in every line
genderक्लीneut.
अपष्ठ्वव्ययमत्राथ सव्यं स्याद्वाममङ्गकम् ।दक्षिणं त्वपसव्यं स्यात्संबाधः पुंसि संकटम् ॥ २१ ॥
अनुष्टुप्
genderक्लीneut.
संकुलाकुलसंकीर्णाकीर्णसंबाधसंकटाः ।परीतं निचितं व्याप्तं दिग्धलिप्ताक्तगुण्डिताः ॥ १०८ ॥
अनुष्टुप्
genderविadj.
उच्छृङ्खलं स्यादुद्दामं निरङ्कुशमनर्गलम् ।संबाधः संकटो रीणः क्षीणो मूर्तस्तु मूर्तिमान् ॥ १६५७ ॥
अनुष्टुप्
genderविadj.
निबिडं निबिरीसं स्यात् घनं सान्द्रं निरंतरम् ।विकटं तु विरूपं स्यात् संबाधः संकटः समौ ॥ १२६ ॥
अनुष्टुप्
genderविadj.
संकट as a meaning in nānārtha verses
- धरणिकोश संबाधआविद्धौ कुटिलक्षिप्तौ संबाधौ योनिसंकटौ । संबोधश्च क्षये बोधे प्रणिधिः प्रार्थ[51] ने चरे ॥ Dharaṇikośa 18.1.6
- कोषकल्पतरु संसरणघण्टापथासंकटसैन्ययान- पूर्निर्गमद्वाररणोद्यमेषु । संसारके संसरणं तथाहु- र्विदारणं यु[284b]द्ध विडम्बयोः स्यात् ॥ ५३ ॥ Koṣakalpataru 6.15.53
- कोषकल्पतरु संबाधपुमांस्तथा स्याद्विवधोऽथ देशे शैले कठोरे निषधो नृपे च । संबाध उक्तो भगसंकटार्थे स्याद्दुर्विधो दुर्गतधूर्तयोश्च ॥ ६९ ॥ Koṣakalpataru 6.20.69
- कोषकल्पतरु गह्वरपुंसि वास्तव्यके वाणिजे नीवरो गह्वरं कन्दरे कैतवे संकटे । भक्तसिक्थे यमे यक्ष्मके केसरे कौत्सिताम्बे दृढे( ? )पार्परो भस्मनि ॥ ३४ ॥ Koṣakalpataru 6.27.34
- परमानन्दीयनाममाला संबाधसंगरोऽङ्गीकृतौ युद्धे विनाशे गरलेऽपि च । संबाधः संकटे योनौ सावित्रः पार्वतीपतौ ॥ ३७१ ॥ Paramānandīyanāmamālā 5.27.371
- वैजयन्ती संबाधसंगरो ना क्रियाकारे प्रतिज्ञाविपदोर्युधि । शमीफले तु षण्डोऽथ संबाधौ योनिसंकटौ ॥ ९२ ॥ Vaijayantī 7.5.92