शयन
śayanaक्ली · neut.In 17 kośas: 26 synonym verses, 7 as a nānārtha head word, 23 as a meaning of another word.
निद्रा प्रमीला शयनं संवेशस्वापसंलयाः ।नन्दीमुखी श्वासहेतिस्तन्द्रा सुप्तं तु साधिका ॥ ३१३ ॥
अनुष्टुप्
genderक्लीneut.
तल्पं शय्या शयनीयं शयनं तलिनं च तत् ॥ ६८२ ॥
metre not recognised
genderक्लीneut.
प्रणतिः प्रणिपातोऽनुनयेऽथ शयने क्रमात् ।विशाय उपशायश्च पर्यायोऽनुक्रमः क्रमे ॥ १५०३ ॥परिपाट्यानुपूर्व्यातृदतिपातस्त्वतिक्रमः ।उपात्ययः पर्ययश्च समौ संबाधसंकटौ ॥ १५०४ ॥
अनुष्टुप्
genderक्लीneut.
स्यान्निद्रा शयनं स्वापः स्वप्नः संवेश इत्यपि ॥ ३६ ॥
अनुष्टुप्
genderक्लीneut.
उपधानं तूपबर्हः शय्यायां शयनीयवत् ॥ १३७ ॥शयनं मञ्चपर्यङ्कपल्यङ्काः खट्वया समाः ।
अनुष्टुप्
genderक्लीneut.
पर्यङ्कः शयनं शय्या तल्पं च तलिनं स्मृतम् ।अपाश्रयस्तु विद्वद्भिः कथ्यते मत्तवारणः ॥ ३०७ ॥
अनुष्टुप्
genderक्लीneut.
तृष्णोदन्येथ मूर्छा तु मूढिर्मोहिःखरक्षयः ।खरसादश्च मूर्त्सायां निद्रा स्त्री शयनं च षण् ॥ ३२० ॥
अनुष्टुप्
genderक्लीneut.
तल्पमस्त्री तु तलिनं क्लीबे स्याच्छयनं पुनः ।शयनीयं स्त्रियां शय्या खट्वा स्यान्मञ्चकोऽस्त्रियाम् ॥ ४२१ ॥
अनुष्टुप्
genderक्लीneut.
स्खलनं विप्रलम्भस्तु विसंवाद उभौ समौ ।निद्रा स्त्रियां षण् शयनं संवेशः संलयः समौ ॥ १२७ ॥
अनुष्टुप्
genderक्लीneut.
भवनस्यानुमानस्य लशुनस्य ततः पुनः ।गृञ्जनस्यापि शयनद्वीपयोः कुतपस्य च ॥ १६८ ॥
अनुष्टुप्
genderपुंक्लीm. n.
संवेशः स्याच्छयः स्वप्नः स्वापः शयनमस्त्रियाम् ।निद्रा सुप्तिरथावेशोऽपस्मारः सहसा भयम् ॥ १५६ ॥
अनुष्टुप्
genderपुंक्लीm. n.
संस्तर-प्रस्तरौ तुल्यावासन्दी लघुखट्विका ।निषद्याथो मञ्चकः स्याच्छयनं तल्पमस्त्रियः ॥ २७ ॥
अनुष्टुप्
genderक्लीneut.doubtful
गन्धमादनपिधानचन्दन-द्वीपिनाशनवितानयौवनम् ।वर्धमानशतमानहायन-स्तेनवस्नशयनानि गृञ्जनम् ॥ ५१ ॥
रथोद्धता
genderपुंक्लीm. n.
निद्रासंवेशशयनप्रमीलाः श्वाससंहतिः ।तन्द्रानन्दीमुखीस्वापाः सुप्तं निद्राधिका पुनः ॥ २०८ ॥
अनुष्टुप्
genderक्लीneut.
स्रस्तरः संस्तरश्चैव शय्या शयनमुच्यते ।शयनीयतलिमे तुल्ये तल्पं पर्यङ्कमञ्चकौ ॥ ३२२ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
genderक्लीneut.
निपानं शयनं द्वीपिगृञ्जनौ कुणपो निपः ।विष्टपद्वीपशष्पानि मण्डपो विटपोऽपि च ॥ १४७ ॥
अनुष्टुप्
genderपुंक्लीm. n.
शय्यायां शयनीयं च शय्या च शयनं मतम् ।खट्वायां मञ्चपर्यङ्कपल्यङ्काः सन्दिनीति च ॥ १९९ ॥
अनुष्टुप्
genderक्लीneut.
खट्वा पर्यङ्कपल्यङ्काष्टशल्यामञ्चमञ्चकाः ।शय्या च शयनं तल्पं शयनीयं च तूलिका ॥ ७४ ॥
अनुष्टुप्
genderक्लीneut.
संवेशः शयनं स्वापः सुप्तं तु सुखसुप्तिका ।सुष्वापश्चेति निद्रायास्त्रयं नामाधिकं खलु ॥ ४६१ ॥
अनुष्टुप्
genderक्लीneut.
genderक्लीneut.
निद्रा सुप्तिश्च संवेशः स्वापः शयनमित्यपि ।स्वप्नः स्वपनमित्येष निद्रापर्याय ईरितः ॥
अनुष्टुप्
genderक्लीneut.
शयनीयञ्च शयनं शय्या च शयनीयकम् ।पल्लवाद्यैर्विरचिते शयनीये तु सम्भवः ॥
अनुष्टुप्
genderक्लीneut.
स्रस्तरोऽपि च तल्पे तु शयनं शयनीयवत् ।शय्यापि च खट्वायां तु मञ्चवन्मञ्चकः स्मृतः ॥ २२९ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 ख (wrong syllable)
genderक्लीneut.
अपटीका काण्डपटी प्रतिसीरा यवनिका तिरस्करिणी ।शय्या शयनं तल्पं शयनीयं तलिममास्तरणम् ॥ ८६५ ॥
आर्या
genderक्लीneut.
शय्या पर्यङ्कपल्यङ्कौ शयनं शयनीयवत् ।प्रस्तरः संस्तरः शय्या रचिता पल्लवादिभिः ॥ १६५ ॥
अनुष्टुप्
genderक्लीneut.
उपधानं तूपबर्हमुच्छीर्षमुपबर्हणम् ।संवापः शयनं स्वापः संवासो वासनं सह ॥ १६७ ॥
अनुष्टुप्
genderक्लीneut.
पश्वङ्गे हस्तिरदने विषाणं स्यात् त्रिलिङ्गकम् ।शयालुः शयनश्चोभौ निद्रालौ त्रिषु न द्वयोः ॥ २१७३ ॥
अनुष्टुप्
meanings
शयन as a meaning in nānārtha verses
- नामलिङ्गानुशासनम् औशीरऔशीरश्चामरे दण्डेऽप्यौशीरं शयनासने । Amarakośa 3.3.350
- धरणिकोश मन्दुरामन्दुरा वाजि[82]शालायां शयनार्थे च वस्तुनि । वर्वरा कुसुमे शाके वर्वराः प्राकृता जनाः ॥ Dharaṇikośa 26.2.47
- धरणिकोश औशीरअवीरा निष्पतिसुता चावीराः सत्त्ववर्जिताः । औशीरं चामरे दण्डे चौशीरं शयनासने ॥ Dharaṇikośa 26.2.64
- कल्पद्रुकोशः संविश्भोगे निरो विशिर्नेस्तु विवाहशयने समः । आसने स उपात्स्यातां द्वौ परिच्छदवेष्टने ॥ १०६ ॥ Kalpadrukośa 1.10.106
- कोषकल्पतरु विद्रातिखेदे तु स्याद्वितो द्रातिः शयने च पलायने । [ऋच्छति] प्रापणे क्रिं त्वे(?) नयति नयतेऽपि च ॥ ३४ ॥ Koṣakalpataru 3.5.34
- कोषकल्पतरु शशुभे शमुक्तं शयने तु शः स्या- न्निशाकरे शुः प्रथितो वधेऽपि । Koṣakalpataru 6.30.1
- नानार्थार्णवसंक्षेप शयपृथश्च यस्येत्यृचि च गीतयोः सामभेदयोः । शयो ना शयने पाणौ कृकलासे तु स द्वयोः ॥ १३१४ ॥ Nānārthārṇavasaṃkṣepa 2.5.1314
- नानार्थार्णवसंक्षेप विशयविस्मयस्त्वद्भुते दर्पे विशयस्त्वपि संशये । वे(श्या?श्वा)पि शयने ज्ञेयो विषयस्त्वपि गोचरे ॥ १९७ ॥ Nānārthārṇavasaṃkṣepa 3.2.197
- नानार्थार्णवसंक्षेप सुस्तरऋणे नखे हिरण्येऽथ स्त्रीवासो वामलूरके । स्त्रीणां वासे सुस्तरस्तु भवेच्छयनमानयोः ॥ २४५ ॥ Nānārthārṇavasaṃkṣepa 3.2.245
- नानार्थार्णवसंक्षेप औशीरचामरे शयने दण्डे कटीरं त्वपि कन्दरे । जघने च जले चाथ कटित्रं यत्र तद्विदः ॥ १८ ॥ Nānārthārṇavasaṃkṣepa 3.3.18
- नानार्थार्णवसंक्षेप मानसपूजके तु त्रिषु ज्ञेयो माहिरस्तु नृलिङ्गकः । इन्द्रे क्लीबं तु शयने बाले च क्ली तु मानसम् ॥ १४१३ ॥ Nānārthārṇavasaṃkṣepa 4.1413
- नानार्थार्णवसंक्षेप सुस्तरऋणे नखे हिरण्येऽथ स्त्रीवासो वामलूरके । स्त्रीणां वासे सुस्तरस्तु भवेच्छयनमानयोः ॥ २४५ ॥ Nānārthārṇavasaṃkṣepa 6.245
- नानार्थार्णवसंक्षेप संवेशनस्त्रियां तु मुखशालायां विद्यात् संवेशनीपदम् । संवेशनं तु शयने क्लीबं संवेशना न ना ॥ ६३८ ॥ Nānārthārṇavasaṃkṣepa 6.638
- सुशीलनाममाला औशीरऔशीरं शयने प्रोक्तमासने चापि कथ्यते । Suśīlanāmamālā 4.897
- शब्दरत्नावली स्वान्तसुतः स्यात्पार्थिवे पुत्रे स्त्र्यपत्ये तु सुता स्त्रियाम् । स्वान्तः स्पर्शाज्ञता निद्राविश्रम्भशयनेऽपि च ॥ Śabdaratnāvalī 7.16.66
- शब्दरत्नावली स्वप्नस्वप्नस्तु शयने सुप्तविज्ञाने दर्शने पुमान् ॥ Śabdaratnāvalī 7.20.20
- शब्दरत्नावली शीशः शस्त्र ईश्वरेऽपि स्यान्मङ्गले तु नपुंसकम् । शान्तौ च शयने शी स्याद्धियांशा शूर्निगद्यते ॥ Śabdaratnāvalī 7.30.1
- शब्दरत्नावली संवेशविकाशो विजने दीप्तौ सदृशस्तुल्ययोग्ययोः । संवेशः शयने स्त्रीणां रतबन्धेऽपि पुंस्ययम् ॥ Śabdaratnāvalī 7.30.26
- शब्दरत्नाकर तल्पधर्मेऽग्नौ नवनीते च तल्पं शयनजाययोः । रत्नदोषे भये त्रासस्तनुः स्त्री त्वक्शरीरयोः । त्रिष्वल्पे च कुशे चाथ तमो राहुस्तमः शुचि ॥ १९३३ ॥ Śabdaratnākara 4.1.1933
- तन्त्राभिधान शवृषघ्नः शयनं शान्तः सुभगा विस्फुलिङ्गिनी । मृत्युदेवो महालक्ष्मीर्महेन्द्रः कुलकौलिनी ॥ १५४ ॥ Tantrābhidhāna 2.47.154
- तन्त्राभिधान शीवदन्ति शं बुधाः श्रेयः शश्च शास्ता निगद्यते । शीः शसं शयनं चाहुर्हिंसा शूश्च निगद्यते ॥ ३३ ॥ Tantrābhidhāna 3.33
- त्रिकाण्डशेष स्वप्नसुप्तज्ञाने च शयने स्वप्नोऽथ स्पर्शदानयोः । स्पर्शनं स्पर्शनो वाते सूनं पुष्पे वधालये ॥ २७० ॥ Trikāṇḍaśeṣa 3.3.270
- त्रिकाण्डशेष स्वापअक्रोशे शपथे शापः स्वापः शयननिद्रयोः । Trikāṇḍaśeṣa 3.3.290