कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

चय

cayaपुं · masc.

In 17 kośas: 23 synonym verses, 4 as a nānārtha head word, 12 as a meaning of another word.

अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य पृथ्वीकायः Abhidhānacintāmaṇi 4.1.980 · p. 38
प्राकारो वरणः साले चयो वप्रोऽस्य पीठभूः ॥ ९८० ॥
अनुष्टुप्metre not read in every line
genderपुंmasc.
अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य सामान्यकाण्डः Abhidhānacintāmaṇi 6.1412 · p. 53
संघाते प्रकरौघवारनिकरव्यूहाः समूहश्चयःसंदोहः समुदायराशिविसरव्राताः कलापो व्रजः ।कूटं मण्डलचक्रवालपटलस्तोमा गणः पेटकंवृन्दं चक्रकदम्बके समुदयः पुञ्जोत्करौ संहतिः ॥ १४११ ॥समवायो निकुरम्बं जालं निवहसंचयौ ।जातं तिरश्चां तद्यूथं संघसार्थौ तु देहिनाम् ॥ १४१२ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 कु (wrong syllable)
genderपुंmasc.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह पुरवर्गः Amarakośa 2.2.3
रथ्या प्रतोली विशिखा स्याच्चयो वप्रमस्त्रियाम् ।
अनुष्टुप्
genderपुंmasc.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह सिंहादिवर्गः Amarakośa 2.5.40
समूहे निवहव्यूहसंदोहविसरव्रजाः ।स्तोमौघनिकरव्रातवारसङ्घातसञ्चयाः ॥ ३९ ॥समुदायः समुदयः समवायश्चयो गणः ।स्त्रियां तु संहतिर्वृन्दं निकुरम्बं कदम्बकम् ॥ ४० ॥
अनुष्टुप्
genderपुंmasc.
हलायुधकोशः (अभिधानरत्नमाला) Abhidhānaratnamālā (Halāyudha) · हलायुध सामान्यकाण्डम् Abhidhānaratnamālā (Halāyudha) 4.686 · p. 79
निकरनिकायनिवहविसरव्रजपुञ्जसमूहसञ्चयाः,समुदयसार्थयूथनिकुरम्बकदम्बकपूगराशयः ।चयसमवायवृन्दसन्दोहसमाजवितानसंहति-प्रकरघनौघसंघसंघातव्रातकुलोत्कराः स्मृताः ॥ ६८६ ॥
metre not recognised
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव सङ्कीर्णकाण्डः Kalpadrukośa 1.10.25 · p. 237
कल्पानुताप्यकौ मान्द्यमालस्य चयने चयः ।वर्द्धना वञ्चनाऽपि स्याद्विचेष्टा विक्रमे समे ॥ २५ ॥
अनुष्टुप्
genderपुंmasc.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ वनौषधिवर्गः Koṣakalpataru 2.3.21 · p. 200
समुदायः समुदयः समवायश्चयः स्तमः ।स्तोमः कलापः कूटोऽस्त्री संहतिः स्त्री कदम्बकम् ॥ २१ ॥
अनुष्टुप्
genderपुंmasc.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ आतङ्कवर्गः Koṣakalpataru 3.3.4 · p. 306
शारीरा मनसस्तु स्याद्द्वौ दोषौ हि रजस्तमः ।संसर्गः संनिपातश्च तद्द्वित्रिक्षयकोपतः ।रसाद्याः समला दूष्याश्चयो वृद्धिः स्वधाम्नि या ॥ ४ ॥
अनुष्टुप्
genderपुंmasc.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास द्वितीयः परिच्छेदः Paramānandīyanāmamālā 2.263 · p. 37
वत्सपत्तनकौशाम्ब्यौ द्वारका द्वारवत्यपि ।वप्रोऽथ वरणः साले चयः प्राकार एव च ॥ २६३ ॥
अनुष्टुप्
genderपुंmasc.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास तृतीयः परिच्छेदः Paramānandīyanāmamālā 3.304 · p. 90
कलापः पटलं कूटं स्तोमो व्रातगणावपि ।संहतिः संचयो जातं चयो निवहजालके ॥ ३०४ ॥
अनुष्टुप्
genderपुंmasc.
पर्यायशब्दरत्न Paryāyaśabdaratna · धनञ्जयभट्ट मध्यमलोकसर्गः Paryāyaśabdaratna 2.14 · p. 26
रथमार्गे तु विशिखा मुण्डी तोली प्रतोलिका ।प्राकाराधारभूमौ स्याच्चयः पुञ्जश्च भीषणम् ॥ १४ ॥
अनुष्टुप्
genderपुंmasc.
पर्यायशब्दरत्न Paryāyaśabdaratna · धनञ्जयभट्ट मध्यमलोकसर्गः Paryāyaśabdaratna 2.71 · p. 34
समुदाये समुदयो व्यूहो वाह(र?)श्चयो गणः ।समवायश्च पटलं निकरश्चक्रवालकम् ॥ ७१ ॥
अनुष्टुप्
genderपुंmasc.
शारदीयाख्यनाममाला Śāradīyākhyanāmamālā · हर्षकीर्ति अङ्गवर्गः Śāradīyākhyanāmamālā 2.1.25 · p. 22
केशात्कलापरचनापाशभारचया अपि ।कवरी वेणिका वेणी धम्मिल्ला गुम्फिताः कचाः ॥ २५ ॥
अनुष्टुप्
genderपुंmasc.
शारदीयाख्यनाममाला Śāradīyākhyanāmamālā · हर्षकीर्ति राजवर्गः Śāradīyākhyanāmamālā 3.2.37 · p. 37
वप्रः शालः कोट्टदुर्गौ प्राकारो वरणश्चयः ।प्रतोली विशिखा रथ्या पुरद्वारं च गोपुरम् ॥ ३७ ॥
अनुष्टुप्
genderपुंmasc.
शारदीयाख्यनाममाला Śāradīyākhyanāmamālā · हर्षकीर्ति संकीर्णवर्गः Śāradīyākhyanāmamālā 3.5.85 · p. 43
ओघः संघो व्रजो व्रातो निकरः प्रकरश्चयः ।संदोहः संहतिः स्तोमो वारः समुदयो गणः ॥ ८५ ॥
अनुष्टुप्
genderपुंmasc.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि पृथ्वीकायनामानि Suśīlanāmamālā 5.1.1680 · p. 270
वप्रश्चयोऽपि कोट्टस्य मूलभूमौ निगद्यते ।प्राकाराग्रं कपिशीर्षं प्राकारोपरि क्रियते ॥ १६८० ॥
अनुष्टुप्metre not read in every line
genderपुंmasc.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि सामान्यविभागः Suśīlanāmamālā 7.2564 · p. 414
चक्रवालश्चयश्चक्रं जातं जालं च मण्डलम् ।निवहो विसरो चारो व्रातो वृन्दं तथा व्रजेः ॥ २५६४ ॥
अनुष्टुप्
genderपुंmasc.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश पुरवर्गप्रकाशः Śabdaratnāvalī 3.2.7 · p. 50
प्रतोली विशिखा रथ्या ग्रामाभ्यन्तरवर्त्मनि ।स्याच्चयो वप्रमस्त्री तु मृत्तिका स्तूप उच्यते ॥
अनुष्टुप्
genderपुंmasc.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश सिंहादिवर्गप्रकाशः Śabdaratnāvalī 3.5.105 · p. 89
वारौघनिकरोत्कारसमुदायसमुच्चयाः ।आकरः प्रकरः संघो निचयः प्रचयश्चयः ॥
अनुष्टुप्
genderपुंmasc.
शब्दरत्नाकर Śabdaratnākara · वाचनाचार्यश्रीसाधुसुन्दरगणि षष्ठः काण्डः Śabdaratnākara 6.26 · p. 251
चक्रवालं चक्रवाडं चक्रं च चय-संचयौ ।शण्ड-षण्डौ केदाराणां गणे कैदारकं मतम् ॥ २६ ॥
metre not recognisednearly अनुष्टुप्: pāda 3, syllable 5 के (wrong syllable)
genderपुंmasc.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण शकुन्ताध्यायः Śabdaratnākara 2.5.827 · p. 104
निकरव्यूहसमूहव्रातनिकायौघविसरसंदोहाः ।झाटचयवारसंचयनिचयगणप्रकरपेटकप्रचयाः ॥ ८२७ ॥
गीतिः
genderपुंmasc.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण उक्तशेषाध्यायः Śabdaratnākara 3.8.1855 · p. 225
प्रणिपातः प्रणामः स्याद्दाक्षिण्यमनुकूलता ।कक्ष्या तुलायां कौसीद्यमालस्यं चयनं चयः ॥ १८५५ ॥
अनुष्टुप्
genderपुंmasc.
वैजयन्ती Vaijayantī · यादवप्रकाश गणाध्यायः Vaijayantī 5.1.1 · p. 186
पूगप्रकरसंघातविसरव्रातसंचयाः ।वारस्कन्धगणस्तोमसमवायचयव्रजाः ॥ १ ॥
अनुष्टुप्
genderपुंmasc.
धरणिकोश Dharaṇikośa · धरणिदास यार्धश्लोकः Dharaṇikośa 25.2.7 · p. 151
क्षयौ निलयकल्पान्तौ क्षयोऽपचयरोगयोः ।चयस्त्वाचयने वृन्दे प्राकारे मूलबन्धने ॥
अनुष्टुप्
कोषकल्पतरु Koṣakalpataru · विश्वनाथ यान्ताः Koṣakalpataru 6.26.3 · p. 286
प्राकारमूले निकरे चयः स्यात्समाहृतौ चाथ नयश्च नीतौ ।द्यूतप्रभेदे जनके शयस्तुनिद्राहिशय्याकरवाचकश्च ॥ ३ ॥
उपजातिः
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् पुल्लिँङ्गाध्यायः Nānārthārṇavasaṃkṣepa 2.2.50 · p. 25
यज्ञे हविर्विशेषे च महावीरशृतेऽश्विनोः ।चयः समूहे प्राकारमूलके चयनेऽप्यथ ॥ ५० ॥
अनुष्टुप्
शब्दरत्नावली Śabdaratnāvalī · मथुरेश यान्ताः Śabdaratnāvalī 7.26.13 · p. 257
गृहासक्तमृगादौ ना चास्वैरिपक्षयोस्त्रिषु ।गेयं गानेन गेयो ना? गातव्ये गायने त्रिषु ॥गोप्यो ना चेटिकापुत्रे रक्षणीये तु वाच्यवत् ।चव्या स्त्री तु वचायां स्याच्चविकेतु नपुंसकम् ॥चयः समाहृतौ वृन्दे प्राकारमूलबन्धने ।चित्या स्मृता चितौ स्त्री तु चित्यं नृतकचित्यके ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 रि (wrong syllable)nearly अनुष्टुप्: pāda 2, syllable 3 र (wrong syllable)

चय as a meaning in nānārtha verses