कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

बन्धुक

bandhukaपुं · masc.

In 9 kośas: 8 synonym verses, 1 as a nānārtha head word, 2 as a meaning of another word.

हलायुधकोशः (अभिधानरत्नमाला) Abhidhānaratnamālā (Halāyudha) · हलायुध भूमिकाण्डम् Abhidhānaratnamālā (Halāyudha) 2.501 · p. 57
कन्यापुत्रस्तु कानीनो नाटेरः स्यान्नटीसुतः ।बन्धुको बन्धुकीपुत्रो गोप्यो दासीसुतः स्मृतः ॥ ५०१ ॥
अनुष्टुप्
genderपुंmasc.
बालप्रबोधिका Bālaprabodhikā · नत्कीर द्वादशोपदेशः Bālaprabodhikā 12.243 · p. 88
सुगन्ध्यल्पफला मेचा घनः कर्पूरभूरुहे ।बन्धुको बन्धुजीवश्च सप्रलापा विभावरी ॥ २४३ ॥
अनुष्टुप्
genderपुंmasc.
स्यान्माध्वी माधविका (च?) समौ बन्धूकबन्धुकौ ।जातिर्जाती च तत्र स्यात् सुमनाः सुमनापि च ॥ ११७ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव वनौषधिप्रकाण्डः Kalpadrukośa 1.11.272 · p. 279
बन्धूको बन्धुजीवोऽपि पुष्पो रक्तोष्ठयोरपि ।बन्धुश्च बन्धुकः पुंसि बन्धुरो वन्धुलो द्वयोः ॥ २७२ ॥
अनुष्टुप्
genderपुंmasc.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ वनौषधिवर्गः Koṣakalpataru 2.3.81 · p. 157
स्याद्भद्रतरुणी चाथ समौ बन्धू [क]-बन्धुकौ ।रक्तकः शारदो बन्धुजीवो माध्यं तु न द्वयोः ॥ ८१ ॥
अनुष्टुप्
genderपुंmasc.
शारदीयाख्यनाममाला Śāradīyākhyanāmamālā · हर्षकीर्ति धरावर्गः Śāradīyākhyanāmamālā 1.3.143 · p. 16
बन्धुको यूथिका कुन्द इत्याद्याः पुष्पजातयः ।आम्रो रसालो माकन्दः सहकारश्चूतनूतवत् (?) ॥ १४३ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 1 सह (syllable split)
genderपुंmasc.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि वनस्पतिकायनामानि Suśīlanāmamālā 5.5.149 · p. 339
रक्तको बन्धूकश्चैव बन्धुको बन्धुजीवकः ।
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 न्धू (wrong syllable)
genderपुंmasc.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश वनौषधिवर्गप्रकाशः Śabdaratnāvalī 3.4.143 · p. 68
बन्धूको बन्धुको बन्धुर्बन्धुलो बन्धुजीवकः ।रक्तको बन्धुजीवः स्याद् बन्धुलिर्बन्धुरोऽपि च ॥
अनुष्टुप्
genderपुंmasc.
शिवकोष Śivakoṣa · शिवदत्तमिश्र कत्रिः Śivakoṣa 1.3.38 · p. 4
पृथुकश्चिपिटे चारुपत्रिकायां तु योषिति ।बन्धूकोऽस्त्री बन्धुजीवे बन्धुकः पीतसालके ॥ ३८ ॥
अनुष्टुप्

बन्धुक as a meaning in nānārtha verses

  • शब्दरत्नावली सूर्यभक्तआहितेऽप्युक्तसिद्धान्ते समाधिस्थे शुचौ पुमान् । समाघातः शब्दभेदे वधे युद्धे भये पुमान् ॥ संख्यावान् पण्डिते पुंसि संख्यायुक्तेऽन्यलिङ्गकः । सुधासूतिः पुमान् यज्ञे पद्मे हिमकरेऽपि च ॥ सूर्यभक्तश्चार्कपणे बन्धुके च भवेत्पुमान् । सेनापतिः कुमारे स्यात्सैन्याधिकारिणि पुमान् ॥ हिमारातिर्वीतिहोत्रे पुमान् किरणमलिनि । हैमवती श्वेतवचास्वर्णक्षीर्यभयासु च ॥ Śabdaratnāvalī 7.16.176
  • शब्दरत्नावली बन्धुरबन्धुरो मुकुटे रम्ये नम्रे बकविहङ्गयोः । बन्धुके बधिरे हंसे बन्धुरोऽप्यन्नतानते ॥ Śabdaratnāvalī 7.27.91