आम्र
āmraपुं · masc.In 16 kośas: 17 synonym verses, 14 as a meaning of another word.
आम्रश्चूतः सहकारः सप्तपर्णस्त्वयुक्छदः ॥ ११३३ ॥
अनुष्टुप्metre not read in every line
genderपुंmasc.
genderपुंmasc.
रम्भा कदली मोचा तृणराजः कथ्यते तलस्तालः ।कङ्केलिरशोकः स्यादाम्रश्चूतश्च सहकारः ॥ १९२ ॥
आर्या
genderपुंmasc.
आम्रः कामाङ्कमाकन्दौ श्रेष्ठस्तु सहकारकः ।अथ श्यामलके लाला लवलीलबलीफला ॥ २०५ ॥
अनुष्टुप्
genderपुंmasc.
विदार्याद्यास्तु मूलेऽपि पुष्पे क्लीबे च पाटला ।आम्रश्चूतो महाकालो माकन्दः षट्पदातिथिः ॥ ४७ ॥
अनुष्टुप्
genderपुंmasc.
शृङ्गवेराम्रतीराणां पुष्करागारयोरपि ।नागरोत्तरयोः स्फारशूरयोः कदरस्य च ॥ १०१ ॥
अनुष्टुप्
genderक्लीneut.
द्वयहीनं यथैरण्डमशोकं चाम्रमित्यपि ।जात्यादयः स्वलिङ्गाः स्युः पुष्पे जाती च मल्लिका ॥ ४२ ॥
अनुष्टुप्
genderक्लीneut.
आम्रो रसालो माकन्दः पिकानन्दी स्मरालयः ।कामद्रुश्चैत्रवृक्षश्च प्रियङ्गो मदिरासखः ॥ ५७ ॥
अनुष्टुप्
genderपुंmasc.
वटश्चाथोम्बरो जन्तुफलश्चाम्रे रसालकः ।चूतातिसौ [32] रमौ तुल्यौ कामाङ्गः कोकिलप्रियः ॥ ४४ ॥
अनुष्टुप्
genderपुंmasc.
गन्धपत्रो नीलफलो जम्बू नीरान्तराजरः ।आम्रो रसालः कामाङ्गो माकन्दः पिकवल्लभः ॥ १५७ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 नी (wrong syllable)
genderपुंmasc.
बन्धुको यूथिका कुन्द इत्याद्याः पुष्पजातयः ।आम्रो रसालो माकन्दः सहकारश्चूतनूतवत् (?) ॥ १४३ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 1 सह (syllable split)
genderपुंmasc.
आम्रश्चूतश्च माकन्दः सहकारोऽपि कथ्यते ॥ १९९१ ॥
अनुष्टुप्metre not read in every line
genderपुंmasc.
आम्रो वसन्तदूतः स्यान्माकन्दः षट्पदातिथिः ।मधुदूतो वसन्तद्रुवल्व(?)चूतपिकप्रियाः ॥
अनुष्टुप्
genderपुंmasc.
मलयुः, सहकारेऽम्र आम्रोऽपि शिग्रुके स्मृतः ।दन्त्य-तालव्यादिः शालाञ्जनोऽक्षीव आक्षीववत् ॥ १४३ ॥
metre not recognised
genderपुंmasc.
मरुवककर्णिकारबकुलाम्रामधूकतुष-क्रमुकनमेरुसालतिलकागुरुदन्तशठाः ।कुरवकसिन्धुवारकृतमालतमालयुगच्छद-करकप्रियालघननागसमित्तरवः ॥ २५४ ॥
metre not recognised
genderपुंmasc.
दधित्थमन्मथदधिफलपुष्पफला अपि ।आम्रे माकन्दकामाङ्गचूतास्तस्मिन् ससौरमै ॥ ४५८ ॥
अनुष्टुप्
genderपुंmasc.
आम्रे कामाङ्गमाकन्दौ चूतो वेलोंऽङ्गनाप्रियः ।करको वलयश्चाथ श्रेष्ठेऽत्र सहकारकः ॥ २५ ॥
अनुष्टुप्
genderपुंmasc.
आम्र as a meaning in nānārtha verses
- कोषकल्पतरु चूतककाव्यालंकृतिभेदे काव्यविशेषे च रूपकं क्लीबे । परवद्धूर्ते कूपे त्वाम्रे प्रोक्तश्च चूतकः पुंसि ॥ ६७ ॥ Koṣakalpataru 6.1.67
- कोषकल्पतरु अम्रीणदर्दराम्रे खञ्जरीटे मीना[285a]म्रीणो नृलिङ्गकः । शिवे देवमणिर्वाजिकण्ठावर्ते च कौस्तुभे ॥ ६० ॥ Koṣakalpataru 6.15.60
- नानार्थार्णवसंक्षेप करककरङ्के तु पुमानाम्रे दाडिमेऽप्येतयोस्तु नप् । फले स्त्रीपुंसयोस्तु स्यात् करका जलदोपले ॥ ३१६ ॥ Nānārthārṇavasaṃkṣepa 4.316
- नानार्थार्णवसंक्षेप माकन्दरवौ तु पुंसि मार्तण्डमार्ताण्डौ यादवोदितौ । माकन्दस्तु पुमानाम्रे स्त्री स्यादामलकीतरौ ॥ १३९७ ॥ Nānārthārṇavasaṃkṣepa 4.1397
- नानार्थार्णवसंक्षेप भ्रमरेष्टभ्रमरेष्टस्तु पुंस्याम्रे नीपे जम्बूटपादपे । पूर्ववत् स्यात् समासादि भारद्वाजः पुनर्द्वयोः ॥ ४३२ ॥ Nānārthārṇavasaṃkṣepa 6.432
- नानार्थार्णवसंक्षेप अमरपुष्पखण्डे च परशौ खण्डपरशुः स्यात् तु केतके । आम्रे चामरपुष्पः स्यात् काशे च ज्योतिषांपतिः ॥ ६ ॥ Nānārthārṇavasaṃkṣepa 7.6
- शिवकोष हृद्यगन्धविषायां च विषे स्त्री तु मत्स्याक्षीमत्स्यपित्तयोः । हृद्यगन्धं च रुचके ना तु बिल्वाम्रजीरके ॥ २४२ ॥ Śivakoṣa 15.3.242
- शिवकोष माधवक्लीबं जरणेऽथाम्रेऽश्वत्थे सिक्थे च किंशुके पुंसि । शताह्वा मधुसम्भूतशर्कराजातिपोत्रिषु ॥ ५०६ ॥ Śivakoṣa 24.2.506
- शब्दरत्नावली चूतकचूलिका नाटकाङ्गे स्यात् करिणां कर्णमूलके । जनकस्तातनृपयोश्चूतकः कूपकाम्रयोः ॥ Śabdaratnāvalī 7.1.74
- शब्दरत्नावली वसन्तदूतगिरिकर्णी जया दुर्गाशनपर्ण्यपराजिता । विधूपितासन्नमृत्योस्तप्ते स्यादुपधूपितः ॥ शङ्करेऽपिच हेरम्बे गणाधिपतिरित्यपि । पतनेच्छौ विहङ्गे च भवेत्पिपतिषन्निति ॥ ऋषभौषधिभेदे स्यान्नृपतौ पृथिवीपतिः । भूपाले मन्त्रिणि क्षत्रे मूर्धाभिषिक्त इत्यपि ॥ अम्भोनिधौ च वरुणे स्यात्पुमान् यादसांपतिः । रागभेदपिकाम्रेषु वसन्तदूत इत्यपि ॥ पाटलीमाधवीवल्ल्योर्वसन्तदूत्यपि स्त्रियाम् । Śabdaratnāvalī 7.16.178
- शब्दरत्नावली चामरपुष्पअस्त्री चामरपुष्पन्तु काशपूगाम्रकेतके ॥ Śabdaratnāvalī 7.21.24
- वैजयन्ती अमरपुष्पशौण्डिके चाप्यथानन्ते कुबेरे चैककुण्डलः । आम्रे चामरपुष्पः स्यात् काशकेतकयोरपि ॥ ५१ ॥ Vaijayantī 8.1.51
- वैजयन्ती भ्रमरेष्टभ्रमरेष्टालिप्रियाद्या आम्रे जंबृकनीपयोः । वतंसोत्तंसावतंसाः कर्णपूरेऽपि शेखरे ॥ ५९ ॥ Vaijayantī 8.1.59
- वैजयन्ती पुण्डरीकना त्वाम्रे दिग्गजे व्याघ्रे राजिलाहौ गजे ज्वरे । दीप्त्यां प्रद्योतनं नार्के घोरे प्रतिभयं भये ॥ १७ ॥ Vaijayantī 8.5.17