बीजकोश
bījakośaपुं · masc.In 11 kośas: 10 synonym verses, 2 as a meaning of another word.
सौगन्धिकं तु कह्लारं बीजकोशो वराटकः ।कर्णिका पद्मनालं तु मृणालं तन्तुलं बिसम् ॥ ११६५ ॥
अनुष्टुप्
genderपुंmasc.
genderपुंmasc.
कर्णिका बीजकोशः स्यात्किञ्जल्कं केसरं स्मृतम् ।मृणालं स्याद्विसं कन्दो विसिनी नलिनी भवेत् ॥ ६८२ ॥
अनुष्टुप्
genderपुंmasc.
वराटको बीजकोशः कर्णिका केसरः पुनः ।न स्त्री केशर-किञ्जल्कौ दलं संवर्तिका नवम् ।पद्माक्षं पद्मबीजं स्यात्का[71b]लोड्यं(?) पद्मकर्कटी ।जलालुकं पद्ममूलं शृङ्गाटं जलकण्टकः ॥ १३ ॥
अनुष्टुप्metre not read in every line
genderपुंmasc.
नीले तु स्यादिन्दीवरं हल्लकं रक्तसन्ध्यके ।सौगन्धिके तु कडारं बीजकोशे वराटकः ॥ ३३२ ॥
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 6 न्दी (wrong syllable); pāda 3, syllable 6 क (wrong syllable)
genderपुंmasc.
कैरवं गर्दभाख्यं च पद्मनाले च कर्णिका ।वराटको बी[35]जकोशो मृणाले बिसतन्तुले ॥ ८४ ॥
अनुष्टुप्
genderपुंmasc.
genderपुंmasc.
कर्णिका बीजकोशश्च वराटकोऽपि कथ्यते ।
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 ट (wrong syllable)
genderपुंmasc.
बीजकोशो वराटः स्यात्पद्माक्षं पद्मकर्कटी ।संवर्तिका नवं पर्णं वारिपर्णी तु कुम्भिका ॥ ३६३ ॥
अनुष्टुप्
genderपुंmasc.
संवर्तिका नवदलं पक्ष्म क्ली कुसुमच्छदः ।किंजल्कः केसरो न स्त्री बीजकोशो वराटकः ॥ ४५ ॥
अनुष्टुप्
genderपुंmasc.
बीजकोश as a meaning in nānārtha verses
- नानार्थार्णवसंक्षेप शमीमुद्गमाषादिसस्यानां बीजकोदयां च कर्मणि(?) । शशस्तु रोमकर्णाख्यमृगे द्वे वा तु भेषजे ॥ १३११ ॥ Nānārthārṇavasaṃkṣepa 2.5.1311
- त्रिकाण्डशेष वराटककपर्दे रज्जौ राजीवे बीजकोशे वराटकः । वृन्दारकौ सुरश्रेष्ठौ गिरिमेघौ बलाहकौ ॥ ३४ ॥ Trikāṇḍaśeṣa 3.3.34