कह्लार
kahlāraक्ली · neut.In 7 kośas: 7 synonym verses, 1 as a meaning of another word.
सौगन्धिकं तु कह्लारं बीजकोशो वराटकः ।कर्णिका पद्मनालं तु मृणालं तन्तुलं बिसम् ॥ ११६५ ॥
अनुष्टुप्
genderक्लीneut.
सौगन्धिकं च कह्लारं स्यादिन्दीवरमुत्पलम् ।नीलोत्पलं कुवलयं कैरवं कुमुदं विदुः ॥ ६८१ ॥
अनुष्टुप्
genderक्लीneut.
सौगन्धिक-कह्लारे हल्लकमपि रक्तसंध्यकं तुल्यम् ।स्त्री कर्णिका न तु पुमान्नाजा(न्नब्ज?)नालं सरोजस्य ॥ ११ ॥
आर्या
genderक्लीneut.
जलकुसुमनाम सर्वं निर्विशेषं नपुंसकलिङ्गं भवति । तद्यथा । इदं कमलं पङ्कजं कोकनदं कह्लारं कुशेशयमित्यादि । जलकुसुमद्वारेण नपुंसकत्वे प्राप्ते पद्मस्य विभाषा क्रियते । इदं पद्मम् । अयं पद्म इति उक्तं च । "वसन्ते शीतभीतेन कोकिलेन वने रुतम् । अन्तर्ज्जलगताः पद्माः श्रोतुकामा इवोत्थिताः ॥" ऋतेशब्दो वर्जनार्थे वर्त्तते । अभ्रशब्दमेकं वर्जयित्वा अम्बुदा मेघास्तेषामाख्या सञ्ज्ञा पर्याया इत्यर्थः तेऽम्बुदाख्याः शब्दाः पुंसि भवन्ति तद्यथा । इमे अम्बुदा मेघाः पयोधरा घनजीमूता जलधरा बलाहकाः कन्धरा इत्येवमादयः । इमे केशाः । इमे दन्ताः । इमे नखाः ।
अनुष्टुप्metre not read in every line
genderक्लीneut.
सौगन्धिकं तु कह्लारे श्वेते कुमुदकैरवौ(वे?) ।रक्ते तु हल्लकं रक्तसन्ध्यकं कमलं तथा ॥ ८१ ॥
अनुष्टुप्
genderक्लीneut.
देविका सरयूजातौ त्रिषु दाविकसारवौ ।सौगन्धिकन्तु कह्लारं सुगन्धिकमपि क्वचित् ।सौगन्धिके रक्तवर्णे हल्लकं रक्तसन्ध्यकम् ॥
अनुष्टुप्metre not read in every line
genderक्लीneut.
नीले त्विन्दीवरं चन्दीवारमिन्दीकरं तथा ।सौगन्धिके तु कल्हारं हकाराक्रान्तलान्वितम् ॥ २४७ ॥
अनुष्टुप्
genderक्लीneut.doubtful
कह्लार as a meaning in nānārtha verses
- शब्दरत्नावली सौगन्धिकक्लीबे कत्तृणकह्लारपद्मरागेषु पुंस्यपि । गन्धके गन्धपाषाणे सौगन्धिक उदाहृतः ॥ Śabdaratnāvalī 7.1.206