कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

इन्दीवर

indīvaraक्ली · neut.

In 19 kośas: 18 synonym verses, 5 as a nānārtha head word, 2 as a meaning of another word.

अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य वनस्पतिकायः Abhidhānacintāmaṇi 4.5.1164 · p. 45
नीले तु स्यादिन्दीवरं हल्लकं रक्तसंध्यके ॥ ११६४ ॥
अनुष्टुप्metre not read in every line
genderक्लीneut.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह वारिवर्गः Amarakośa 1.10.37
स्यादुत्पलं कुवलयमथ नीलाम्बुजन्म च ।इन्दीवरं च नीलेऽस्मिन्सिते कुमुदकैरवे ॥ ३७ ॥
अनुष्टुप्
genderक्लीneut.
हलायुधकोशः (अभिधानरत्नमाला) Abhidhānaratnamālā (Halāyudha) · हलायुध पातालकाण्डम् Abhidhānaratnamālā (Halāyudha) 3.681 · p. 77
सौगन्धिकं च कह्लारं स्यादिन्दीवरमुत्पलम् ।नीलोत्पलं कुवलयं कैरवं कुमुदं विदुः ॥ ६८१ ॥
अनुष्टुप्
genderक्लीneut.
गीर्वाणभाषाभूषण Gīrvāṇabhāṣābhūṣaṇa · त्रिविक्रम स्वर्गाधिकारो दिक्पालाधिकारश्च प्रथमस्तरङ्गः Gīrvāṇabhāṣābhūṣaṇa 1.120 · p. 18
इन्दीवरं च नीलेस्मिन् सिते कुमुदकैरवे ।जलनीली तु शैवालं शिवालं शेमवल्लिका ॥ १२० ॥
अनुष्टुप्
genderक्लीneut.
कल्पद्रुकोशः Kalpadrukośa · केशव समुद्रादिप्रकाण्डः Kalpadrukośa 1.14.143 · p. 359
इन्दीवरं तु नीलाब्जमिन्दिरावरमित्यपि ।कावारमीषत् श्वेतं तु नलिनं स्यादथ स्त्रियाम् ॥ १४३ ॥
अनुष्टुप्
genderक्लीneut.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ वारिवर्गः Koṣakalpataru 1.7.10 · p. 111
स्त्री नोत्पलं कुवलयं कुवलं कुवं चश्वेतं तु कैरवमिदं [कुमुदं] कुमुच्च ।स्याद्गन्धकान्तमपि गर्दभ-गन्धसोमेइन्दीवरं त्वसितमुत्पलमामनन्ति ॥ १० ॥
वसन्ततिलका
genderक्लीneut.
निघण्टुशेष Nighaṇṭuśeṣa · हेमचन्द्र लताकाण्डः Nighaṇṭuśeṣa 3.332 · p. 179
नीले तु स्यादिन्दीवरं हल्लकं रक्तसन्ध्यके ।सौगन्धिके तु कडारं बीजकोशे वराटकः ॥ ३३२ ॥
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 6 न्दी (wrong syllable); pāda 3, syllable 6 क (wrong syllable)
genderक्लीneut.
नाममाला Nāmamālā (Dhanañjaya) · धनञ्जय Nāmamālā (Dhanañjaya) 21 · p. 10
खरदण्डं कोकनदं पुण्डरीकं महोत्पलम् ।इन्दीवरं चारविन्दं शतपत्रं च पुष्करम् ॥ २१ ॥
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 5 को (wrong syllable)
genderक्लीneut.
नाममाला Nāmamālā (Dhanañjaya) · धनञ्जय Nāmamālā (Dhanañjaya) 22 · p. 11
स्यादुत्पलं कुवलयम् अथ नीलाम्बुजन्म च ।इन्दीवरं च नीलेऽस्मिन् सिते कुमुदकैरवे ॥ २२ ॥
अनुष्टुप्
genderक्लीneut.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास तृतीयः परिच्छेदः Paramānandīyanāmamālā 3.83 · p. 62
मृणालिनी कुमुद्वत्यामथ कैरविणी स्मृता ।इन्दीवरं नीलपद्मे श्वेते च कुमुदं समम् ॥ ८३ ॥
अनुष्टुप्
genderक्लीneut.
पञ्चतत्त्वप्रकाश Pañcatattvaprakāśa · वेणीदत्त जलभानुः Pañcatattvaprakāśa 3.296 · p. 21
इन्दीवरं नीलपद्मं पुण्डरीकं सितोत्पलम् ।रक्तोत्पलं कोकनदं शतपत्रं कुशेशयम् ॥ २९६ ॥
अनुष्टुप्
genderक्लीneut.
शारदीयाख्यनाममाला Śāradīyākhyanāmamālā · हर्षकीर्ति धरावर्गः Śāradīyākhyanāmamālā 1.3.132 · p. 15
इन्दीवरं च तन्नीलोत्पलं रात्रिविकासभाक् ।कुमुद्वती कुमुदिनी कैरविणी शशिप्रिया ॥ १३२ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 वि (wrong syllable)
genderक्लीneut.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि वनस्पतिकायनामानि Suśīlanāmamālā 5.5.2098 · p. 347
कुमुत् चेति नामाऽपि चन्द्रोदयेन फुल्लति ।नीले त्विन्दिवरं चेन्दीवारं चेन्दीवरं तथा ॥ २०९८ ॥
अनुष्टुप्metre not read in every line
genderक्लीneut.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश भूमिवर्गप्रकाशः Śabdaratnāvalī 2.2.125 · p. 44
इन्दीवरं कुवलयमिन्दिरावरमित्यपि ।अथ शुक्लोत्पले गन्धसोमं कुमुदकैरवे ॥
अनुष्टुप्
genderक्लीneut.
शब्दरत्नाकर Śabdaratnākara · वाचनाचार्यश्रीसाधुसुन्दरगणि चतुर्थः काण्डः Śabdaratnākara 4.247 · p. 238
नीले त्विन्दीवरं चन्दीवारमिन्दीकरं तथा ।सौगन्धिके तु कल्हारं हकाराक्रान्तलान्वितम् ॥ २४७ ॥
अनुष्टुप्
genderक्लीneut.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण पातालाध्यायः Śabdaratnākara 1.10.360 · p. 48
रक्ते तस्मिन् कोकनदं रक्तोत्पलमिति द्वयम् ।स्यादुत्पलं कुवलयं नीलाब्जेन्दीवरे समे ॥ ३६० ॥
अनुष्टुप्
genderक्लीneut.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण वनाध्यायः Śabdaratnākara 2.3.567 · p. 73
तरुणी रामतरुणी पूलिका नित्यपुष्पिका ।काकोत्पलं कुवलयं कज्जलेन्दीवरं च तत् ॥ ५६७ ॥
अनुष्टुप्
genderक्लीneut.
वैजयन्ती Vaijayantī · यादवप्रकाश जलाध्यायः Vaijayantī 4.2.35 · p. 156
इन्दीवरञ्च नीलाब्जं रक्तपाणिकमुत्पले ।वरोत्पलन्तु कल्हारं सौगन्धिकशिशुप्रिये ॥ ३५ ॥
अनुष्टुप्
genderक्लीneut.
धरणिकोश Dharaṇikośa · धरणिदास रार्धश्लोकः Dharaṇikośa 26.2.73 · p. 177
कालञ्जरो देशभेदे चण्डी कालञ्जरा स्मृता ।इन्दीवरं कुवलयमिन्दीवरी शतावरी ॥
metre not recognisednearly अनुष्टुप्: pāda 4, syllable 3 व (wrong syllable)
कोषकल्पतरु Koṣakalpataru · विश्वनाथ रान्ताः Koṣakalpataru 6.27.1 · p. 331
उपह्वरः स्यान्निकटे रहोर्थेक्लीबे रथे ना परवत्पुनः स्यात् ।अभ्यर्णगन्तव्य इहापि देशे-ऽथेन्दीवरं नीलसरोरुहेऽन्त्ये ॥ १ ॥
उपजातिः
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् चतुरक्षरकाण्डः Nānārthārṇavasaṃkṣepa 6.85 · p. 33
तमङ्गकाख्येऽवयवे गृहस्यास्त्री तथा हरेः ।कोशेऽपीन्दीवरं तु स्यात् क्लीबं नीलोत्पलेऽथ सा ॥ ८५ ॥
अनुष्टुप्
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् चतुरक्षरकाण्डः Nānārthārṇavasaṃkṣepa 6.86 · p. 33
इन्दीवरा शतावर्यां स्त्रियां ना त्विध्मवाहवाक् ।दृढच्युत्संज्ञकमुनौ त्रिषु त्विध्मस्य वाहके ॥ ८६ ॥
अनुष्टुप्
शिवकोष Śivakoṣa · शिवदत्तमिश्र रच Śivakoṣa 22.4.419 · p. 38
इन्दीवरं कुवलये वरीद्रोण्योस्तु योषिति ।उदुम्बरो हेमदुग्धे सर्वधातौ तु न द्वयोः ॥ ४१९ ॥
अनुष्टुप्

इन्दीवर as a meaning in nānārtha verses

  • कोषकल्पतरु उत्पलस्त्री शर्करायामथ मांसशून्ये स्यादुत्पलं वाच्यसमं न तु स्त्री । इन्दीवरे स्याच्चरमे तु कुष्ठौ- [69a]षधेऽनलः स्याद्वसुदेववह्नयोः ॥ ९५ ॥ Koṣakalpataru 6.28.95
  • शिवकोष कलोड्यअभया तु हरीतक्यामभयं समगन्धिके । कलोड्यं पद्मबीजेन्दीवरवेणुफलेषु च ॥ ३५१ ॥ Śivakoṣa 21.2.351