कैरव
kairavaक्ली · neut.In 20 kośas: 18 synonym verses, 4 as a nānārtha head word, 16 as a meaning of another word.
श्वेते तु तत्र कुमुदं कैरवं गर्दभाह्वयम् ।
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 न्दी (wrong syllable)
genderक्लीneut.
स्यादुत्पलं कुवलयमथ नीलाम्बुजन्म च ।इन्दीवरं च नीलेऽस्मिन्सिते कुमुदकैरवे ॥ ३७ ॥
अनुष्टुप्
genderक्लीneut.
सौगन्धिकं च कह्लारं स्यादिन्दीवरमुत्पलम् ।नीलोत्पलं कुवलयं कैरवं कुमुदं विदुः ॥ ६८१ ॥
अनुष्टुप्
genderक्लीneut.
कुवेलयं कुवलयं कैरवं कुमुदं मतम् ।नालन्तु नालिका नालः कणिका बिस इत्यपि ॥ १७३ ॥
अनुष्टुप्
genderक्लीneut.
इन्दीवरं च नीलेस्मिन् सिते कुमुदकैरवे ।जलनीली तु शैवालं शिवालं शेमवल्लिका ॥ १२० ॥
अनुष्टुप्
genderक्लीneut.
शतात्सहस्रात्पत्रार्थं कमलं कुमुदं तु तत् ।कुमुच्च शारदं पुण्डरीकं कैरवमित्यपि ॥ १४१ ॥
अनुष्टुप्
genderक्लीneut.
स्त्री नोत्पलं कुवलयं कुवलं कुवं चश्वेतं तु कैरवमिदं [कुमुदं] कुमुच्च ।स्याद्गन्धकान्तमपि गर्दभ-गन्धसोमेइन्दीवरं त्वसितमुत्पलमामनन्ति ॥ १० ॥
वसन्ततिलका
genderक्लीneut.
उत्पले स्यात् कुवलयं कुवेलं कवलं कुवम् ।श्वेते तु तत्र कुमुदं कैरवं गर्दभाह्वयम् ॥ ३३१ ॥
अनुष्टुप्
genderक्लीneut.
स्यादुत्पलं कुवलयम् अथ नीलाम्बुजन्म च ।इन्दीवरं च नीलेऽस्मिन् सिते कुमुदकैरवे ॥ २२ ॥
अनुष्टुप्
genderक्लीneut.
कैरवं गर्दभाख्यं च पद्मनाले च कर्णिका ।वराटको बी[35]जकोशो मृणाले बिसतन्तुले ॥ ८४ ॥
अनुष्टुप्
genderक्लीneut.
सौगन्धिकं तु कह्लारे श्वेते कुमुदकैरवौ(वे?) ।रक्ते तु हल्लकं रक्तसन्ध्यकं कमलं तथा ॥ ८१ ॥
अनुष्टुप्
genderक्लीneut.
अम्भोजिनी नीरजिनी पङ्कजिन्यब्जिनी स्मृता ।अथोत्पलं कुवलयं कुमुदं कैरवं सितम् ॥ १३१ ॥
अनुष्टुप्
genderक्लीneut.
उत्पलं चेति नामानि कुवलस्य हि सन्ति वै ।श्वेते तु तत्र कैरवं कुमुदं गर्दभाह्वयम् ॥ २०९७ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 7 र (wrong syllable)
genderक्लीneut.
अस्त्रियां कपटो व्याज उपधिर्दम्भ एव च ।कूटकल्कं च्छद-छद्म-मिष-कैरव-कैतवम् ॥
अनुष्टुप्
genderक्लीneut.
इन्दीवरं कुवलयमिन्दिरावरमित्यपि ।अथ शुक्लोत्पले गन्धसोमं कुमुदकैरवे ॥
अनुष्टुप्
genderक्लीneut.
सौगन्धिके तु कल्हारं रक्तसंध्यकहल्लके ।कुमुदं कैरवं पद्मप्रभृतीनां कदम्बके ॥ ३६१ ॥
अनुष्टुप्
genderक्लीneut.
सप्तगोदावरं तत्र कुवलं तूत्पलं कुवम् ।कैरवं गन्धसोमं स्यात्कन्दोटश्च निशाहसः ॥ २६ ॥
अनुष्टुप्
genderक्लीneut.
श्रीपुष्पं स्वर्णराजञ्च कुमुदं गर्दभाह्वयम् ।गन्धसोमं कुमुच्चन्द्रं कैरवञ्चाथ लोहिते ॥ ४१ ॥
अनुष्टुप्
genderक्लीneut.
कैरव as a meaning in nānārtha verses
- धरणिकोश चन्द्रकान्तचन्द्रकान्तो दृषद्भेदे चन्द्रकान्तश्च कैरवे । कलधौतं सुवर्णे स्याद्रजते च प्रकीर्तितः ॥ Dharaṇikośa 15.2.79
- धरणिकोश कुमुद्कुमुत्कृपण आख्यातः कुमुत्कैरवमुच्यते । निषादः श्वपचे प्रोक्तो नीचस्वर उदाहृतः ॥ Dharaṇikośa 17.2.14
- धरणिकोश कुमुदकुमुदं कैरवं ख्यातं कुमुदो दानवान्तरः । कुमुदाः कपिदिङ्नागनागभेदाः प्रकीर्तिताः ॥ Dharaṇikośa 17.3.6
- धरणिकोश गर्दभगर्दभी क्षुद्ररोगे स्याद्गर्दभः कैरवे खरे । ककुभोऽर्जुनवृक्षेऽपि वीणाङ्गरागभेदयोः । करभो मणिबन्धादिकनिष्ठान्ते तथोष्ट्रके ॥ Dharaṇikośa 23.2.7
- कोषकल्पतरु चन्द्रकान्तअश्मप्रभेदे नरि चन्द्रकान्तो- ऽन्त्ये कैरवेऽथो नरि वैजयन्तः । गुहे जयन्तेऽरणिवृक्ष धूका नाकेशकन्यासु भवेत्स्त्रियां सः ॥ ६५ ॥ Koṣakalpataru 6.17.65
- कोषकल्पतरु कुमुदअर्धेन्दुर्गलहस्त इन्दुशकले प्रौढाङ्गनानां भगे प्रोक्तश्चाङ्गुलियो[6a]जनेऽथ गदिता कर्णान्दुरुत्क्षिप्तिका । पाली च श्रवसोऽथ चूत उदितो माकन्द एष स्त्रियां स्याद्धात्रीफलनामकोऽथ कुमुदो न स्त्रीभवेत्कैरवे ॥ ३७ ॥ Koṣakalpataru 6.19.37
- कोषकल्पतरु कुमुद्रक्ताम्भोरुहि ना तु दिग्गजभिदीभे दैत्यभेदे कपौ कुम्भ्यां काश्मरिकौषधौ च कुमुदाथो कैरवेऽन्त्ये कुमुद् । वाच्याभं कृपणेऽथ रक्षसि पुमान् क्रव्याच्च मांसाशिनि स्यादूर्जे नरि कौमुदो निगदितः स्त्री चन्द्रिकायामयम् ॥ ३८ ॥ Koṣakalpataru 6.19.38
- कोषकल्पतरु ककुभयोषित्स्यात्पिटिकान्तरे कृमिभिदि क्लीबं पुनः कैरवे शोभादिक्षु च चम्पकस्रजि ककुभ् स्त्री स्यात्प्रवेण्यामपि । Koṣakalpataru 6.24.32
- नानार्थार्णवसंक्षेप कुमुदपुंस्यप्यन्ये कैरव स्याद् रक्ताब्जेऽप्यथ ना स्मृतः । स्याद्दिग्गजविशेषे च कपिभेदे च विश्रुते ॥ ५११ ॥ Nānārthārṇavasaṃkṣepa 4.511
- परमानन्दीयनाममाला कुमुदकण्टको नरके शाखिकण्टके दोषवैरिणोः । कुमुदो दिग्गजे दैत्ये भुजंगे कैरवे कपौ ॥ १२१ ॥ Paramānandīyanāmamālā 5.7.121
- परमानन्दीयनाममाला चन्द्रकान्तचन्द्रकान्तो मणौ चन्द्रकान्तं कैरववाचकम् । चीर्णपर्णः पिचुमन्दे खर्जूरेऽथ चतुष्पथम् ॥ १८६ ॥ Paramānandīyanāmamālā 5.11.186
- शिवकोष चन्द्रकान्तगारुत्मतं मरकते गरुडोद्गारकेऽपि च । चन्द्रकान्तो मणेर्भेदे चन्द्रकान्तं तु कैरवे ॥ २०१ ॥ Śivakoṣa 12.3.201
- शिवकोष कुमुदक्षणदा तु हरिद्रायां क्षणदः सर्वतोमुखे । कुमुदं कैरवे पद्मे कुम्भीकट्फलयोः स्त्रियाम् ॥ २२३ ॥ Śivakoṣa 14.2.223
- शब्दरत्नावली चन्द्रकान्तचन्द्रकान्तः कैरवे स्यान्मणिभेदे च पुंस्ययम् । चर्मण्यती सरिद्भेदकदलीद्रुमयोः स्त्रियाम् । चित्रगुप्तो धर्मराजे पुंसि तस्मैव लेखके ॥ Śabdaratnāvalī 7.16.162
- शब्दरत्नावली कुमुदकपर्दाः स्यात्पशुपतिजटाजूटे वराटके । कर्णान्दु कर्णयाक्ष्यान्तु स्त्रियामुत्क्षिप्तिकासु च ॥ कामदा स्त्री कामधेनौ वाच्यवत्कामदातरि । कुमुदं कैरषे रक्तपद्मे पुंसि तु दिग्गजे ॥ नागे वानरभेदे स्त्रीगर्भ्भायां कुम्भिकौषधौ । गोष्पदं गोपदच्छिद्रे तथा गोगतिगोचरे ॥ गोविन्दस्तु गवाध्यक्षे केशवे च बृहस्पतौ ॥ Śabdaratnāvalī 7.18.13
- शब्दरत्नाकर कुमुदकैरवे कुमुदं क्लीबे कदली मृगरम्भयोः । कूर्चिका क्षीरविकृतौ सूचीतूलिकयोरपि ॥ २०६८ ॥ Śabdaratnākara 4.1.2068