कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

भूदेव

bhūdevaपुं · masc.

In 11 kośas: 12 synonym verses, 2 as a meaning of another word.

अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य मर्त्यकाण्डः Abhidhānacintāmaṇi 3.627 · p. 33
अवदानं कर्म शुद्धं ब्राह्मणस्तु त्रयीमुखः ॥ ८११ ॥भूदेवो वाडवो विप्रो द्व्यग्राभ्यां जातिजन्मजाः ।वर्णज्येष्ठः सूत्रकण्ठः षट्कर्मा मुखसंभवः ॥ ८१२ ॥वेदगर्भः शमीगर्भः सावित्रो मैत्त्र एतसः ।
अनुष्टुप्
genderपुंmasc.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह ब्रह्मवर्गः Amarakośa 2.7.4
आश्रमोऽस्त्री द्विजात्यग्रजन्मभूदेववाडवाः ।विप्रश्च ब्राह्मणोऽसौ षट्कर्मा यागादिभिर्वृतः ॥ ४ ॥
अनुष्टुप्
genderपुंmasc.
गीर्वाणभाषाभूषण Gīrvāṇabhāṣābhūṣaṇa · त्रिविक्रम मनुष्याधिकारः पञ्चमस्तरङ्गः Gīrvāṇabhāṣābhūṣaṇa 5.2 · p. 27
ब्राह्मणो मुखजो विप्रो भूदेवो बाडवोऽग्रजः ॥ २ ॥
genderपुंmasc.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ वनौषधिवर्गः Koṣakalpataru 2.3.7 · p. 232
आश्रमोऽस्त्री ब्राह्मणस्तु विप्र - भूदेव - वाडवाः ।द्विजो द्विजातिर्मुखजोऽग्रजन्मा चाग्रजातिवत् ॥ ७ ॥
अनुष्टुप्
genderपुंmasc.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ वनौषधिवर्गः Koṣakalpataru 2.3.3 · p. 244
गुपिलो जागृविः संपद्वरः संयद्वरोऽवसः ।मूर्द्धाभिषिक्तो भूदेवो नरदेवोऽपि लोकपः ॥ ३ ॥
अनुष्टुप्
genderपुंmasc.
नाममालिका Nāmamālikā · भोज भूम्यादिनामधेयप्रकरणम् Nāmamālikā 3.106 · p. 21
भूदेवो ब्राह्मणो विप्रो मुखजो वेदसंभवः ।अग्रजन्मा बाडबकः श्रेष्ठवर्णः कराग्निमान् ॥ १०६ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 बा (wrong syllable)
genderपुंmasc.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास चतुर्थः परिच्छेदः Paramānandīyanāmamālā 4.405 · p. 152
ब्राह्मणो वाडवो विप्रः सूत्रकण्ठस्त्रयीमुखः ।भूदेवो वर्णज्येष्ठश्च द्विजातिश्चाग्रजस्तथा ॥ ४०५ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 र्ण (wrong syllable)
genderपुंmasc.
शब्दचन्द्रिका Śabdacandrikā · वामनभट्टबाण ब्राह्मणप्रकरणम् Śabdacandrikā 5.1.3 · p. 42
ब्राह्मणो मुखजो विप्रो गीर्वाणो वेदपालकः ।क्षेत्रज्ञो ब्रह्मकुलजो भूदेवो मुखवर्णजः ॥ ३ ॥
अनुष्टुप्
genderपुंmasc.
शारदीयाख्यनाममाला Śāradīyākhyanāmamālā · हर्षकीर्ति ब्रह्मवर्गः Śāradīyākhyanāmamālā 3.1.4 · p. 34
द्विजातिर्ब्राह्मणो विप्रो भूदेवो वाडवो द्विजः ।अग्रजन्मा द्विजन्मा च षट्कर्मा मुखसंभवः ॥ ४ ॥
अनुष्टुप्
genderपुंmasc.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि मर्त्यविभागः Suśīlanāmamālā 4.1350 · p. 214
भूदेवो ब्राह्मणो ब्रह्मा षट्कर्मा मुखसम्भवः ॥ १३५० ॥
अनुष्टुप्
genderपुंmasc.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश ब्रह्मवर्गप्रकाशः Śabdaratnāvalī 3.6.6 · p. 111
ब्राह्मणो विप्रभूदेवद्विजातिद्विजवाडवाः ।अग्रजन्मा सूत्रकण्ठो ज्येष्ठवर्णोऽग्रजातकः ॥
अनुष्टुप्
genderपुंmasc.
वैजयन्ती Vaijayantī · यादवप्रकाश ब्राह्मणाध्यायः Vaijayantī 3.6.1 · p. 83
ब्राह्मणो मुखजो विप्रो भूदेवो मैत्र एतशः ।अग्रजन्मा वेदगर्भो बाडबश्च त्रयीपुषः ॥ १ ॥
अनुष्टुप्
genderपुंmasc.

भूदेव as a meaning in nānārtha verses

  • शब्दरत्नावली अग्निमुखकोषानक्याञ्च भूदेवे विविधेऽग्निमुखः पुमान् । कुसुम्भे कुङ्कुमे दीपे बाणेऽप्यग्निशिखः मतः ॥ Śabdaratnāvalī 7.2.15
  • शब्दरत्नावली ध्वजिन्तोदनं व्यथने तोत्रे दंशनं वर्मदंशयोः । दर्शनं दर्पणे शास्त्रे नयनस्वप्नबुद्धिषु ॥ दमनः कुसुमे वीरे उपशान्तेऽपि कुत्रचित् । दशनः शिखरे दन्ते कवचे तु नपुंसकम् ॥ दहनो दुष्टचेष्टाग्निभल्लाते चित्रकेऽपि च । दृशानं तेजसि क्लीबं स्यात्पुमांस्तु विरोचने ॥ देवनन्तु जिगीषायां स्यात्क्रीडाव्यवहारयोः । अक्षेषु देवनः पुंसि सेवायामपि देवना ॥ ध्वजी रथे च भूदेवे भये सर्पे धराधरे । धन्वी ककुभवृक्षे स्यादर्जुने च धनुर्धरे ॥ धन्व क्लीबे स्थले चापे धन्वा ना मरुदेशके । धमनो नालभेदे भस्त्राध्मापकक्रूरयोस्त्रिषु ॥ धमनी च शिराहट्टविलासिन्योरपि स्त्रियाम् । धावनन्तु गतौ शुद्धै पृश्नीपर्ण्यान्तु धावनी ॥ धाम गेहे तनौ रश्मौ स्थाने प्रभावजन्मनोः । नन्दनं वासवोद्यानं पुमानात्यजहर्षयोः ॥ नन्दी हरद्वारपाले कन्दवाले वटद्रुमे । नन्दिन्युमाधेनुभेदगङ्गाननान्दृषु स्त्रियाम् ॥ नलिन्याकाशगङ्गायां पद्मिन्यां कमलाकरे । अम्भोरुहे तु न पुमान् नीलिकायां नपुंसकम् ॥ निदानं वत्सदामादिकारणे क्षयकारणे । निधनं नाशकुलयोः प्रधनं युधि दारुणे ॥ पवनं स्यात्कुम्भकारपाकस्थाने नपुंसकम् । स्यात्पुमांस्तु जगत्प्राणे निष्पावे प्रयतेऽपि च ॥ प्रधानं प्रकृतिप्रज्ञामहामात्यपरात्मसु । एकत्वे चोत्तमे क्लीबं वाच्यलिङ्गन्तु कुत्रचित् ॥ पद्मिनी स्त्रीविशेषे स्यात्पद्मसङ्घे सरोऽम्बुजे । प्रसन्ना स्त्री सुरायां स्यात्सन्तुष्टामलयोस्त्रिषु ॥ प्रसूनं पुष्पफलयोः क्लीबं जाते तु वाच्यवत् । पत्री पत्ररथे श्येनेऽत्रिकाण्डे रथिके त्रिषु ॥ पर्व स्यादुत्सवे ग्रन्थौ प्रस्तावचिह्नभेदयोः । स्याद्दर्शप्रतिपत्सन्धौ विषुवत्प्रभृतिष्वपि ॥ पक्ष्मसूत्रांशमुद्रादिकिञ्जल्कनेत्ररोमसु । पाठीनः पाठके मीनभेदे च गुग्गुलुद्रुमे ॥ Śabdaratnāvalī 7.20.57