कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Śāradīyākhyanāmamālā

शारदीयाख्यनाममाला Śāradīyākhyanāmamālā

462 verses · 4,677 words tagged · 226 marked doubtful (dashed)

तृतीयः काण्डः · ब्रह्मवर्गः

॥ इति पण्डितवर्गः ॥

इति श्रीहर्षकीर्त्युपाध्यायविरचितायां शारदीयाभिधायां लघुनाममालायां द्वितीयः काण्डः ॥ २ ॥

ब्राह्मणाः क्षत्रिया वैश्याः शूद्रा वर्णचतुष्टयम् ।ब्रह्मचारी गृही वानप्रस्थो भिक्षुरिहाश्रमाः ॥ १ ॥
3.1.1 · p. 34
अनुष्टुप्
ब्रह्मचारी तु वर्णी स्याद्गृहस्थः स्नातको गृही ।वैखानसो वानप्रस्थो भिक्षुः सांन्यासिको यतिः ॥ २ ॥
3.1.2 · p. 34
अनुष्टुप्
परिव्राट् परिरक्षी च परिव्राजकतापसौ ।पाराशरी मस्करी च पाषण्डाः सर्वलिङ्गिनः ॥ ३ ॥
3.1.3 · p. 34
अनुष्टुप्
द्विजातिर्ब्राह्मणो विप्रो भूदेवो वाडवो द्विजः ।अग्रजन्मा द्विजन्मा च षट्कर्मा मुखसंभवः ॥ ४ ॥
3.1.4 · p. 34
अनुष्टुप्
यज्ञो यागः क्रतुः सत्रं सप्ततन्तुर्मखोऽध्वरः ।होमो होत्रं वषट्कारो हवनं देवतर्पणम् ॥ ५ ॥
3.1.5 · p. 35
अनुष्टुप्
अजिनं चर्म कृत्तिस्त्वक्चीरं वल्कं च वल्कलम् ।वितर्दिर्वेदिका वेदी गुहा स्यात्कन्दरा दरी ॥ ६ ॥
3.1.6 · p. 35
अनुष्टुप्