कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

द्विजन्मन्

dvijanmanपुं · masc.

In 12 kośas: 8 synonym verses, 6 as a nānārtha head word, 1 as a meaning of another word.

अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य मर्त्यकाण्डः Abhidhānacintāmaṇi 3.627 · p. 33
अवदानं कर्म शुद्धं ब्राह्मणस्तु त्रयीमुखः ॥ ८११ ॥भूदेवो वाडवो विप्रो द्व्यग्राभ्यां जातिजन्मजाः ।वर्णज्येष्ठः सूत्रकण्ठः षट्कर्मा मुखसंभवः ॥ ८१२ ॥वेदगर्भः शमीगर्भः सावित्रो मैत्त्र एतसः ।
अनुष्टुप्
genderपुंmasc.doubtful
हलायुधकोशः (अभिधानरत्नमाला) Abhidhānaratnamālā (Halāyudha) · हलायुध भूमिकाण्डम् Abhidhānaratnamālā (Halāyudha) 2.391 · p. 46
ब्राह्मणो वाडवो विप्रो भूमिदेवो द्विजोत्तमः ।अग्रजन्मा द्विजन्मा च षट्कर्मा सोमपा द्विजः ॥ ३९१ ॥
अनुष्टुप्
genderपुंmasc.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास चतुर्थः परिच्छेदः Paramānandīyanāmamālā 4.406 · p. 152
षट्कर्मा च द्विजन्मा स्याद्विजः स्यान्मुखसंभवः ।सावित्रो वेदगर्भश्चैतसमैत्रावपि स्मृतौ ॥ ४०६ ॥
अनुष्टुप्
genderपुंmasc.
शारदीयाख्यनाममाला Śāradīyākhyanāmamālā · हर्षकीर्ति ब्रह्मवर्गः Śāradīyākhyanāmamālā 3.1.4 · p. 34
द्विजातिर्ब्राह्मणो विप्रो भूदेवो वाडवो द्विजः ।अग्रजन्मा द्विजन्मा च षट्कर्मा मुखसंभवः ॥ ४ ॥
अनुष्टुप्
genderपुंmasc.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि मर्त्यविभागः Suśīlanāmamālā 4.1351 · p. 214
अग्रजन्मा द्विजन्मा च द्विजातिर्वडिवा द्विजः ।वर्णज्येष्ठः शमीगर्भो वेदगर्भो विप्रः पुनः ॥ १३५१ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 5 वि (wrong syllable)
genderपुंmasc.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश ब्रह्मवर्गप्रकाशः Śabdaratnāvalī 3.6.7 · p. 111
द्विजन्मा वक्रजो मैत्रः वेदवासो नयो गुरुः ।ब्राह्मणे शुद्धसन्ताने ब्राह्मणायन उच्चते ॥
अनुष्टुप्
genderपुंmasc.
शब्दरत्नाकर Śabdaratnākara · वाचनाचार्यश्रीसाधुसुन्दरगणि तृतीयः काण्डः Śabdaratnākara 3.296 · p. 212
शुद्धकर्माऽवापाद्दानं माहादाने प्रवारणम् ।वरणं, विप्रे ब्रह्मा स्याद् ब्रह्माणो जाति-जन्म-जाः ॥ २९६ ॥
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 5 वा (wrong syllable); pāda 3, syllable 5 प्रे (wrong syllable)
genderपुंmasc.doubtful
वैजयन्ती Vaijayantī · यादवप्रकाश मनुष्याध्यायः Vaijayantī 3.5.57 · p. 76
सुधन्वाचार्य एको वा मैत्रं सा वैश्यपूर्विका ।शूद्रपूर्वा द्विजन्मानं सात्त्वतं क्षत्रपूर्विका ॥ ५७ ॥
अनुष्टुप्
genderपुंmasc.
धरणिकोश Dharaṇikośa · धरणिदास नपादः Dharaṇikośa 19.1.19 · p. 108
ह्रादिनी वज्रतडितोर्वर्तिनी वृत्तिमार्गयोः ।द्विजन्मा विहगे विप्रे भूतात्मा धातृदेहयोः ॥
अनुष्टुप्
कोषकल्पतरु Koṣakalpataru · विश्वनाथ नान्ताः Koṣakalpataru 6.21.32 · p. 265
गन्धर्वपुर्यां कुहकेऽन्तिमे स्या-दथ द्विजन्मा दशने च विप्रे ।सनातनः कंसरिपौ पुरारौतथा पितॄणामतिथौ च पुंसि ॥ ३२ ॥
उपजातिः
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् नानालिङ्गाध्यायः Nānārthārṇavasaṃkṣepa 4.932 · p. 129
कनिष्ठपत्न्यामरतौ पुनर्भूपरिविन्नयोः ।आहुतौ च द्विजन्मा तु ना दन्ते रभसोदितः ॥ ९३२ ॥
अनुष्टुप्
meaningsदन्त
शब्दरत्नावली Śabdaratnāvalī · मथुरेश नान्ताः Śabdaratnāvalī 7.20.110 · p. 244
तपोधना तु मुण्डीर्यां तपसे तु तपोधनः ।द्विजन्मा भूमिदेवे ना दशने च विहङ्गमे ॥दुर्नामा दीर्घकौष्यां स्त्री दुर्णामक्लीबमर्शसि ।देवसेना शक्रपुत्री देवनासेनयोः स्त्रियाम् ॥नागाञ्जना तु हस्तिन्यां नागयष्ट्यामपि स्त्रियाम् ।क्लीबं निधुवनं कल्पे सुरते नर्मकेलिषु ॥निर्वासनं नगरादेर्बहिष्कारे च हिंसने ।निर्भत्सनमलक्ते च खलीकारे च न द्वयोः ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 ग (wrong syllable)
त्रिकाण्डशेष Trikāṇḍaśeṣa · पुरुषोत्तमदेव नानार्थवर्गः Trikāṇḍaśeṣa 3.3.242 · p. 175
क्रीडादौ देवनं नाक्षे द्विजन्मा दन्तविप्रयोः ।दानं गजमदे त्यागे खण्डने रक्षणेऽपि च ॥ २४२ ॥
अनुष्टुप्
वैजयन्ती Vaijayantī · यादवप्रकाश पुंलिङ्गाध्यायः Vaijayantī 7.1.31 · p. 241
दरथो विवरे भीत्यां दिक्षु चापि प्रसारणे ।द्विजातिश्च द्विजन्मा च ब्राह्मणादिपतत्रिणोः ॥ ३१ ॥
अनुष्टुप्
meanings

द्विजन्मन् as a meaning in nānārtha verses