कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

क्षेत्रज्ञ

kṣetrajñaपुं · masc.

In 14 kośas: 15 synonym verses, 7 as a nānārtha head word, 6 as a meaning of another word.

अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य सामान्यकाण्डः Abhidhānacintāmaṇi 6.1366 · p. 52
क्षेत्रज्ञ आत्मा पुरुषश्चेतनः स पुनर्भवी ।जीवः स्यादसुमान्सत्वं देहभृज्जन्युजन्तवः ॥ १३६६ ॥
अनुष्टुप्
genderपुंmasc.
अभिधानचिन्तामणिपरिशिष्ट Abhidhānacintāmaṇipariśiṣṭa · हेमचन्द्र देवकाण्डः Abhidhānacintāmaṇipariśiṣṭa 2.62 · p. 3
भृङ्गी तु चर्मी ब्रह्मा तु क्षेत्रज्ञः पुरुषः सनत् ॥ ६२ ॥
अनुष्टुप्
genderपुंmasc.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह कालवर्गः Amarakośa 1.4.44
क्षेत्रज्ञ आत्मा पुरुषः प्रधानं प्रकृतिः स्त्रियाम् ।
अनुष्टुप्
genderपुंmasc.
हलायुधकोशः (अभिधानरत्नमाला) Abhidhānaratnamālā (Halāyudha) · हलायुध स्वर्गकाण्डम् Abhidhānaratnamālā (Halāyudha) 1.134 · p. 16
असवो जीवितं प्राणा जीवो जीवा च कथ्यते ।क्षेत्रज्ञः पुरुषो ह्यात्मा संसारी चेतनो मतः ॥ १३४ ॥
अनुष्टुप्
genderपुंmasc.
हलायुधकोशः (अभिधानरत्नमाला) Abhidhānaratnamālā (Halāyudha) · हलायुध भूमिकाण्डम् Abhidhānaratnamālā (Halāyudha) 2.335 · p. 40
चतुरः स्यात्क्षेत्रज्ञः कृतहस्तः कृतमुखश्च कृतकर्मा ।दक्षः कुशलोऽभिज्ञो निष्णातः शिक्षितः प्रवीणश्च ॥ ३३५ ॥
गीतिः
genderविadj.
कल्पद्रुकोशः Kalpadrukośa · केशव कालप्रकाण्डः Kalpadrukośa 2.4.94 · p. 416
क्षेत्रज्ञ आत्मा पुरुषः पूरुषश्चाक्षरः कविः ।अन्तर्यामीश्वरो देही जीवोऽजो बहुलोऽतनुः ॥ ९४ ॥
अनुष्टुप्
genderपुंmasc.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ परमात्मवर्गः Koṣakalpataru 1.1.17 · p. 2
अविद्यासंवृते स्वात्मा क्षेत्रज्ञः पुरुषोऽतसः ।इन्द्रश्च चेतनोऽध्यात्मं त्वव्ययं क्लीबमत्र तु ॥ १७ ॥
अनुष्टुप्
genderपुंmasc.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास तृतीयः परिच्छेदः Paramānandīyanāmamālā 3.255 · p. 84
विष्टपं भुवनं विश्वं जगल्लोको जगत्यपि ।जीवः स्यात्पुरुषः क्षेत्रज्ञात्मानावसुमानथ ॥ २५५ ॥
अनुष्टुप्
genderपुंmasc.
शब्दचन्द्रिका Śabdacandrikā · वामनभट्टबाण ब्राह्मणप्रकरणम् Śabdacandrikā 5.1.3 · p. 42
ब्राह्मणो मुखजो विप्रो गीर्वाणो वेदपालकः ।क्षेत्रज्ञो ब्रह्मकुलजो भूदेवो मुखवर्णजः ॥ ३ ॥
अनुष्टुप्
genderपुंmasc.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि देवविभागः Suśīlanāmamālā 3.275 · p. 37
क्षेत्रज्ञश्चापि लोकेशः सुरज्येष्ठस्तथैव च ।अजोऽष्टश्रवणश्चेति सन्ति नामानि ब्रह्मणः ॥ २७५ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 5 नि (wrong syllable)
genderपुंmasc.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि मर्त्यविभागः Suśīlanāmamālā 4.506 · p. 64
विज्ञो वैज्ञानिकोऽभिज्ञः चतुरः कृशलस्तथा ।क्षेत्रज्ञः कृतकृत्यश्च कृतहक्तः कृती तथा ॥ ५०६ ॥
अनुष्टुप्
genderविadj.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि सामान्यविभागः Suśīlanāmamālā 7.3 · p. 402
क्षेत्रज्ञः पुरुष आत्मा चेतनः कथ्यते तथा ।
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 ष (wrong syllable)
genderपुंmasc.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश स्वर्गवर्गप्रकाशः Śabdaratnāvalī 2.1.310 · p. 22
आदिकारणमित्येतन्निदानं तत् प्रकीर्तितम् ।आत्मा स्वो जीवः पुरूषः क्षेत्रज्ञः पुरुषोऽपि च ॥
अनुष्टुप्
genderपुंmasc.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण चित्ताध्यायः Śabdaratnākara 1.9.276 · p. 37
आत्मा क्षेत्रज्ञपुरुषौ निदानं त्वादिकारणम् ।निमित्तं कारणं बीजं हेतुरर्थ उपधिवत् ॥ २७६ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 6 प (wrong syllable)
genderपुंmasc.
वैजयन्ती Vaijayantī · यादवप्रकाश ब्राह्मणाध्यायः Vaijayantī 3.6.161 · p. 96
परमात्मा परो ब्रह्म जीवः क्षेत्रज्ञ आविशः ।शक्तिस्तु माया प्रकृतिर्व्योमाख्यं मूलकारणम् ॥ १६१ ॥
अनुष्टुप्
genderपुंmasc.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह नानार्थवर्गः Amarakośa 3.3.66
पुंस्यात्मनि प्रवीणे च क्षेत्रज्ञो वाच्यलिङ्गकः ।
अनुष्टुप्
धरणिकोश Dharaṇikośa · धरणिदास ञपादः Dharaṇikośa 9.1.1 · p. 34
सर्वज्ञः शंकरे बुद्धे क्षेत्रज्ञः शिक्षितात्मनोः ।
कोषकल्पतरु Koṣakalpataru · विश्वनाथ ञान्ताः Koṣakalpataru 6.9.48 · p. 178
सर्वज्ञः स्मरहरबुद्धयोः कृतज्ञःकार्यज्ञे शुनि च भिषग्विपश्चितोस्तु ।दोषज्ञोऽपरनिभ एष दोषविज्ञेक्षेत्रज्ञस्त्रिषु कुशले पुमांस्तु जीवे ॥ ४८ ॥
प्रहर्षिणी
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् नानालिङ्गाध्यायः Nānārthārṇavasaṃkṣepa 4.579 · p. 97
ज्ञाने तु पूर्णे क्लीबं स्यात् केचिदन्येऽवधारणे ।निर्णीते त्वपरेऽथ स्यात् क्षेत्रज्ञो निपुणे त्रिषु ॥ ५७९ ॥
अनुष्टुप्
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् नानालिङ्गाध्यायः Nānārthārṇavasaṃkṣepa 4.580 · p. 97
क्षेत्रस्य विज्ञातरि च ना त्वात्मन्यथ सा स्त्रियाम् ।क्षेत्रिया क्षुद्रधान्ये स्याद् गवीथुरिनि विश्रुते ॥ ५८० ॥
अनुष्टुप्
doubtful
शब्दरत्नावली Śabdaratnāvalī · मथुरेश ञान्ताः Śabdaratnāvalī 7.10.4 · p. 199
कृतज्ञः कुक्कुरे ना तु मर्यादिन्यपि वाच्यवत् ।क्षेत्रज्ञ आत्मनि छेके विदग्धे कृषकेऽपि च ॥
अनुष्टुप्
वैजयन्ती Vaijayantī · यादवप्रकाश नानालिङ्गाध्यायः Vaijayantī 7.5.32 · p. 259
कातरः पण्डके त्रस्नौ क्षेत्रज्ञावात्मशिक्षितौ ।कुसीदमृणवृद्धौ क्ली वाच्यवद्वृद्धिजीविनि ॥ ३२ ॥
अनुष्टुप्

क्षेत्रज्ञ as a meaning in nānārtha verses