कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

भोक्तृ

bhoktṛपुं · masc.

In 8 kośas: 6 synonym verses, 2 as a meaning of another word.

अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य मर्त्यकाण्डः Abhidhānacintāmaṇi 3.223 · p. 23
प्रेयस्याद्याः पुंसि पत्यौ भर्ता सेक्ता पतिर्वरः ॥ ५१६ ॥विवोढा रमणो भोक्ता रुच्यो वरयिता धवः ।
metre not recognised
genderपुंmasc.
हलायुधकोशः (अभिधानरत्नमाला) Abhidhānaratnamālā (Halāyudha) · हलायुध भूमिकाण्डम् Abhidhānaratnamālā (Halāyudha) 2.497 · p. 57
कान्तः स्यात्कमिता पतिर्वरयिता भर्ता च भोक्ता धवो,रुच्याभीकवराभिकाश्च रमणः प्राणाधिनाथोऽनुगः ।सूनुः सन्ततिरात्मजश्च तनुजः पुत्रः प्रसूतिः सुतः,तुक् तोकं तनयश्च नन्दन इति प्राज्ञैरपत्यं स्मृतम् ॥ ४९७ ॥
शार्दूलविक्रीडितम्
genderपुंmasc.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ वनौषधिवर्गः Koṣakalpataru 2.3.55 · p. 206
भर्ता भोक्ता वरयिता रमणो रामिलो वरः ॥ ५५ ॥
genderपुंmasc.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास चतुर्थः परिच्छेदः Paramānandīyanāmamālā 4.184 · p. 124
वि[68]वोढा च धवो भोक्ता रुच्यप्राणप्रियौ समौ ।उद्वाहोऽथ विवाहश्चोपयामः पाणिपीडनम् ॥ १८४ ॥
अनुष्टुप्
genderपुंmasc.
शारदीयाख्यनाममाला Śāradīyākhyanāmamālā · हर्षकीर्ति अङ्गवर्गः Śāradīyākhyanāmamālā 2.1.6 · p. 20
भर्ता विवोढा रमणो भोक्ता नाथः पतिर्धवः ।वरो वरयिता कान्तो वल्लभो दयितः प्रियः ॥ ६ ॥
अनुष्टुप्
genderपुंmasc.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि मर्त्यविभागः Suśīlanāmamālā 4.810 · p. 117
प्रेष्ठः पाणिग्रही कान्तः पाणिग्राहश्च वल्लभः ।उपयान्ता परिणेता भर्ता भोक्ता तथा धवः ॥ ८१० ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 रि (wrong syllable)
genderपुंmasc.

भोक्तृ as a meaning in nānārtha verses