कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

दयित

dayitaवि · adj.

In 14 kośas: 14 synonym verses, 7 as a meaning of another word.

नामलिङ्गानुशासनम् Amarakośa · अमरसिंह विशेष्यनिघ्नवर्गः Amarakośa 3.1.53
अभीष्टेऽभीप्सितं हृद्यं दयितं वल्लभं प्रियम् ॥ ५३ ॥
अनुष्टुप्
genderविadj.
हलायुधकोशः (अभिधानरत्नमाला) Abhidhānaratnamālā (Halāyudha) · हलायुध भूमिकाण्डम् Abhidhānaratnamālā (Halāyudha) 2.367 · p. 43
चक्षुष्यः सुभगो ज्ञेयो वल्लभो दयितः प्रियः ।गेहेनर्दी गेहेशूरः पिण्डीशरश्च कथ्यते ॥ ३६७ ॥
अनुष्टुप्metre not read in every line
genderविadj.
कल्पद्रुकोशः Kalpadrukośa · केशव विशेष्यनिघ्नकाण्डः Kalpadrukośa 1.9.102 · p. 225
अपि स्यात्सुषमं चाथाभीप्सितं दयितं प्रियम् ।अभीष्टं वल्लगहृद्यमथासेचनकं हि तत् ॥ १०२ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 ग (wrong syllable)
genderविadj.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ वनौषधिवर्गः Koṣakalpataru 2.3.56 · p. 206
पतिर्धवो जीवितेशो वल्लभो दयितोऽपि च ।कामलः सरसी कान्तः सुविदश्च हृदीश्वरः ॥ ५६ ॥
अनुष्टुप्
genderपुंmasc.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ आतङ्कवर्गः Koṣakalpataru 3.3.45 · p. 5
भार्याटिकः स्त्रीजितः स्याच्चक्षुष्यस्तु सुदर्शनः ।सुभगो वल्लभो रुच्यो दयितः प्रिय इत्यपि ॥ ४५ ॥
अनुष्टुप्
genderविadj.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ आतङ्कवर्गः Koṣakalpataru 3.3.63 · p. 18
अभीष्टेऽभीप्सितं हृद्यं दयितं वल्लभं प्रियम् ।मिष्टं मृष्टं मधुरं स्वाद्यं स्वादिष्ठ-भल्लवत् ॥ ६३ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
genderविadj.
नाममाला Nāmamālā (Dhanañjaya) · धनञ्जय Nāmamālā (Dhanañjaya) 37 · p. 18
कान्तेष्टौ दयितः प्रीतः प्रियः कामी च कामुकः ।वल्लभोऽसुपतिः प्रेयान् विटश्च रमणो वरः ॥ ३७ ॥
अनुष्टुप्
genderपुंmasc.
पर्यायशब्दरत्न Paryāyaśabdaratna · धनञ्जयभट्ट मध्यमलोकसर्गः Paryāyaśabdaratna 2.681 · p. 115
ईप्सितेऽभीप्सितं चैत्यं दयितं वल्लभं प्रियम् ।निकृष्टे तु कुपूयः स्याद्गर्हणः खेट इत्यपि ॥ ६८१ ॥
अनुष्टुप्
genderविadj.
पञ्चतत्त्वप्रकाश Pañcatattvaprakāśa · वेणीदत्त मनुष्यमरीचिः Pañcatattvaprakāśa 1.1.55 · p. 4
कनिष्ठोऽग्रजनु? ज्येष्ठो देवरः पतिसोदरः ।धवः प्रियः पतिर्भर्त्ता वल्लभो दयितोऽसुपः? ॥ ५५ ॥
अनुष्टुप्
genderपुंmasc.
शारदीयाख्यनाममाला Śāradīyākhyanāmamālā · हर्षकीर्ति अङ्गवर्गः Śāradīyākhyanāmamālā 2.1.6 · p. 20
भर्ता विवोढा रमणो भोक्ता नाथः पतिर्धवः ।वरो वरयिता कान्तो वल्लभो दयितः प्रियः ॥ ६ ॥
अनुष्टुप्
genderपुंmasc.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि मर्त्यविभागः Suśīlanāmamālā 4.811 · p. 117
वरयिता विवोढा च रुच्यश्च रमणो वरः ।दयितो हृदयेशश्च सेक्ता चेति प्रियः पतिः ॥ ८११ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 3 यि (wrong syllable)
genderपुंmasc.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश विशेषणवर्गप्रकाशः Śabdaratnāvalī 5.4 · p. 163
रामञ्च रुचिरं रुच्यमभिरामञ्च नन्दितम् ।विज्ञेयमासेचनकमासेचनकमित्यपि ॥यस्य दर्शनतस्तृप्तेरन्तो नास्ति द्वयन्तु तत् ।दयितं वल्लभं हृद्यमभीष्टाभीप्सितप्रियम् ॥
अनुष्टुप्
genderविadj.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण विशेष्यनिघ्नाध्यायः Śabdaratnākara 3.6.1581 · p. 191
वल्लभदयिताभीप्सितहृद्यप्रियरुचिररुच्यकान्तेष्टाः ।मञ्जुलमञ्जुमनोरमसुन्दरकमनीयचारुसुषमाश्च ॥ १५८१ ॥
गीतिः
genderविadj.
वैजयन्ती Vaijayantī · यादवप्रकाश अर्थवल्लिङ्गाध्यायः Vaijayantī 5.4.70 · p. 206
चक्षुष्यः सुभगः कान्तो दयितो वल्लभः प्रियः ।गेहेनर्दी गृहेशूरः पिण्डीशूरो गृहे प्रभुः ॥ ७० ॥
अनुष्टुप्
genderविadj.

दयित as a meaning in nānārtha verses

  • नानार्थार्णवसंक्षेप वल्लभवल्गुवाग्वाग्मिनोश्चापि वरदन्तु समर्धके । प्रसन्ने वल्लभस्तु स्यादध्यक्षे दयितेऽपि च ॥ ४७ ॥ Nānārthārṇavasaṃkṣepa 3.4.47
  • नानार्थार्णवसंक्षेप मृणालदयितेऽपि मृणालं त्रिर्मृदङ्गस्तु पुमानयम् । महाकोशातकी स्वल्पफलकोशातकीति च ॥ १४४१ ॥ Nānārthārṇavasaṃkṣepa 4.1441
  • नानार्थार्णवसंक्षेप जीवितेशकाकाङ्गीसंज्ञके च स्त्री जीवितव्ये जले च नप् । जीवितेशः प्रेतनाथे दयिते द्रविणागमे ॥ २४४ ॥ Nānārthārṇavasaṃkṣepa 6.244
  • शब्दरत्नावली वल्लभवल्लभोऽध्यक्षदयितशुभलक्षपावाजिषु । वर्षाभूः स्त्री तु शोथघ्न्या भूवल्ली भेकयोः पुमान् ॥ विष्कम्भः प्रतिबन्धे च विस्तारयोगभेदयोः । योगिबन्धभेदेऽर्गलारूपकाङ्गप्रभेदयोः ॥ विस्रम्भः प्रणये केलिकोपविश्वासयोरपि । विष्टभ्यो रोगभेदे स्यात्प्रतिबन्धे भवेत्पुमान् ॥ वैदर्भं वाक्यवक्तत्वे वेदर्भी रीतिभिद्यपि । शरभः पशुभेदे स्यात्करमे वानरेऽपि च ॥ सनाभिः सदृशे पुंसि ज्ञातौ स्नेहयुतेऽपि च । सुरभिः शल्लकीमातृसुरागोष्वपि च स्त्रियाम् ॥ वसन्ते चम्पके जातीफलगन्धफले पुमान् । क्लीबं गन्धाश्मनि स्वर्गे सुगन्धिकान्तयोस्त्रिषु ॥ Śabdaratnāvalī 7.24.13
  • तन्त्राभिधान चदयितश्च द्विनेत्रश्च लक्ष्मीस्त्रितयलोचनः । चन्दनं चन्द्रमा दैवश्चेतना वृश्चिको बुधः ॥ ७४ ॥ Tantrābhidhāna 2.23.74
  • वैजयन्ती वल्लभविकृतौ रोगिदूरूपौ विशदो धवले शुचौ । वल्लभौ दयिताध्यक्षौ वरिष्ठोऽतिवरेऽत्युरौ ॥ २५ ॥ Vaijayantī 7.4.25
  • वैजयन्ती जीवितेशजलेशयो जलकपौ मत्स्ये पद्मं जलेशयम् । जीवितेशः प्रेतनाथे दयिते द्रविणागमे ॥ ८ ॥ Vaijayantī 8.5.8