कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

भल्लूक

bhallūkaपुं · masc.

In 16 kośas: 15 synonym verses, 1 as a nānārtha head word, 5 as a meaning of another word.

अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य पञ्चेन्द्रियाः Abhidhānacintāmaṇi 4.9.105 · p. 49
भाल्लूकभालूकर्क्षाच्छभल्लभल्लूकभल्लुकाः ।
अनुष्टुप्
genderपुंmasc.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह सिंहादिवर्गः Amarakośa 2.5.4
कपिप्लवङ्गप्लवगशाखामृगवलीमुखाः ।मर्कटो वानरः कीशो वनौका अथ भल्लुके ॥ ३ ॥ऋक्षाच्छभल्लभल्लूका गण्डके खड्गखड्गिनौ ।
अनुष्टुप्
genderपुंmasc.
हलायुधकोशः (अभिधानरत्नमाला) Abhidhānaratnamālā (Halāyudha) · हलायुध भूमिकाण्डम् Abhidhānaratnamālā (Halāyudha) 2.228 · p. 28
ऋक्षाच्छभल्लभाल्लूकभल्लूकाश्च समाः स्मृताः ।अरण्यश्वा बुधैर्ज्ञेयः कोक ईहामृगो वृकः ॥ २२८ ॥
अनुष्टुप्
genderपुंmasc.
बालप्रबोधिका Bālaprabodhikā · नत्कीर पञ्चदशोपदेशः Bālaprabodhikā 15.309 · p. 94
भल्लूके दीर्घरोमा स्याद्भल्लूवासः सिताननः ।गण्डके खड्गपादः स्यात् कोके त्वीहायनो वृकः ॥ ३०९ ॥
अनुष्टुप्
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव समुद्रादिप्रकाण्डः Kalpadrukośa 1.14.128 · p. 358
महाकपर्दो भल्लूकः कपर्दोऽस्त्री वराटकः ।चराचरचरो वर्यो बालक्रीडनकश्च सः ॥ १२८ ॥
अनुष्टुप्
genderपुंmasc.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ वनौषधिवर्गः Koṣakalpataru 2.3.68 · p. 157
मण्डूकपर्णः पत्रोर्णः स्योनाकः शोणको नटः ।भल्लूक-भल्ल-ऋक्षाश्च भूतद्रुः पृथुशिम्बिकः ॥ ६८ ॥
अनुष्टुप्
genderपुंmasc.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ वनौषधिवर्गः Koṣakalpataru 2.3.11 · p. 190
अक्षान्तकः केसरिजो भास्करच्छात्र इत्यपि ।कपिस्वभावः कापेयमथ भल्लूक-भल्लुकौ ॥ ११ ॥
अनुष्टुप्
genderपुंmasc.
नाममालिका Nāmamālikā · भोज भूम्यादिनामधेयप्रकरणम् Nāmamālikā 3.73 · p. 17
दीर्घरोमा च भल्लूको विकरालोऽच्छभल्लुकः ।माहिषः सैरिभोऽश्वारिर्जरन्तो गद्गदस्वनः ॥ ७३ ॥
अनुष्टुप्
genderपुंmasc.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि पञ्चेन्द्रियजीवनामानि Suśīlanāmamālā 5.9.2329 · p. 377
ऋक्षस्तथाऽच्छभल्लश्च भल्लूको भल्लुकः पुनः ।भालूकश्चापि भाल्लूकश्चेति नामानि सन्ति वै ॥ २३२९ ॥
अनुष्टुप्
genderपुंmasc.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश सिंहादिवर्गप्रकाशः Śabdaratnāvalī 3.5.9 · p. 82
कीशो नगाटनो झम्पी झम्पारुः स्यात् कलिप्रियः ।भल्लूकभल्लभालूकभल्लुका भालुकोऽपि च ॥
अनुष्टुप्
genderपुंmasc.
शब्दरत्नाकर Śabdaratnākara · वाचनाचार्यश्रीसाधुसुन्दरगणि चतुर्थः काण्डः Śabdaratnākara 4.321 · p. 244
दन्त्यतालव्यान्तः कोले शूकरः सूकरः किरिः ।किरः ऋक्षे तु भल्लूको भाल्लूको भल्लुकस्तथा ॥ ३२१ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 व्या (wrong syllable)
genderपुंmasc.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण चतुष्पदाध्यायः Śabdaratnākara 2.4.679 · p. 87
ऋक्षोऽच्छभल्लो भल्लूको भल्लुकोऽप्यथ गण्डकः ।खड्गी वाध्रीणसः खड्गस्तच्छृङ्गे खड्गमस्त्रियाम् ॥ ६७९ ॥
अनुष्टुप्
genderपुंmasc.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण उक्तशेषाध्यायः Śabdaratnākara 3.8.1805 · p. 219
वृकधूर्तस्तु भल्लूको भल्लाटो दीर्घरोमकः ।अथ खड्गी गणोत्साहो महिषस्तु रजस्वलः ॥ १८०५ ॥
अनुष्टुप्
genderपुंmasc.
वैजयन्ती Vaijayantī · यादवप्रकाश वनाध्यायः Vaijayantī 3.3.68 · p. 50
स्योनाके शोणकट्वङ्गौ दीर्घवृन्तः कुटन्नटः ।मण्डूकपर्णः पत्रोर्णो भल्लूकः शुकनासकः ॥ ६८ ॥
अनुष्टुप्
genderपुंmasc.
वैजयन्ती Vaijayantī · यादवप्रकाश पशुसङ्ग्रहाध्यायः Vaijayantī 3.4.7 · p. 65
भल्लूको दीर्घरोमर्क्षो भल्लाटो वृकधूर्तकः ।विकरालोऽच्छभल्लश्च गण्डके खड्गखड्गिनौ ॥ ७ ॥
अनुष्टुप्
genderपुंmasc.
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् नानालिङ्गाध्यायः Nānārthārṇavasaṃkṣepa 4.1269 · p. 158
वानरेऽप्यृक्षसंज्ञे च मृगेऽथर्क्षमृगे द्वयोः ।भल्लूको ना पुनष्टुण्डुसंज्ञवृक्षेऽथ नप्स्त्रियोः ॥ १२६९ ॥
अनुष्टुप्

भल्लूक as a meaning in nānārtha verses