कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

अच्छभल्ल

acchabhallaपुं · masc.

In 10 kośas: 9 synonym verses, 4 as a meaning of another word.

अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य पञ्चेन्द्रियाः Abhidhānacintāmaṇi 4.9.105 · p. 49
भाल्लूकभालूकर्क्षाच्छभल्लभल्लूकभल्लुकाः ।
अनुष्टुप्
genderपुंmasc.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह सिंहादिवर्गः Amarakośa 2.5.4
कपिप्लवङ्गप्लवगशाखामृगवलीमुखाः ।मर्कटो वानरः कीशो वनौका अथ भल्लुके ॥ ३ ॥ऋक्षाच्छभल्लभल्लूका गण्डके खड्गखड्गिनौ ।
अनुष्टुप्
genderपुंmasc.
गीर्वाणभाषाभूषण Gīrvāṇabhāṣābhūṣaṇa · त्रिविक्रम सिंहाधिकारश्चतुर्थस्तरङ्गः Gīrvāṇabhāṣābhūṣaṇa 4.2 · p. 25
अच्छभल्लस्तु भल्लाटो वराहः स्याज्जलप्रियः ।खड्गस्तु गण्डकी खड्गी महिषो गद्गदस्वरः ॥ २ ॥
अनुष्टुप्
genderपुंmasc.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ वनौषधिवर्गः Koṣakalpataru 2.3.12 · p. 190
ऋक्षो भालूक-भाल्लूकावच्छभल्लोऽपि भल्लवत् ।पिङ्गरोमा च[65a] नीलाण्डोऽप्यथ खड्गश्च खैलिकः ॥ १२ ॥
अनुष्टुप्metre not read in every line
genderपुंmasc.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि पञ्चेन्द्रियजीवनामानि Suśīlanāmamālā 5.9.2329 · p. 377
ऋक्षस्तथाऽच्छभल्लश्च भल्लूको भल्लुकः पुनः ।भालूकश्चापि भाल्लूकश्चेति नामानि सन्ति वै ॥ २३२९ ॥
अनुष्टुप्
genderपुंmasc.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश सिंहादिवर्गप्रकाशः Śabdaratnāvalī 3.5.10 · p. 82
ऋक्षोऽच्छभल्लभाल्लुको भीलुको भील्लुकोऽपि च ।खड्गः खड्गी गणोत्साहो गण्डो गण्डक इत्यपि ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 7 ल्लु (wrong syllable)
genderपुंmasc.
शब्दरत्नाकर Śabdaratnākara · वाचनाचार्यश्रीसाधुसुन्दरगणि चतुर्थः काण्डः Śabdaratnākara 4.322 · p. 244
भाल्लुकोऽपि च भालूकश्छोभल्लोऽप्यच्छभल्लवत् ।गोमायौ फेरु-फेरुण्डौ फेरवो भूरिमायवत् ॥ ३२२ ॥
अनुष्टुप्
genderपुंmasc.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण चतुष्पदाध्यायः Śabdaratnākara 2.4.679 · p. 87
ऋक्षोऽच्छभल्लो भल्लूको भल्लुकोऽप्यथ गण्डकः ।खड्गी वाध्रीणसः खड्गस्तच्छृङ्गे खड्गमस्त्रियाम् ॥ ६७९ ॥
अनुष्टुप्
genderपुंmasc.
वैजयन्ती Vaijayantī · यादवप्रकाश पशुसङ्ग्रहाध्यायः Vaijayantī 3.4.7 · p. 65
भल्लूको दीर्घरोमर्क्षो भल्लाटो वृकधूर्तकः ।विकरालोऽच्छभल्लश्च गण्डके खड्गखड्गिनौ ॥ ७ ॥
अनुष्टुप्
genderपुंmasc.

अच्छभल्ल as a meaning in nānārtha verses

  • कोषकल्पतरु भल्लपुंस्यच्छभल्लेऽथ नपुंसि नान्त्ये भल्लातके वारुणि तु त्रिलिङ्गः ॥ ७३ ॥ Koṣakalpataru 6.28.73
  • कोषकल्पतरु ऋक्षऋक्षोऽद्रिभेदे कृतवेधने च तथाच्छभल्ले नरि शोणके च । भे तु स्त्रियामेष न गुह्यके स्यात् यक्षः कुबेरेऽथ मुनिप्रभेदे । दक्षो विधौ नन्दिनि ताम्रचूडे द्रुमेऽनले भेद्यसमः पटौ सः । भुवि स्त्रियां पक्ष इहार्धमासे पार्श्वे ग्रहे साध्यविरोधयो[85a]श्च ॥ ४८ ॥ Koṣakalpataru 6.30.48
  • नानार्थार्णवसंक्षेप ऋक्षऋक्षो द्वयोरच्छभल्ले गुण्डवृक्षे तु नाथ नप् । नक्षत्रेऽन्ये त्विन्द्रियेऽपि प्राहुर्निर्लोम्नि तु त्रिषु ॥ ११६ ॥ Nānārthārṇavasaṃkṣepa 2.5.116
  • शब्दरत्नाकर ऋक्षऋषयः श्रुतिभृग्वादिज्ञानवृद्धदिगम्बराः । ऋक्षोऽच्छभल्ले मण्डूकपर्ण ऋक्षं तु तारके ॥ १८७८ ॥ Śabdaratnākara 4.1.1878