कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

श्रोण

śroṇaवि · adj.

In 10 kośas: 10 synonym verses.

अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य मर्त्यकाण्डः Abhidhānacintāmaṇi 3.139 · p. 21
पङ्गुः श्रोणः खलतिस्तु खल्वाट ऐन्द्रलुप्तिकः ॥ ४५२ ॥शिपिविष्टो बभ्रुरथ काणः कनन एकदृक् ।
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 ब (wrong syllable)
genderविadj.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह मनुष्यवर्गः Amarakośa 2.6.48
पृश्निरल्पतनौ श्रोणः पङ्गौ मुण्डस्तु मुण्डिते ॥ ४८ ॥
अनुष्टुप्
genderविadj.
हलायुधकोशः (अभिधानरत्नमाला) Abhidhānaratnamālā (Halāyudha) · हलायुध भूमिकाण्डम् Abhidhānaratnamālā (Halāyudha) 2.610 · p. 68
खञ्जः पङ्गुस्तथा श्रोणः कुणिर्विकलपाणिकः ।तुण्डिरुन्नतनाभिः स्याद्विग्रो विगतनासिकः ॥ ६१० ॥
अनुष्टुप्
genderविadj.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ वनौषधिवर्गः Koṣakalpataru 2.3.39 · p. 213
श्रोणः पङ्गुरथो खञ्जः खोटः खोडोऽथ पर्पिकः ।पर्पचारी पर्पिकी स्त्री पर्पः पीठे हि तद्गतेः ॥ ३९ ॥
अनुष्टुप्
genderपुंmasc.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास चतुर्थः परिच्छेदः Paramānandīyanāmamālā 4.115 · p. 116
पङ्गौ खलतिकश्रोणावेकदृक्कननः समः ।काणोऽथ शिपिविष्टश्च ऐन्द्रलुप्तिकः इत्यपि ॥ ११५ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 5 कः (wrong syllable)
genderविadj.
पर्यायशब्दरत्न Paryāyaśabdaratna · धनञ्जयभट्ट मध्यमलोकसर्गः Paryāyaśabdaratna 2.112 · p. 39
पृष्ठभागस्य च तथा गडुर्गडुल इत्यपि ।स्पृश्नी(पृश्नि?)स्त्वत्यल्पदेहे स्याच्छ्रोणः पङ्गौ प्रकीर्तितः ॥ ११२ ॥
अनुष्टुप्
genderपुंmasc.doubtful
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि मर्त्यविभागः Suśīlanāmamālā 4.262 · p. 93
पङ्गुः श्रोणः पंगुलश्च पीठसर्पी तथैव च ।
metre not recognisednearly अनुष्टुप्: pāda 4, syllable 3 त (wrong syllable)
genderविadj.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश सिंहादिवर्गप्रकाशः Śabdaratnāvalī 3.5.215 · p. 97
कुणिः कूणिश्च कुकरे पृथ्नि-(दल्पहेतके) रल्पशरीरके ।जङ्घाहीने श्रोणः पङ्गुः स्यान्मुण्डो मुण्डितेऽपि च ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 श्रो (wrong syllable)
genderविadj.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण मनुष्याध्यायः Śabdaratnākara 3.1.1101 · p. 136
श्रोणः पङ्गुः खोडः खञ्जः कोलोऽथ केकरो वलिरः ।दुश्चर्मणि शिपिविष्टः खल्वाटः खलतिरेडबधिरौ तु ॥ ११०१ ॥
गीतिः
genderविadj.
वैजयन्ती Vaijayantī · यादवप्रकाश अर्थवल्लिङ्गाध्यायः Vaijayantī 5.4.14 · p. 202
अनेडमूकस्तु जडो जलो मूकः कलोऽप्यवाक् ।पंगुः श्रोणे खंजकोलौ खोडेऽथ कुकरे कुणिः ॥ १४ ॥
अनुष्टुप्
genderविadj.