सूक्ष्मैला
sūkṣmailāस्त्री · fem.In 7 kośas: 1 synonym verse, 19 as a meaning of another word.
सूक्ष्मैला बहुला तुत्था द्रविडी त्रुटिरित्यपि ।चाम्पेयं नागपुष्पं तु केसरं नागकेसरम् ॥ ९९ ॥
अनुष्टुप्
genderस्त्रीfem.
सूक्ष्मैला as a meaning in nānārtha verses
- नामलिङ्गानुशासनम् त्रुटिसूक्ष्मैलायां त्रुटिः स्त्री स्यात्कालेऽल्पे संशयेऽपि सा ॥ ३७ ॥ Amarakośa 3.3.37
- धरणिकोश त्रुटिवाटो मार्गे वृतौ वाटो वृक्षे च गृहवास्तुनि । त्रुटिः स्यात्संशये चाल्पे सूक्ष्मैलाकालमानयोः ॥ Dharaṇikośa 10.2.6
- धरणिकोश वयःस्थवयःस्थः तरुणः प्रोक्तो वयःस्था च गुडूचिका । सूक्ष्मैलामलकी ब्राह्मी काकोली चाभयापि च ॥ Dharaṇikośa 16.3.3
- कोषकल्पतरु त्रुटिसूक्ष्मैलायां कालमाने च लेशे संदेहे च स्यात्त्रुटिः स्त्री तु खाटिः । निन्द्यागारे स्यात्किणे प्रेतयाने । पोटा तु स्त्रीपुंसलिङ्गा च दासी ॥ २३ ॥ Koṣakalpataru 6.10.23
- नानार्थार्णवसंक्षेप त्रुटितुण्डीरास्ये शूननाभौ त्रुटिः संशयलेशयोः । सूक्ष्मैलायामर्धमात्राकालेऽपीत्यपरेऽपठन् ॥ ४५ ॥ Nānārthārṇavasaṃkṣepa 2.1.45
- नानार्थार्णवसंक्षेप तुत्थातुत्थं रसाञ्जने क्लीबं नीलीसंज्ञौषधौ तु सा । सूक्ष्मैलायां च तुत्था स्त्री रथचक्रस्य तु स्त्रियाम् ॥ ५५० ॥ Nānārthārṇavasaṃkṣepa 2.5.550
- नानार्थार्णवसंक्षेप तुटिसूक्ष्मैलायां च ना त्वेष तुटतौ स्त्री पुनस्तुरिः । तन्तुवायोपकरणभेदे पुंसि तु वारिधौ ॥ ५५६ ॥ Nānārthārṇavasaṃkṣepa 2.5.556
- नानार्थार्णवसंक्षेप नन्दिनीना नन्दिनी तु स्त्री गौर्यां हरीतक्यां ननान्दरि । सूक्ष्मैलायामयोध्यायां प्रशस्ते वास्तुभूतले ॥ ६७३ ॥ Nānārthārṇavasaṃkṣepa 2.5.673
- नानार्थार्णवसंक्षेप शालास्कन्धसञ्जातशाखायां सूक्ष्मैलायां च ना पुनः । पत्तूरे गमने त्रिस्तु गन्तरि श्वालवाक् तु ना ॥ १३४८ ॥ Nānārthārṇavasaṃkṣepa 2.5.1348
- नानार्थार्णवसंक्षेप कलुषीगहने तु त्रिषु ज्ञेयं कलुषं तु नपि ह्यघे । सूक्ष्मैलायां तु कलुषी स्त्री त्रिषु त्वाविलद्रवे ॥ ३३३ ॥ Nānārthārṇavasaṃkṣepa 4.333
- नानार्थार्णवसंक्षेप त्रिपुटाश्वेतासंज्ञलतायां स्यात् त्रिपुटा त्रिपुटीति च । एलायां त्रिपुटैव स्यात् सूक्ष्मायां रभसः पुनः ॥ ८६३ ॥ Nānārthārṇavasaṃkṣepa 4.863
- नानार्थार्णवसंक्षेप ?सूक्ष्मैलायां हरीतक्यां तरुणे त्वभिधेयवत् । व्यलीकस्त्वप्रिये पुंसि स्यादकार्ये च नप् पुनः ॥ १५९३ ॥ Nānārthārṇavasaṃkṣepa 4.1593
- नानार्थार्णवसंक्षेप उपकुश्चिकासूक्ष्मैलायां च कृष्णे च जीरकेऽथोपजिह्विका । जिह्वारोगान्तरे वम्र्यामप्यथो काचमालिका ॥ ३ ॥ Nānārthārṇavasaṃkṣepa 7.3
- शिवकोष वयःस्थावयःस्थामलकीसोमवल्लरीकुण्डलीषु च । सूक्ष्मैलायां च काकोल्यां हरीतक्यां च शाल्मलौ ॥ २१८ ॥ Śivakoṣa 13.2.218
- शिवकोष धारासूक्ष्मैलायां हरिद्रायां गन्धकुट्यां च योषिति । धीरा वीराकुब्जाभिदोर्धीरं पौष्कररक्तयोः ॥ ३८१ ॥ Śivakoṣa 22.2.381
- शब्दरत्नावली त्रुटित्रुटिः स्त्रियां संशयेऽल्पे सूक्ष्मैलकालमानयोः ॥ Śabdaratnāvalī 7.11.18
- शब्दरत्नावली त्रिपुटात्रिकूटं सिन्धुलवणे पुमांस्तु पर्वतान्तरे । त्रिपुटा स्त्री तु सूक्ष्मैला त्रितृतामम्बिकासु च ॥ Śabdaratnāvalī 7.11.44
- शब्दरत्नावली तुत्थागन्थः शास्त्रे धने वर्णसंख्याते ग्रथनेऽपि च । ग्रन्थिर्ना पर्वरुग्भेदग्रन्थिपर्णेषु वल्कले ॥ गाथा श्लोकगेपवृत्तसंस्कृतेतरभाषिते । तीर्थं शास्त्रे कृतौ(?) क्षेत्रे पात्रे नारीरजस्यपि ॥ उपाध्यायोपायमन्त्रितटषिजुष्टजलेष्वपि । तुत्थं क्लीबमञ्जने स्यान्नीलीसूक्ष्मैलयोः स्त्रियाम् ॥ दुःस्थो मूर्खे दुर्गते स्यात्पुंसि दुःखस्थिते त्रिषु । प्रस्थोऽस्त्रियां मितद्रव्ये सानुमानभिदोरपि ॥ Śabdaratnāvalī 7.17.3
- शब्दरत्नावली वयस्थादमथुर्ना दमे दन्ते निशीथो रात्रितद्भिदोः । निर्ग्रन्थो नग्नके निःस्वे मूर्खेऽपि निःसहायके ॥ प्रमथा स्त्री तु पथ्यायां तुरङ्गे पार्षदे पुमान् । वरूथो रथगुप्तौ ना क्लीबन्तु गेहचर्मणोः ॥ मन्मथः कामदेवे स्यात्कामचिन्ताकपित्थयोः । भवेद्वयस्था सूक्ष्मैलाकाकल्यामलकीषु च ॥ Śabdaratnāvalī 7.17.13