कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Śivakoṣa

शिवकोष Śivakoṣa

587 verses · 4,629 words tagged · 786 marked doubtful (dashed)

थान्ताः · थत्रिः

अथाव्यथा हरीतक्यां चारट्यामपि भिक्षुके ।अश्वत्थः पिप्पलप्लक्षवटे क्लीबं प्रजाहिते ॥ २१६ ॥
13.2.216 · p. 20
अनुष्टुप्
कायस्थामलकीछिन्नाप्रमथ्यातुलसीषु च ।गोग्रन्थिर्ना करीषे स्यादपि गोजिह्विकौषधौ ॥ २१७ ॥
13.2.217 · p. 20
अनुष्टुप्
वयःस्थामलकीसोमवल्लरीकुण्डलीषु च ।सूक्ष्मैलायां च काकोल्यां हरीतक्यां च शाल्मलौ ॥ २१८ ॥
13.2.218 · p. 20
अनुष्टुप्
षड्ग्रन्था तु वचाशट्योः षड्ग्रन्थः करजान्तरे ।
13.2.4 · p. 21