कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

शाला

śālāस्त्री · fem.

In 16 kośas: 28 synonym verses, 9 as a nānārtha head word, 4 as a meaning of another word.

अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य पृथ्वीकायः Abhidhānacintāmaṇi 4.1.79 · p. 39
गेहभूर्वास्तु गेहे तु गृहं वेश्म निकेतनम् ॥ ९८९ ॥मन्दिरं सदनं सद्म निकाय्यो भवनं कुटः ।आलयो निलयः शाला सभोदवसितं कुलम् ॥ ९९० ॥धिष्ण्यमावसथं स्थानं पस्त्यं संस्त्याय आश्रयः ।ओको निवास आवासो वसतिः शरणं क्षयः ॥ ९९१ ॥धामागारं निशान्तं च कुट्टिमं त्वस्य बद्धभूः ।
अनुष्टुप्
genderस्त्रीfem.
अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य वनस्पतिकायः Abhidhānacintāmaṇi 4.5.1119 · p. 44
साला शाला स्कन्धशाखा स्कन्धः प्रकाण्डमस्तके ॥ १११९ ॥
अनुष्टुप्metre not read in every line
genderस्त्रीfem.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह पुरवर्गः Amarakośa 2.2.6
वासः कुटी द्वयोः शाला सभा सञ्जवनं त्विदम् ।चतुःशालं मुनीनां तु पर्णशालोटजोऽस्त्रियाम् ॥ ६ ॥
अनुष्टुप्
genderस्त्रीfem.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह वनौषधिवर्गः Amarakośa 2.4.19
genderस्त्रीfem.
हलायुधकोशः (अभिधानरत्नमाला) Abhidhānaratnamālā (Halāyudha) · हलायुध भूमिकाण्डम् Abhidhānaratnamālā (Halāyudha) 2.182 · p. 23
स्कन्धादधः प्रकाण्डः स्यात्प्रघाणः स्कन्ध उच्यते ।स्कन्धशाखा तु शाला स्यान्निष्कुटः कोटरः स्मृतः ॥ १८२ ॥
अनुष्टुप्
genderस्त्रीfem.
हलायुधकोशः (अभिधानरत्नमाला) Abhidhānaratnamālā (Halāyudha) · हलायुध भूमिकाण्डम् Abhidhānaratnamālā (Halāyudha) 2.291 · p. 35
आवासावसथं गृहं च भवनं स्थानं निशान्तं कुलं,संस्त्यायो निलयो निकाय्यमुटजं गेहं कुटं मन्दिरम् ।धिष्ण्यं धाम निकेतनं च सदनं पस्त्यं च वास्तु क्षयःशाला वेश्म निवेशनोदवसिते प्रोक्ते च सद्मौकसी ॥ २९१ ॥
शार्दूलविक्रीडितम्
genderस्त्रीfem.
कल्पद्रुकोशः Kalpadrukośa · केशव पूःप्रकाण्डः Kalpadrukośa 1.3.36 · p. 12
शिविरं विशयं पस्त्यमोको वस्त्यमिमानि षण् ।शाला सभा च वसतिर्वसती च स्त्रियामिमाः ॥ ३६ ॥
अनुष्टुप्
genderस्त्रीfem.
कल्पद्रुकोशः Kalpadrukośa · केशव पूःप्रकाण्डः Kalpadrukośa 1.3.44 · p. 13
विपुलं सर्वतोलिन्दसंयुक्तं विजयं मतम् ।हीनस्तम्भमलिन्दं स्याच्छाला स्तम्भैः समावृता ॥ ४४ ॥
अनुष्टुप्
genderस्त्रीfem.doubtful
कल्पद्रुकोशः Kalpadrukośa · केशव वैश्यादिप्रकाण्डः Kalpadrukośa 1.7.95 · p. 143
कण्डोलः पिटकः पुंसि स्त्री शाला सूदपाकयोः ।स्त्रियां रसवती तत्राध्यक्षः पौरोगवस्त्रिषु ॥ ९५ ॥
अनुष्टुप्
genderस्त्रीfem.
कल्पद्रुकोशः Kalpadrukośa · केशव वनौषधिप्रकाण्डः Kalpadrukośa 1.11.22 · p. 251
समे शाखालते स्कन्धशाखाशाले शिफाजटे ।अर्वाग्भागोऽस्य बुध्नः स्यान्नितम्बः स पृथुः पुनः ॥ २२ ॥
अनुष्टुप्
genderस्त्रीfem.
कल्पद्रुकोशः Kalpadrukośa · केशव स्त्र्यादिलिङ्गप्रकाण्डः Kalpadrukośa 3.5.29 · p. 464
genderस्त्रीfem.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ पुरवर्गः Koṣakalpataru 2.1.33 · p. 122
कुटिर्द्वयोः पुंसि न मन्दिरा स्यात्स्त्रियां न गेहं भवनं च वास्तु ।स्थानं च धानं वसतिश्च शालासभा निशान्तं च निकेतनं च ॥ ३३ ॥
उपजातिः
genderस्त्रीfem.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ वनौषधिवर्गः Koṣakalpataru 2.3.24 · p. 136
पूर्वोऽर्थो बलिशं(?)स्युस्तु शिखा-शाखा-लताः स्त्रियः ।अस्त्री स्याद्विटपश्चाथ शाख्यं शाखेव यत्त्रिषु ॥वातावर्जितशाखायां भवेद्योषिद्वकेरुका ।शाला साला स्कन्धशाखाथाशाखं मूलतस्तरोः ॥ २४ ॥
अनुष्टुप्
genderस्त्रीfem.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ स्त्रीलिङ्गाधिकारः Koṣakalpataru 4.2.71 · p. 103
genderस्त्रीfem.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ स्त्रीनपुंसकलिङ्गाधिकारः Koṣakalpataru 4.6.78 · p. 116
पञ्चतक्षी पञ्चतक्षमर्धान्नावः पुरो हितः ।षष्ठ्यन्तप्राक्पदाः सेनाच्छायाशालासुरा निशाः ॥ ७८ ॥
अनुष्टुप्
genderस्त्रीक्लीf. n.
एषां प्रयोगः पुंसि गदितः कथितः । राशिर्धान्यादीनाम् । पलाण्डुर्लसुनजातिः । कमण्डलुः काष्ठमयं जलपात्रम् । गडुः कुब्जम् । तूलः कार्पासादेः । मुहूर्त्तो द्वादशात्मकः । परशुर्वृक्षभेदी । शङ्कुः चिह्नं किलश्च । दृतिश्चर्म । अयं सीधुः सुरा । अयं कङ्कटो हस्तिकवचम् ।शालामालादोलावेलाफेलाशिलातुलालीला-सेनापालिबलिदद्रुवागुराश्च स्त्रियामुदिताः ॥ ३६ ॥
metre not recognised
genderस्त्रीfem.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास तृतीयः परिच्छेदः Paramānandīyanāmamālā 3.31 · p. 55
शालापि कथिता तत्र प्रकाण्डं स्कन्धमस्तके ।गण्डिः शाखावधिर्मूलात्प्रकाण्डोऽथ शिफाजटे ॥ ३१ ॥
अनुष्टुप्
genderस्त्रीfem.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास स्त्रीलिङ्गसंग्रहः Paramānandīyanāmamālā 6.2.56 · p. 217
उपला मेखला शाला खट्वा [कला?] दिशा शिवा ।रसाला सिध्मला शेषा स्नसा मूषा सुवर्चला ॥ ५६ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 क (wrong syllable)
genderस्त्रीfem.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास स्त्रीलिङ्गसंग्रहः Paramānandīyanāmamālā 6.2.58 · p. 217
genderस्त्रीfem.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि पृथ्वीकायनामानि Suśīlanāmamālā 5.1.1699 · p. 273
ओकश्च धाम धामञ्च शाला कुलं तथा कुटः ।नामान्येतानि कथ्यन्ते गृहस्य साक्षरैः किल ॥ १६९९ ॥
metre not recognisednearly अनुष्टुप्: pāda 2, syllable 3 कु (wrong syllable); pāda 4, syllable 3 स्य (wrong syllable)
genderस्त्रीfem.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि वनस्पतिकायनामानि Suśīlanāmamālā 5.5.1965 · p. 324
शाखा शिखा लता नाम वृक्षाङ्गे च लघौ स्मृतम् ।शाला साला स्कन्धशाखा बृहद्भागस्तरोर्भवेत् ॥ १९६५ ॥
अनुष्टुप्
genderस्त्रीfem.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश पुरवर्गप्रकाशः Śabdaratnāvalī 3.2.14 · p. 50
संजीवनं संजवनं शाला निलय इत्यपि ।चतुःशालं चतुःशालो चतुः शालकमित्यपि ॥
अनुष्टुप्
genderस्त्रीfem.
शब्दरत्नाकर Śabdaratnākara · वाचनाचार्यश्रीसाधुसुन्दरगणि चतुर्थः काण्डः Śabdaratnākara 4.127 · p. 228
प्ररोहे रोहेऽप्यङ्कुराङ्कुरौ शाखा शिखा लता ।स्कन्धशाखा शाला साला जटा जटिः शिफा शिफः ॥ १२७ ॥
metre not recognised
genderस्त्रीfem.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण वनाध्यायः Śabdaratnākara 2.3.445 · p. 59
परुः पर्व पुमान् ग्रन्थिर्विस्तारो विटपोऽस्त्रियाम् ।शाखालता स्कन्धशाखा शाला तुल्ये शिफाजटे ।अवरोहस्तु सा शाखा या मूलादग्रमाश्रिता ॥ ४४५ ॥
अनुष्टुप्
genderस्त्रीfem.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण पुराध्यायः Śabdaratnākara 2.6.843 · p. 106
गृहाः पुंभूम्नि संस्त्यायो निकाय्यो निलयालयौ ।क्षयो वासः कूटमस्त्री शालाथ मुनिवेश्मनि ॥ ८४३ ॥
अनुष्टुप्
genderस्त्रीfem.
शब्दार्णव Śabdārṇava · वाचस्पति Śabdārṇava 87 · p. 536
गेहमस्त्री शालासभे स्त्रियाम् ॥ ८७ ॥
genderस्त्रीfem.
वैजयन्ती Vaijayantī · यादवप्रकाश वनाध्यायः Vaijayantī 3.3.15 · p. 46
स्कन्धः प्रघाणोऽथ शिखा शाखाथ शिखरं शिरः ।स्कन्धशाखा तु शाला स्यात् प्रवालः पल्लवांकुरः ॥ १५ ॥
अनुष्टुप्
genderस्त्रीfem.
वैजयन्ती Vaijayantī · यादवप्रकाश वैश्याध्यायः Vaijayantī 3.8.88 · p. 130
कोरांगी नन्दिनी शाला कलुषी संयतापि च ।काश्मीरं पौष्करे मूले पद्मपत्रं च पुष्करम् ॥ ८८ ॥
अनुष्टुप्
genderस्त्रीfem.
धरणिकोश Dharaṇikośa · धरणिदास लार्धश्लोकः Dharaṇikośa 27.2.12 · p. 192
शालः सर्जतरौ मत्स्ये शाला स्कन्धलता कुटी ।व्यालः स्याच्छ्वापदे क्रोधे भुजगे दुष्टदन्तिनि ॥
अनुष्टुप्
कोषकल्पतरु Koṣakalpataru · विश्वनाथ लान्ताः Koṣakalpataru 6.28.58 · p. 339
शङ्कुद्रुमे स्याद्वरणेऽथ शालःसर्जद्रुमे हालनृपे च मत्स्ये ।स कीर्तितः स्त्री च गृहे गृहैक-देशे तरुस्कन्धकशाखयोश्च ॥ ५८ ॥
उपजातिः
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् नानालिङ्गाध्यायः Nānārthārṇavasaṃkṣepa 2.5.1347 · p. 157
गृह्यकारस्य शादाभिरित्युक्तेश्चिन्त्यतां गतिः ।शाला तु गेहे गेहैकदेशे तु स्त्री तरोस्तथा ॥ १३४७ ॥
अनुष्टुप्
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् नानालिङ्गाध्यायः Nānārthārṇavasaṃkṣepa 2.5.1348 · p. 158
स्कन्धसञ्जातशाखायां सूक्ष्मैलायां च ना पुनः ।पत्तूरे गमने त्रिस्तु गन्तरि श्वालवाक् तु ना ॥ १३४८ ॥
अनुष्टुप्
doubtful
शब्दरत्नावली Śabdaratnāvalī · मथुरेश लान्ताः Śabdaratnāvalī 7.28.35 · p. 279
बिलं छिद्रे गुडायाञ्च पुमानुच्चैश्रवोहये ।शलो भृङ्गिक्षेत्रभिदोः शलले च विधातरि ॥शाला वृक्षस्कन्धशाखागृहैकदेशवेश्मसु ।शालः स्यान्मत्स्यभेदेऽपि नवभेदेऽपि कुत्रचित् ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 क (wrong syllable)
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण अनेकार्थाधिकाराध्यायः Śabdaratnākara 4.1.2017 · p. 245
शुचिर्मासे जातवेदस्युपधाशुद्धमन्त्रिणि ।त्रिषु शुद्धे सिते शाला मन्दिरस्कन्धशाखयोः ॥ २०१७ ॥
अनुष्टुप्
त्रिकाण्डशेष Trikāṇḍaśeṣa · पुरुषोत्तमदेव नानार्थवर्गः Trikāṇḍaśeṣa 3.3.407 · p. 236
बिम्बे देशे ना च शुनि रसालत्विक्षुचूतयोः ।जिह्वाकमलयोर्लाला शाला स्याद्गृहशाखयोः ॥ ४०७ ॥
अनुष्टुप्
त्रिकाण्डशेष Trikāṇḍaśeṣa · पुरुषोत्तमदेव नानार्थवर्गः Trikāṇḍaśeṣa 3.3.408 · p. 236
तरुजातौ मत्स्यभेदे शालो हाले नृपेऽपि च ।निगडे पुंकटीबद्धवस्त्रे च शृङ्खलं त्रिषु ॥ ४०८ ॥
metre not recognisednearly अनुष्टुप्: pāda 4, syllable 3 च (wrong syllable)
वैजयन्ती Vaijayantī · यादवप्रकाश स्त्रीलिङ्गाध्यायः Vaijayantī 6.2.37 · p. 223
वृद्धिः सुखेऽपि जंघापि वारुः शुक्तिस्तु दृग्रुजि ।अश्वावर्ते च शाला तु गृहांगस्कन्धशाखयोः ॥ ३७ ॥
अनुष्टुप्

शाला as a meaning in nānārtha verses