त्रुटि
truṭiस्त्री · fem.In 17 kośas: 22 synonym verses, 9 as a nānārtha head word, 4 as a meaning of another word.
त्रुटौ मात्रा लवो लेशः कणो ह्रस्वं पुनर्लघु ॥ १४२७ ॥
अनुष्टुप्
genderस्त्रीfem.
सूक्ष्मोपकुञ्चिका तुत्था कोरङ्गी त्रिपुटा त्रुटिः ॥ १२५ ॥
अनुष्टुप्
genderस्त्रीfem.
स्तोकाल्पक्षुल्लकाः सूक्ष्मं श्लक्ष्णं दभ्रं कृशं तनु ॥ ६१ ॥स्त्रियां मात्रा त्रुटिः पुंसि लवलेशकणाणवः ।
अनुष्टुप्
genderस्त्रीfem.
सूक्ष्मलेशलवश्लक्ष्णक्षुद्रदभ्रकणाणवः ।किञ्चिन्मात्रतनुस्तोकह्रस्वाल्पत्रुटयः समाः ॥ ६८८ ॥
अनुष्टुप्
genderस्त्रीfem.
धूमजाः शिखिनो ब्रह्मपुत्राः श्रीमन्त आहिकाः ।कालोsनेहा च दिष्टश्च सूक्ष्मस्त्रितुटीस्तुटीः ॥ ५० ॥
अनुष्टुप्metre not read in every lineLatin letters: s
genderस्त्रीfem.doubtful
समौ निष्ठेव निष्ठीव सेवनं सीवनं भवेत् ।त्रुटिस्त्रुटी स्याद्बहुलं बहु स्यात् पुरुहं पुरु ॥ २५६ ॥
अनुष्टुप्
genderस्त्रीfem.
गन्धमूलस्तीक्ष्णमूलोऽथैला तु लवली हिमा ।निःकुटी निःकुटिरपि द्राविड्यल्पा त्रुटी त्रुटिः ॥ ३५८ ॥
अनुष्टुप्
genderस्त्रीfem.
सूक्ष्मं श्लक्ष्णं कृशं दभ्रमथ मात्रा स्त्रियां त्रुटिः ।लवलेशकणाः पुंसि स्यादत्यल्पेप्यणुः कणाः ॥ ११७ ॥
अनुष्टुप्
genderस्त्रीfem.
कायस्था द्राविडी चैन्द्री पुटिका चर्मसंभवा ।त्रुटिस्तुटिः स्त्रियां चाथ त्वक्पत्रैलं त्रिजातकम् ॥ ८४ ॥
अनुष्टुप्
genderस्त्रीfem.
त्रुटिस्तुटिश्च मात्रा स्त्री ह्रस्वं तु लघु संस्मृतम् ।अत्यल्पेऽल्पिष्ठमल्पीयः कनीयोऽणीय इत्यपि ॥ ७८ ॥
अनुष्टुप्
genderस्त्रीfem.
मूर्द्धन् उक्षन् तक्षन् मज्जन् श्लेष्मन् आत्मन् अश्मन् युवन् पूषन् इत्येतैः शब्दै रहितं वर्जितं यदन्यत् द्व्यच्कं द्विस्व[श्व]रं च नान्तं प्रातिपदिकं तत्सर्वं नपुंसकं भवति । यथा इदं चर्म वर्म शर्म भस्म सद्म लोम इत्येवमादयः । मूर्द्धादयोऽपि नान्तत्वात् द्व्यच्का अतस्तेषामपि नपुंसकता प्राप्नोति । तदर्थमिति प्रतिषेधः कृतः मूर्द्धोऽक्षतक्षेत्यादि पुंल्लिङ्गाधिकारात्पुंसि भवन्ति । यथा अयं मूर्द्धा शिरः । उक्षा वृषभः । मज्जा सारः । तक्षा वर्द्धकिः । श्लेष्मा धातुविकारः । आत्मा शरीरस्थः । अश्मा नीलः । युवा तरुणः । पूषादित्यः पुंसि वा भवेद्ब्रह्मेति । द्वच्कत्वान्नान्तत्वाच्च ब्रह्मशब्दस्य नपुंसकत्वे प्राप्ते पुंस्त्वं वा विधीयते ब्रह्मशब्दो वा नपुंसकलिङ्गो भवति । इदं ब्रह्मा वेदाध्ययनमीश्वरश्च । अयं ब्रह्मा प्रजापतिः । यद्येवं यत् द्व्यच्कं नान्तं तन्नपुंसकम् । एवं सति राजन् शब्दस्यापि नपुंसकता स्यात् पुंस्यन्तर्भावो द्रष्टव्यः ।त्रुटिसीमसन्ध्यारात्रयः स्त्रियां धूलिवेणिखार्यश्च ।पुंसि निशीथो ज्योत्स्नादयाशलाका स्त्रियां नित्यम् ॥ २० ॥
metre not recognised
genderस्त्रीfem.
एते शब्दाः स्त्रियां भवन्ति । इयं त्रुटिः स्वल्पः । इयं सीमा ग्राममर्यादा । इयं सन्ध्या दिनावसानम् । इयं रात्रिः शर्वरी । इयं धूलिः पांसुः । इयं वेणी केशरचना । इयं खारी परिमाणविशेषः । निशीथशब्दः पुंसि भवति । अयं निशीथोऽर्धरात्रः । ज्योत्स्नादयाशलाकाः स्त्रियां भवन्ति । इयं ज्योत्स्ना चन्द्रप्रभा । इयं दया करुणा । इयं शलाका लोहधमनी । नित्यग्रहणं विभाषानिवृत्त्यर्थम् ।पुंयोगे कर्णहनू नपुंसके श्मश्रुजानुगुदशब्दाः ।एकाभिधानता स्यादस्राश्रुणोर्नित्यम् ॥ २१ ॥
metre not recognised
genderस्त्रीfem.
सूक्ष्मैला बहुला तुत्था द्रविडी त्रुटिरित्यपि ।चाम्पेयं नागपुष्पं तु केसरं नागकेसरम् ॥ ९९ ॥
अनुष्टुप्
genderस्त्रीfem.
वर्तिः कुटिस्त्रुटिर्भल्लदंशगण्डूषलालसाः ।रत्न्यरत्नी अणिः श्रेणिरूर्मिशम्यौ मषी मसी ॥ ११३ ॥
अनुष्टुप्
genderपुंस्त्रीm. f.
कणो मात्रा लवो लेशस्त्रुटी त्रुटिर्निगद्यते ॥ २५९५ ॥
metre not recognised
genderस्त्रीfem.
पृथ्वीका निष्कुटी चन्द्रा चन्द्रिका वालिकेत्यपि ।सैव सूक्ष्मा यदि भवेत् कोरङ्गी च त्रुटिः त्रुटी ॥
अनुष्टुप्
genderस्त्रीfem.
अब्धिद्रोणीरसाला श्रुतिविरतिगुहाशुक्तिमुक्तावडभ्यः ।आदौ भूम्निस्थलीज्यानियतितरलिकावेदिभित्तिश्रुचोपि ।वल्यवल्लीविदारीत्रुटिधमनिशिखामल्लिकायूषिकात्वक् ।दृष्टिजिह्वाऽटवीद्राः सनिविकृतिकणादेहलीमृत्तिकाश्च ॥
स्रग्धराmetre not read in every line
द्रोणीस्त्रीरसालास्त्रीश्रुतिस्त्रीविरतिस्त्रीगुहास्त्रीशुक्तिस्त्रीमुक्तास्त्रीवडभीस्त्रीस्थलीस्त्रीज्यास्त्रीनियतिस्त्रीतरलिकास्त्रीवेदिस्त्रीभित्तिस्त्रीश्रुच्स्त्रीवलीस्त्रीवल्लीस्त्रीविदारीस्त्रीत्रुटिस्त्रीधमनिस्त्रीशिखास्त्रीमल्लिकास्त्रीयूषिकास्त्रीत्वच्स्त्रीदृष्टिस्त्रीजिह्वास्त्रीअटवीस्त्रीविकृतिस्त्रीकणास्त्रीदेहलीस्त्रीमृत्तिकास्त्री
genderस्त्रीfem.
द्वितयं, प्रचुरे भूयो भूयिष्ठं पुरुहं पुरु ।बहुलं बहु बहूलम्, लेशे त्रुटि-तुटी समौ ॥ ३२ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 ब (wrong syllable)
genderस्त्रीfem.
कालस्तु समयोऽनेहा दिष्टः सूक्ष्मस्तु स त्रुटिः ।अष्टौ तु ता निमेषस्तौ लिप्तिका स्यादमूर्नव ॥ २३० ॥
अनुष्टुप्
genderस्त्रीfem.
त्रुटिर्मात्रा स्त्रियौ पुंसि कणलेशलवाणवः ।शून्यं तु वशिकं तुच्छं रिक्तं च विदृढो दृढः ॥ १६७६ ॥
अनुष्टुप्
genderस्त्रीfem.
कालोऽनेहा च दिष्टश्च स सूक्ष्मः स्त्री तुटिस्त्रुटिः ।द्वे तुटी लघ्वक्षरकस्तौ द्वावक्षरपातकः ॥ ५२ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 घ्व (wrong syllable)
genderस्त्रीfem.
निष्कुट्यां चन्द्रबालैला पृथ्विका त्रिदिवात्र तु ।सूक्ष्मायां त्रिपुटा कुन्तिस्त्रुटिस्तुत्थोपकुंचिका ॥ ८७ ॥
अनुष्टुप्
genderस्त्रीfem.
सूक्ष्मैलायां त्रुटिः स्त्री स्यात्कालेऽल्पे संशयेऽपि सा ॥ ३७ ॥
अनुष्टुप्
वाटो मार्गे वृतौ वाटो वृक्षे च गृहवास्तुनि ।त्रुटिः स्यात्संशये चाल्पे सूक्ष्मैलाकालमानयोः ॥
अनुष्टुप्
सूक्ष्मैलायां कालमाने च लेशेसंदेहे च स्यात्त्रुटिः स्त्री तु खाटिः ।निन्द्यागारे स्यात्किणे प्रेतयाने ।पोटा तु स्त्रीपुंसलिङ्गा च दासी ॥ २३ ॥
शालिनी
तुण्डीरास्ये शूननाभौ त्रुटिः संशयलेशयोः ।सूक्ष्मैलायामर्धमात्राकालेऽपीत्यपरेऽपठन् ॥ ४५ ॥
अनुष्टुप्
कालमानेऽपि रज्जौ स्यात्ततं विपुलवाद्ययोः ।तरो वेगे बले तार्क्ष्यः सूरसूते खगेश्वरे ॥ २२५ ॥
अनुष्टुप्
doubtful
त्रुटिः स्त्रियां संशयेऽल्पे सूक्ष्मैलकालमानयोः ॥
त्रुटि as a meaning in nānārtha verses
- कोषकल्पतरु फल्गुवल्गुस्तु पुंसि च्छगले मनोज्ञे त्वन्योपमः फल्गुरियं मलप्वाम् । त्रुट्यां स मासेऽथ वटेऽपि शुङ्गी चाम्रातके पुंसि कपीतने च ॥ ८ ॥ Koṣakalpataru 6.3.8
- कोषकल्पतरु त्रिपुटावसनादिना विशुद्धे संसृष्टं संगते च स्यात् । अवटुस्त्ववटे कूपे कृकाटिकायां परीष्टिस्तु । परिचर्यामार्गणयोः प्राकाम्येऽन्वेषणे च स्त्री । गन्धोल्यामपि हंस्यां वरटा त्रिपुटा त्रुटित्रिवृतोः ॥ ४० ॥ Koṣakalpataru 6.10.40
- शिवकोष द्राविडद्राविडमिति बिडलवणे स्त्रियां त्रुटौ ना तु कर्चूरे । निर्गुण्डीन्द्रसुरायां करहाटे सिन्दुके च शेफाल्याम् ॥ १५१ ॥ Śivakoṣa 10.2.151
- शब्दरत्नावली बालाबालः केशे शिशौ मूर्खे वालधौ वालमौषधौ । बालाऽलङ्कारभेदे स्याद्योषिति स्त्रीत्रुटावपि ॥ Śabdaratnāvalī 7.28.28