कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

स्नातक

snātakaपुं · masc.

In 11 kośas: 10 synonym verses, 2 as a nānārtha head word, 4 as a meaning of another word.

अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य मर्त्यकाण्डः Abhidhānacintāmaṇi 3.808 · p. 33
ज्येष्ठाश्रमी गृहमेधी गृहस्थः स्नातको गृही ॥ ८०८ ॥
अनुष्टुप्metre not read in every line
genderपुंmasc.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह ब्रह्मवर्गः Amarakośa 2.7.78
ऋषयः सत्यवचसः स्नातकस्त्वाप्लुतो व्रती ।
अनुष्टुप्
genderपुंmasc.
हलायुधकोशः (अभिधानरत्नमाला) Abhidhānaratnamālā (Halāyudha) · हलायुध भूमिकाण्डम् Abhidhānaratnamālā (Halāyudha) 2.394 · p. 46
ब्रह्मचारी भवेद्वर्णी गृहस्थः स्नातकस्तथा ।वैखानसो वानप्रस्थः कर्मसंन्यासिको यतिः ॥ ३९४ ॥
अनुष्टुप्
genderपुंmasc.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ वनौषधिवर्गः Koṣakalpataru 2.3.27 · p. 234
समावृत्तः स्नातकस्तु यो भवेदाप्लुतो व्रती ।गर्भाधानादिसंस्कारैर्युक्तोऽसौ संस्कृतस्त्रिषु ।अभावात्स्त्रीपरित्यागस्तुरगब्रह्मचर्यकम् ॥ २७ ॥
अनुष्टुप्metre not read in every line
genderपुंmasc.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास चतुर्थः परिच्छेदः Paramānandīyanāmamālā 4.402 · p. 152
आश्रमाः स्युश्चतुःसंख्या ब्रह्मचारी तु वर्णिनि ।गृहस्थो गृहमेधी तु गृही स्नातक इत्यपि ॥ ४०२ ॥
अनुष्टुप्
genderपुंmasc.
शारदीयाख्यनाममाला Śāradīyākhyanāmamālā · हर्षकीर्ति ब्रह्मवर्गः Śāradīyākhyanāmamālā 3.1.2 · p. 34
ब्रह्मचारी तु वर्णी स्याद्गृहस्थः स्नातको गृही ।वैखानसो वानप्रस्थो भिक्षुः सांन्यासिको यतिः ॥ २ ॥
अनुष्टुप्
genderपुंmasc.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि मर्त्यविभागः Suśīlanāmamālā 4.1345 · p. 213
चत्वार आश्रमाः सन्ति तत्राद्यो ब्रह्मचारिणः ।वर्णी स्याद्गृहमेधी तु गृहस्थः स्नातको गृही ॥ १३४५ ॥
अनुष्टुप्
genderपुंmasc.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश ब्रह्मवर्गप्रकाशः Śabdaratnāvalī 3.6.81 · p. 116
स्नानव्रतसमायुक्ते स्नातकश्चाप्लुतः व्रती ॥
genderपुंmasc.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण ब्रह्माध्यायः Śabdaratnākara 3.2.1195 · p. 147
स्युर्दक्षणीयदक्षिण्यदक्षिणार्हास्त्रयस्त्रिषु ।ब्रह्मचारी व्रती वर्णी स्नातकश्चाप्लुतः समौ ॥ ११९५ ॥
अनुष्टुप्
genderपुंmasc.
वैजयन्ती Vaijayantī · यादवप्रकाश ब्राह्मणाध्यायः Vaijayantī 3.6.40 · p. 86
उपसंग्रहणं पादग्रहणेनाभिवादनम् ।गृहस्थः स्नातकश्चक्री गृहमेधी गृहीति च ॥ ४० ॥
अनुष्टुप्
genderपुंmasc.
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् पुंल्लिङ्गाध्यायः Nānārthārṇavasaṃkṣepa 3.2.244 · p. 32
ज्ञेयो नक्षत्रमालाख्यभूषणे स्नातकः पुनः ।गृहस्थे स्यात् कृतसमावर्तनेऽप्यथ सानसिः ॥ २४४ ॥
अनुष्टुप्
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् चतुरक्षरकाण्डः Nānārthārṇavasaṃkṣepa 6.244 · p. 32
ज्ञेयो नक्षत्रमालाख्यभूषणे स्नातकः पुनः ।गृहस्थे स्यात् कृतसमावर्तनेऽप्यथ सानसिः ॥ २४४ ॥
अनुष्टुप्

स्नातक as a meaning in nānārtha verses