All kośas › Nānārthārṇavasaṃkṣepa
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa
5,800 verses · 33,357 words tagged · 12,179 marked doubtful (dashed)
त्र्यक्षरकाण्डः · पुंल्लिङ्गाध्यायः (3/3)
धनपे शिल्पिभेदे चेत्यजयः सन्निधिः पुनः ।सन्निधाने चेन्द्रियाणां गोचरे सहुरिः पुनः ॥ २४१ ॥
3.2.241 · p. 32
अनुष्टुप्
अन्धकारे च युद्धे च सप्तर्षिस्त्वपि दीधितौ ।सप्तर्षयस्तु स्याच्चित्रशिखण्डिष्वथ कीर्त्यते ॥ २४२ ॥
3.2.242 · p. 32
अनुष्टुप्
स्वाध्यायस्तु भवेद्वेदे वेदस्य च जपे तथा ।स्थासकस्त्वपि चर्चिक्ये बुद्बुदे हस्तिनामपि ॥ २४३ ॥
3.2.243 · p. 32
अनुष्टुप्
ज्ञेयो नक्षत्रमालाख्यभूषणे स्नातकः पुनः ।गृहस्थे स्यात् कृतसमावर्तनेऽप्यथ सानसिः ॥ २४४ ॥
3.2.244 · p. 32
अनुष्टुप्
ऋणे नखे हिरण्येऽथ स्त्रीवासो वामलूरके ।स्त्रीणां वासे सुस्तरस्तु भवेच्छयनमानयोः ॥ २४५ ॥
3.2.245 · p. 32
अनुष्टुप्
सौप्तिकस्तु प्रपाताख्यशत्रुनिग्रहकर्मणि ।तद्वर्णनपरे चापि भवेद्भारतपर्वणि ॥ २४६ ॥
3.2.246 · p. 32
अनुष्टुप्
हर्यश्वस्तु भवेत् पूर्वराजभेदे पुरन्दरे ।हरिद्रुस्तु कलाप्यन्तेवासिनि प्रथमे स्मृतः ॥ २४७ ॥
3.2.247 · p. 32
अनुष्टुप्
तथा दारुहरिद्रायां वृक्षमात्रे तु कश्चन ।हिमारिस्तु रवौ वह्नौ हृच्छ्रयस्त्वपि मन्मथे ॥ २४८ ॥
3.2.248 · p. 32
अनुष्टुप्
कुक्ष्यग्नौ हेरुकस्तु स्यान्महाकालाह्वये गणे ।बुद्धभेदे च रभस इत्यध्यायः समाप्तवान् ॥ २४९ ॥
3.2.249 · p. 32
अनुष्टुप्