कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

रेणुका

reṇukāस्त्री · fem.

In 10 kośas: 10 synonym verses, 4 as a nānārtha head word, 8 as a meaning of another word.

नामलिङ्गानुशासनम् Amarakośa · अमरसिंह वनौषधिवर्गः Amarakośa 2.4.120
ताम्बूलवल्ली तम्बूली नागवल्ल्यप्यथ द्विजा ।हरेणू रेणुका कौन्ती कपिला भस्मगन्धिनी ॥ १२० ॥
अनुष्टुप्
genderस्त्रीfem.
बालप्रबोधिका Bālaprabodhikā · नत्कीर त्रयोदशोपदेशः Bālaprabodhikā 13.279 · p. 91
ऋद्धिस्तु प्राणदासिद्धिलक्ष्मीः सर्वजनप्रिया ।अरेणुकाया … स्यादेलावालुकमैलकम् ॥ २७९ ॥
अनुष्टुप्metre not read in every line
genderस्त्रीfem.
कल्पद्रुकोशः Kalpadrukośa · केशव क्षत्रियप्रकाण्डः Kalpadrukośa 1.6.148 · p. 105
करेणुश्च करेणूश्च रेणुका च करेणुका ।कणेरुश्च गणेरुश्च स्त्रियामथ च तद्भिदः ॥ १४८ ॥
अनुष्टुप्
genderस्त्रीfem.
कल्पद्रुकोशः Kalpadrukośa · केशव वैश्यादिप्रकाण्डः Kalpadrukośa 1.7.363 · p. 173
फलमुख्या गन्धरता विशाला चाथ नन्दिनी ।रेणुका कपिला कान्ता महिला राजपुत्र्यपि ॥ ३६३ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 ग (wrong syllable)
genderस्त्रीfem.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ वनौषधिवर्गः Koṣakalpataru 2.3.92 · p. 167
रेणुका नन्दिनी कान्ता कपिला च हरेणुका ।कपिला स्यात्पाण्डुफली कौन्ती राजसुता द्विजा ॥ ९२ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 त्पा (wrong syllable)
genderस्त्रीfem.
शिवकोष Śivakoṣa · शिवदत्तमिश्र कत्रिः Śivakoṣa 1.3.47 · p. 5
रुवौ लुङ्गे च रुचको रेणुकः शीतवल्लभे ।कौन्त्यां स्त्री रेचकं काकवालुके च मुकूलके ॥ ४७ ॥
अनुष्टुप्
genderस्त्रीfem.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश वनौषधिवर्गप्रकाशः Śabdaratnāvalī 3.4.220 · p. 74
हरेणुः कपिला कौन्ती रेणुका भस्मगन्धिनी ।द्विजा च रेणुकाख्ये तु गन्धद्रव्ये निगद्यते ॥
अनुष्टुप्
genderस्त्रीfem.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश ब्रह्मवर्गप्रकाशः Śabdaratnāvalī 3.6.227 · p. 126
हास्तिकं गजता चेति द्वयं द्विरदसञ्चये ।स्यात् करेणूः करेणुश्च रेणुका च करेणुका ॥
अनुष्टुप्
genderस्त्रीfem.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण वनाध्यायः Śabdaratnākara 2.3.617 · p. 79
वार्ताकी हिङ्गुली सिंही भण्टाकी दुष्प्रधर्षिणी ।हरेणू रेणुका कौन्ती कपिला भस्मगन्धिनी ॥ ६१७ ॥
अनुष्टुप्
genderस्त्रीfem.
वैजयन्ती Vaijayantī · यादवप्रकाश वैश्याध्यायः Vaijayantī 3.8.95 · p. 130
हरेणू रेणुका कौन्ती कपिला भस्मगन्धिनी ।एलावालुकमैलेयं सुगन्धि हरिवालुकम् ॥ ९५ ॥
अनुष्टुप्
genderस्त्रीfem.
धरणिकोश Dharaṇikośa · धरणिदास कार्धश्लोकः Dharaṇikośa 1.2.44 · p. 11
वालिका वालुकायां स्याद्बालायां कर्णभूषणे ।रेणुका जामदग्न्यस्य माता हरेणुरप्यसौ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 ह (wrong syllable)
कोषकल्पतरु Koṣakalpataru · विश्वनाथ कान्ताः Koṣakalpataru 6.1.20 · p. 152
कुमार्यां धेनुकायां च नग्निका नरि वन्दिनि ।हरेणौ पर्शुरामस्य जनन्यामपि रेणुका ॥ २० ॥
अनुष्टुप्
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् स्त्रीलिङ्गाध्यायः Nānārthārṇavasaṃkṣepa 3.1.73 · p. 7
काञ्च्यां च रेणुका तु स्याद्वरेण्याह्वयभेषजे ।जमदग्नेश्च भार्यायामथ स्याद्रेवती गवि ॥ ७३ ॥
अनुष्टुप्
शब्दरत्नावली Śabdaratnāvalī · मथुरेश कान्ताः Śabdaratnāvalī 7.1.133 · p. 184
रेणुकापि हरेणौ स्याद् जमदग्निस्त्रियामपि ।लम्पाको लम्पटो देशे लिम्पाको जम्बिरे खरे ॥
अनुष्टुप्

रेणुका as a meaning in nānārtha verses

  • धरणिकोश हरेणुहरेणुश्च कलापः स्याद्धरेणुश्चापि रेणुका । इन्द्राणी सिन्दुवारे स्याच्छच्यां स्त्रीकरणेऽपि च ॥ Dharaṇikośa 14.2.11
  • कोषकल्पतरु द्विजास्त्री रेणुकागर्दभशाकयोः स्याद् बीजं तु तत्त्वेऽङ्कुरकारणे च । आधानहेत्वोरपि रेतसि स्या- त्संनद्धसम्यग्भृतयोस्तु सञ्जः ॥ २३ ॥ Koṣakalpataru 6.7.23
  • कोषकल्पतरु कपिलशुनि मुनिभिदि वह्नौ पुंसि पिङ्गेऽन्यवत्स्या- त्कपिल इह तु योषिच्छिंशपागोभिदोश्च । अनलदिगिभनार्यां रेणुकायां तथाथ त्रिषु पटलमुशन्ति ह्यूर्ध्वभागे गृहाणाम् ॥ ९९ ॥ Koṣakalpataru 6.28.56
  • शिवकोष हरेणुसुवर्णा जोङ्गके क्लीबं काञ्चने हरिचन्दने । हरेणुः स्त्री रेणुकायां स तु पुंसि सतीनके ॥ १६६ ॥ Śivakoṣa 11.2.166
  • शिवकोष कुन्तीकान्ता प्रियङ्गौ लोहे ना कुन्तः पुंसि गवेधुके । कुन्ती च गन्धवीरायां रेणुकायां पलङ्कषे ॥ १७७ ॥ Śivakoṣa 12.1.177
  • शिवकोष राजपत्नीराजपत्नी रेणुकायां पित्तले राजसर्षपे । वृक्षादनं मधुच्छत्रे क्लीबे पुंसि गजाशने ॥ २७८ ॥ Śivakoṣa 16.2.278
  • शब्दरत्नावली हरणुहरणुर्ना सतीले स्त्री रेणुकायां कुलस्त्रियाम् । हरणं यौतुकद्रव्ये भुजे च हरणेऽपि च ॥ Śabdaratnāvalī 7.15.69
  • शब्दरत्नावली कपिलाकपिला गोदिक्करिणीरेणुकाशिंशपासु च । कमला तु भवेल्लक्ष्म्यां स्त्रियां वरस्त्रियामपि ॥ कपिला गोदिक्करिणीरेणुकाशिंशपासु च । कपिलो मुनिभेदे ना वाच्यभेदे तु वाच्यवत् ॥ Śabdaratnāvalī 7.28.46