कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

हिमवत्

himavatपुं · masc.

In 10 kośas: 12 synonym verses.

अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य पृथ्वीकायः Abhidhānacintāmaṇi 4.1.1027 · p. 40
शैलोऽद्रिः शिखरी शिलोच्चयगिरी गोत्रोऽचलः सानुमा-न्ग्रावः पर्वतभूध्रभूधरधराहार्या नगोऽथोदयः ।पूर्वाद्रिश्चरमाद्रिरस्त उदगद्रिस्त्वद्रिराण्मेनका-प्राणेशो हिमवान्हिमालयहिमप्रस्थौ भवानीगुरुः ॥ १०२७ ॥
शार्दूलविक्रीडितम्
genderपुंmasc.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह शैलवर्गः Amarakośa 2.3.3
हिमवान्निषधो विन्ध्यो माल्यवान्पारियात्रिकः ।गन्धमादनमन्ये च हेमकूटादयो नगाः ॥ ३ ॥
अनुष्टुप्
genderपुंmasc.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ शैलवर्गः Koṣakalpataru 2.2.4 · p. 127
हिमवांश्च हिमप्रस्थो भवानीजनकस्तथा ।हिरण्यनाभो मैनाकः सुनाभश्च तदात्मजाः ॥ ४ ॥
अनुष्टुप्
genderपुंmasc.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ शैलवर्गः Koṣakalpataru 2.2.10 · p. 127
हिमवान्हेमकूटश्च निषधो मेरुरेव च ।चैत्रः शृङ्गी च कर्णी च सप्तैते वर्षपर्वताः ॥ १० ॥
अनुष्टुप्
genderपुंmasc.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ वनौषधिवर्गः Koṣakalpataru 2.3.7 · p. 135
त्रिपुष्करं चार्बुदोऽस्त्री हिमवान्कुरुजाङ्गलम् ।उत्पलावर्तकं चेति नवारणी प्रकीर्तिता ॥ ७ ॥
metre not recognisednearly अनुष्टुप्: pāda 4, syllable 3 र (wrong syllable)
genderपुंmasc.
नाममालिका Nāmamālikā · भोज भूम्यादिनामधेयप्रकरणम् Nāmamālikā 3.31 · p. 11
हिरण्यनाभो मैनाकः सुदारुः पारियात्रिकः ।माल्यवांस्तु प्रस्रवणो हिमवांस्तु हिमालयः ॥ ३१ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 प्र (wrong syllable)
genderपुंmasc.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास द्वितीयः परिच्छेदः Paramānandīyanāmamālā 2.307 · p. 42
हिमालयो हिमप्रस्थो मेनकाप्राणवल्लभः ।भवानीजनकश्चापि हिमवानपि कथ्यते ॥ ३०७ ॥
अनुष्टुप्
genderपुंmasc.
पञ्चतत्त्वप्रकाश Pañcatattvaprakāśa · वेणीदत्त शैलमरीचिः Pañcatattvaprakāśa 1.2.120 · p. 9
निषधो हिमवान् विन्ध्यो माल्यवान् गन्धमादनः ।हेमकूटः पारिभद्रः सप्तैते कुलपर्वताः ॥ १२० ॥
अनुष्टुप्
genderपुंmasc.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि पृथ्वीकायनामानि Suśīlanāmamālā 5.1.1772 · p. 289
हिमवान् मेनकाप्राणेशो भवानीगुरुः पुनः ।नामान्येतानि मन्यन्ते हिमालयस्य पण्डितैः ॥ १७७२ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 ल (wrong syllable)
genderपुंmasc.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश भूमिवर्गप्रकाशः Śabdaratnāvalī 3.1.33 · p. 48
हिमवान् हेमकूटश्च निषधो मेरुरेव च ।चैत्रः कर्णी च शृङ्गी च सप्तैते वर्षपर्वताः ॥
अनुष्टुप्
genderपुंmasc.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण पर्वताध्यायः Śabdaratnākara 2.2.408 · p. 54
हिमवांश्चन्दनशैलो मलयस्त्रिककुत् त्रिकूटगिरिः ।प्रस्रवणमाल्यवन्तौ मन्दरमन्थानभूधरौ च समौ ॥ ४०८ ॥
उद्गीतिः
genderपुंmasc.
वैजयन्ती Vaijayantī · यादवप्रकाश शैलाध्यायः Vaijayantī 3.2.4 · p. 41
हिरण्यनाभो मैनाकः सुदारुः पारियात्रकः ।माल्यवांस्तु प्रस्रवणो हिमवांस्तु हिमाचलः ॥ ४ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 प्र (wrong syllable)
genderपुंmasc.