कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

उदय

udayaपुं · masc.

In 13 kośas: 17 synonym verses, 5 as a nānārtha head word, 7 as a meaning of another word.

अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य देवाधिदेवकाण्डः Abhidhānacintāmaṇi 1.56 · p. 6
भाविन्यां तु पद्मनाभः शूरदेवः सुपार्श्वकः ॥ ५३ ॥स्वयंप्रभश्च सर्वानुभूतिर्देवश्रुतोदयौ ।पेढालः पोट्टिलश्चापि शतकीर्तिश्च सुव्रतः ॥ ५४ ॥अममो निष्कषायश्च निष्पुलाकोऽथ निर्ममः ।चित्रगुप्तः समाधिश्च संवरश्च यशोधरः ॥ ५५ ॥विजयो मल्लदेवौ चानन्तवीर्यश्च भद्रकृत् ।एवं सर्वावसर्पिण्युत्सर्पिणीषु जिनोत्तमाः ॥ ५६ ॥
metre not recognised
genderपुंmasc.
अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य पृथ्वीकायः Abhidhānacintāmaṇi 4.1.1027 · p. 40
शैलोऽद्रिः शिखरी शिलोच्चयगिरी गोत्रोऽचलः सानुमा-न्ग्रावः पर्वतभूध्रभूधरधराहार्या नगोऽथोदयः ।पूर्वाद्रिश्चरमाद्रिरस्त उदगद्रिस्त्वद्रिराण्मेनका-प्राणेशो हिमवान्हिमालयहिमप्रस्थौ भवानीगुरुः ॥ १०२७ ॥
शार्दूलविक्रीडितम्
genderपुंmasc.
अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य सामान्यकाण्डः Abhidhānacintāmaṇi 6.1431 · p. 54
दैर्घ्यमायाम आनाह आरोहस्तु समुच्छ्रयः ।उत्सेध उदयोच्छ्रायौ परिणाहो विशालता ॥ १४३१ ॥
अनुष्टुप्
genderपुंmasc.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह शैलवर्गः Amarakośa 2.3.2
अस्तस्तु चरमक्ष्माभृदुदयः पूर्वपर्वतः ॥ २ ॥
अनुष्टुप्
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव क्षत्रियप्रकाण्डः Kalpadrukośa 1.6.109 · p. 101
उदयश्च त्रिवर्गश्च शान्ति स्त्री स्याद्दमो नरि ।मन्त्री पुरोधाः सेनानीर्द्वास्थोन्तर्वेशिकस्तथा ॥ १०९ ॥
अनुष्टुप्
genderपुंmasc.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ शैलवर्गः Koṣakalpataru 2.2.3 · p. 127
अविर्बलाहकोऽथोपगिरं स्यादुपगिर्यपि ।उदयः पूर्वशैलः स्यादस्ताद्रिश्चाञ्जनागिरिः ।उदगद्रिश्चाद्रिराजो मेनकेशो हिमालयः ॥ ३ ॥
अनुष्टुप्metre not read in every line
genderपुंmasc.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ वनौषधिवर्गः Koṣakalpataru 2.3.30 · p. 136
दैर्घ्यमायाम आनाह आरोहस्तु समुच्छ्रयः ।उत्सेधोऽस्त्री समुच्छ्राय उदयस्तूच्छ्रयः * * ।अल्पारोहपरीणाहा वृक्षाद्याः स्युर्निघा इति ।दारु न स्त्री काष्ठमन्त्ये दलिरु(कं?) चाथ दीप्तिकृत् ॥ ३० ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 रु (wrong syllable)
genderपुंmasc.
नाममालिका Nāmamālikā · भोज भूम्यादिनामधेयप्रकरणम् Nāmamālikā 3.33 · p. 12
उदयः प्रातरद्रिः स्यात्पराद्रिः पश्चिमाचलः ।गैरिकं पीतधातुः स्यात्कुनटी तु मनःशिला ॥ ३३ ॥
अनुष्टुप्
genderपुंmasc.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास द्वितीयः परिच्छेदः Paramānandīyanāmamālā 2.305 · p. 42
नगोऽहार्यः सानुमांश्च शैलो ग्रावा शिलोच्चयः ।धरो गिरिः पूर्वशैलेऽथोदयः परिकीर्तितः ॥ ३०५ ॥
अनुष्टुप्
genderपुंmasc.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास तृतीयः परिच्छेदः Paramānandīyanāmamālā 3.321 · p. 92
आरोह उदयोच्छ्रायौ समासः संग्रहः समः ।संक्षेपश्च समाहारो व्यासाभोगौ तु विस्तरे ॥ ३२१ ॥
अनुष्टुप्
genderपुंmasc.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि देवाधिदेवविभागः Suśīlanāmamālā 2.45 · p. 7
देवश्रुतोदयौ देवौ पेढालः पोट्टिलस्तथा ।जिनेशः शतकीर्तिश्च श्रीसुव्रतो जिनोऽममः ॥ ४५ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 व्र (wrong syllable)
genderपुंmasc.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि पृथ्वीकायनामानि Suśīlanāmamālā 5.1.1770 · p. 289
अथोदयश्च पूर्वाद्रिश्चोदयाचल उच्यते ॥ १७७० ॥
अनुष्टुप्
genderपुंmasc.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि सामान्यविभागः Suśīlanāmamālā 7.148 · p. 419
उच्छ्राय उदयो नाम उच्चतायां प्रयुज्यते ।
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 7 ल (wrong syllable)
genderपुंmasc.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण पर्वताध्यायः Śabdaratnākara 2.2.407 · p. 54
रजतगिरिः कैलासः शंकरगिरिरेकपिङ्गशैलश्च ।उदयः पूर्वगिरिः स्यादस्तश्चरमाद्रिरद्रिराजस्तु ॥ ४०७ ॥
गीतिः
genderपुंmasc.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण क्षत्रियाध्यायः Śabdaratnākara 3.3.1298 · p. 158
क्षुद्रोपकरणेषु स्यादध्यक्षः पारिकार्मिकः ।धर्मी तु धार्मिकोऽध्यक्ष उभावायोदयौ समौ ॥ १२९८ ॥
अनुष्टुप्
genderपुंmasc.
वैजयन्ती Vaijayantī · यादवप्रकाश शैलाध्यायः Vaijayantī 3.2.6 · p. 41
उदयस्तूदयाद्रिः स्यादस्तस्त्वस्तमयाचलः ।दरी गुहा कन्दरोऽक्ली प्रपातस्तु तटो भृगुः ॥ ६ ॥
अनुष्टुप्
genderपुंmasc.
वैजयन्ती Vaijayantī · यादवप्रकाश क्षत्रियाध्यायः Vaijayantī 3.7.44 · p. 107
कोशोऽर्थसंचयो राज्ञां भाण्डान्यर्था हि कोशगाः ।आयोदयौ धनोत्पत्तौ तत्क्षयेऽपचितिर्व्ययः ॥ ४४ ॥
अनुष्टुप्
genderपुंmasc.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ यान्ताः Koṣakalpataru 6.26.60 · p. 295
अभयं नलदे हरीतकी-विषये स्त्री परवत्तु निर्भये ।हृदयं मनसां ह (?) वक्षसिप्रथमाद्रावुदयस्तथोन्नतौ ॥ ६० ॥
वियोगिनी
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् पुंल्लिङ्गाध्यायः Nānārthārṇavasaṃkṣepa 3.2.53 · p. 15
रभसस्त्वाह मदनकण्टके शब्दवित्तमः ।उदयस्तूदयाद्रौ स्याद् धनोत्पत्तौ तथोद्गमे ॥ ५३ ॥
अनुष्टुप्
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् पुंल्लिङ्गाध्यायः Nānārthārṇavasaṃkṣepa 3.2.54 · p. 15
उन्नतो चाह रभस उपरिस्थेऽप्यधीयते ।उच्चयो वस्त्रनीव्यां स्याद्धस्तादाने च चोर्यत ॥ ५४ ॥
अनुष्टुप्
doubtful
शब्दरत्नावली Śabdaratnāvalī · मथुरेश यान्ताः Śabdaratnāvalī 7.26.38 · p. 260
अनयो व्यसने दैवे विपत्त्यशुभयोरपि ॥अत्ययोऽतिक्रमे दोषे विनाशे दण्डकृच्छ्रयोः ।अवध्यमवधार्हे स्यादनर्थकवचस्यपि ॥अव्ययो ना हरौ शब्दभेदेऽस्त्री निर्व्यये त्रिषु ।अहार्यः पुंसि शैले स्यादहर्त्तव्येऽभिधेयवत् ॥अभिख्यानाम्नि शोभायां यशस्याख्यान इत्यपि ।अभया स्त्री हरितक्यां वीरणेऽपि च न द्वयोः ॥निर्भये वाच्यलिङ्गं स्यात्प्रसादेऽपि च कुत्रचित् ।अगस्त्यो वङ्गसेनाख्यतरौ कुम्भोद्भवेऽपि च ॥आशयः स्यादभिप्रायाधारयोः पनसेऽपि च ।आत्रेयो ना मुनौ पुष्पवतीनद्योरपि स्त्रियाम् ॥आम्नायः पुंसि वेदे स्यादुपदेशे कुलक्रमे ।उदयस्तून्नतौ दीप्तौ मङ्गले पूर्वपर्वते ॥उपायः स्यादुपपन्तौ सामभेदादिके पुमान् ।ऊर्णायुः क्षणभङ्गे ना मेषे च मेषकम्बले ॥
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 6 रि (wrong syllable)nearly अनुष्टुप्: pāda 1, syllable 6 प (wrong syllable); pāda 4, syllable 3 च (wrong syllable)
त्रिकाण्डशेष Trikāṇḍaśeṣa · पुरुषोत्तमदेव नानार्थवर्गः Trikāṇḍaśeṣa 3.3.308 · p. 198
उदयोऽद्रावुन्नतौ च कषायः सुरभौ रसे ।कायः स्वभावे लक्ष्ये च सङ्घे मूर्त्तौ कदैवते ॥ ३०८ ॥
अनुष्टुप्

उदय as a meaning in nānārtha verses