अर्बुद
arbudaक्ली · neut.In 10 kośas: 16 synonym verses, 7 as a nānārtha head word.
यथोत्तरं दशगुणं भवेदेको दशामुतः ।शतं सहस्रमयुतं लक्षप्रयुतकोटयः ॥ ८७३ ॥अर्बुदमब्जं खर्वं च निखर्वं च महाम्बुजम् ।शङ्कुर्वार्धिरन्त्यं मध्यं परार्धं चेति नामतः ॥ ८७४ ॥
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 2 र्बु (wrong syllable); pāda 3, syllable 5 र (wrong syllable)
genderक्लीneut.
मेदोदोषोपि शोथोऽस्त्री शोफः स्यात् श्वयथुः पुमान् ।अन्त्रवृद्धिर्गण्डमाला अर्बुदं स्यात्ततः पुनः ॥ ३३४ ॥
अनुष्टुप्
genderक्लीneut.
यथोत्तरं दशगुणमेकं दशशतं पुनः ।सहस्रमयुतं लक्षं प्रयुतं कोटिरर्बुदम् ॥ ४९७ ॥
अनुष्टुप्
genderक्लीneut.
अस्त्र्यर्बुदं शङ्कुरस्त्री क्लीबे वा पद्ममस्त्रियाम् ।पुंसि चाथ महापद्मं तद्वदन्यानि न द्वयोः ॥ ५०१ ॥
अनुष्टुप्
genderपुंक्लीm. n.
त्रिपुष्करं चार्बुदोऽस्त्री हिमवान्कुरुजाङ्गलम् ।उत्पलावर्तकं चेति नवारणी प्रकीर्तिता ॥ ७ ॥
metre not recognisednearly अनुष्टुप्: pāda 4, syllable 3 र (wrong syllable)
genderपुंक्लीm. n.
स्त्री कोटिरर्बुदं त्वस्त्री स्यादब्जं खर्वमन्तिमे ।निखर्वं च महापद्मं शङ्कुर्द्वंद्वेऽथ वारिधिः ॥ ९८ ॥
अनुष्टुप्
genderपुंक्लीm. n.
अर्बुदोऽस्त्री महाग्रन्थिर्गण्डमालापची च सा ।युवगण्डो वरण्डः स्यात्स्त्रियां तु मुखदूषिका ॥ ६३ ॥
अनुष्टुप्
genderपुंक्लीm. n.
ककुदं कुकुदं च दोहदंकुमुदाष्टापदकुन्दमर्बुदम् ।छदकन्दगुदान्यलिन्दव-त्प्रवदन्त्यब्दमिहापि हायने ॥ ४९ ॥
वियोगिनी
genderपुंक्लीm. n.
विद्रधिस्तु भगन्दरोऽर्बुदश्चापि ज्वरादयः ।अनेकव्याधयो लोके वर्तन्ते दुःखदायकाः ॥ ७२५ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 7 न्द (wrong syllable)
genderपुंmasc.
अर्बुदं दशकोटिश्चाऽब्जं खर्वं दशाब्जकम् ।निखर्वं दशखर्वं वै पुनः सङ्ख्यं महाम्बुजम् ॥ १४५९ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
genderक्लीneut.
पूयकं पूयमाख्यातं व्रणादिप्लाविते रजे ।खारी खाटिरर्बुदश्च किणो व्रणादिखाटिषु ॥
अनुष्टुप्metre not read in every line
genderपुंmasc.
अर्बुदोऽर्मं दृष्टिरोगेप्यतः शुक्रावधेः त्रिषु ।भिषग्वैद्योऽगदङ्कारो रोगहारी चिकित्सके ॥
अनुष्टुप्
genderपुंmasc.
अयुनं प्रयुतं कोटिरर्वुदो वृन्द इत्यपि ।अथ खर्वो निखर्वश्च शङ्खः पद्मश्च सागरः ।अन्त्यो मध्यः परार्धञ्च संख्या निगदिताः क्रमात् ॥
अनुष्टुप्
genderपुंmasc.doubtful
एकः पङ्क्तिर्दश शतं सहस्रमयुतं तथा ।नियुतं प्रयुतं कोटिरर्बुदं न्यर्बुदाब्जके ॥ १२६१ ॥
अनुष्टुप्
genderक्लीneut.
श्लीपदः पदवल्मीको गतिर्नाडीव्रणः पुमान् ।अर्बुदो मांसकीलः स्यात्पृष्ठग्रन्थिर्गुडो गडुः ॥ १३३ ॥
अनुष्टुप्
genderपुंmasc.
शतं सहस्रमयुतं नियुतं प्रयुतार्बुदे ।न्यर्बुदं बृन्दखर्वे च निखर्वं शंखमंबुजम् ॥ २८ ॥
अनुष्टुप्
genderक्लीneut.
गते हते याचिते च स्यादथो अर्बुदोऽस्त्रियाम् ।मासकीलाह्वये रोगभेदेऽन्ये त्वाहुरक्षिजे ॥ ९७ ॥
अनुष्टुप्
रुग्भेद इति शण्डस्तु सङ्ख्यायां कोटिनामनि ।ना तु सर्पान्तरे सर्पसत्रयाजिफणाभृताम् ॥ ९८ ॥
अनुष्टुप्
doubtful
एकस्मिन्नपरे त्वेनं शैलभेदेऽपि चामनन् ।अविषस्तु पुमानब्धौ गिरौ स्त्रीपुंसयोः पुनः ॥ ९९ ॥
अनुष्टुप्
meaningsशैल
doubtful
अर्द्धेन्दुः स्यादतिप्रौढस्त्रीयोन्यङ्गुलियोजने ।अर्बुदो मांसरुग्भेदसंख्यापर्वतभित्सु च ॥
अनुष्टुप्