कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

शुक

śukaपुं · masc.

In 22 kośas: 30 synonym verses, 11 as a nānārtha head word, 26 as a meaning of another word.

अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य पञ्चेन्द्रियाः Abhidhānacintāmaṇi 4.9.1335 · p. 51
दाक्षाय्यो दूरदृग्गृध्रोऽथोत्क्रोशो मत्स्यनाशनः ।कुररः कीरस्तु शुको रक्ततुण्डः फलादनः ॥ १३३५ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 र (wrong syllable)
genderपुंmasc.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह वनौषधिवर्गः Amarakośa 2.4.132
ग्रन्थिपर्णं शुकं बर्हं पुष्पं स्थौणेयकुक्कुरे ॥ १३२ ॥
अनुष्टुप्
genderक्लीneut.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह सिंहादिवर्गः Amarakośa 2.5.21
आतायिचिल्लौ दाक्षाय्यगृध्रौ कीरशुकौ समौ ॥ २१ ॥
अनुष्टुप्
genderपुंmasc.
हलायुधकोशः (अभिधानरत्नमाला) Abhidhānaratnamālā (Halāyudha) · हलायुध भूमिकाण्डम् Abhidhānaratnamālā (Halāyudha) 2.248 · p. 30
भृङ्गः कलिङ्गो धूम्याटः सारङ्गश्चातको मतः ।व्याघ्राटस्तु भरद्वाजः शुकः कीर उदाहृतः ॥ २४८ ॥
अनुष्टुप्
genderपुंmasc.
बालप्रबोधिका Bālaprabodhikā · नत्कीर चतुर्दशोपदेशः Bālaprabodhikā 14.298 · p. 93
खञ्जनः खञ्जरीटः स्यान्मिथुनो वसुदृग्विधुः ।श्रीमान्त्रिकेतुर्मेधावी शुकस्त्वलिफलाशनः ॥ २९८ ॥
अनुष्टुप्
genderपुंmasc.
गीर्वाणभाषाभूषण Gīrvāṇabhāṣābhūṣaṇa · त्रिविक्रम Gīrvāṇabhāṣābhūṣaṇa 67 · p. 6
आरोहिणी कृशाङ्गीति वरटा गर्भिणी स्मृता ।शुके रामः सुन्दराङ्गः सुनाशीर इतीर्यते ॥ ६७ ॥
अनुष्टुप्
genderपुंmasc.
गीर्वाणभाषाभूषण Gīrvāṇabhāṣābhūṣaṇa · त्रिविक्रम सिंहाधिकारश्चतुर्थस्तरङ्गः Gīrvāṇabhāṣābhūṣaṇa 4.6 · p. 26
चिरसूता बष्कयणी घृष्टिः सूतवती सकृत् ।पक्षी पत्ररथः पत्नी शुको नीडोद्भवोऽपि च ॥ ६ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 ब (wrong syllable)
genderपुंmasc.
गीर्वाणभाषाभूषण Gīrvāṇabhāṣābhūṣaṇa · त्रिविक्रम सिंहाधिकारश्चतुर्थस्तरङ्गः Gīrvāṇabhāṣābhūṣaṇa 4.7 · p. 26
हंसो मरालो नीलाक्षः कार्तस्वरगरुत्तथा ।शुकस्त्रियां तु मेधावी श्रीमान्नासीफलाशनः ॥ ७ ॥
अनुष्टुप्
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव क्षत्रियप्रकाण्डः Kalpadrukośa 1.6.118 · p. 102
शोकमोहौ तु मनसो जरामृत्यू च वर्ष्मणः ।षडूर्मयोतिवृष्टिः स्यादवृष्टिः शलभाः शुकाः ॥ ११८ ॥
अनुष्टुप्
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव सरभादिप्रकाण्डः Kalpadrukośa 1.12.139 · p. 333
अन्यपुष्टाऽप्येवमेवमुन्नेया अथ कीरके ।शुको मेधातिथिर्मञ्जुपाठकः प्रियदर्शनः ॥ १३९ ॥
अनुष्टुप्
genderपुंmasc.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ वनौषधिवर्गः Koṣakalpataru 2.3.55 · p. 148
रक्तपुष्पो निम्बतरुः कण्टकी पारिजातकः ।मन्दारुरपि मन्दारः कण्टकी शुकं(?)इत्यपि ॥ ५५ ॥
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 5 नि (wrong syllable); pāda 4, syllable 5 कं (wrong syllable)
genderपुंmasc.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ वनौषधिवर्गः Koṣakalpataru 2.3.95 · p. 167
शुकपुष्पं शुकं बर्हं बर्हिचूडं च पुष्पकम् ।विकीर्णकः कीर्णरोम धौतेयं कुक्कुरं च तत् ॥ ९५ ॥
अनुष्टुप्
genderक्लीneut.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ वनौषधिवर्गः Koṣakalpataru 2.3.76 · p. 196
* [की]रः शुको रक्ततुण्डो मेधावी च फलादनः ।वचस्तु राजकीरः स्याद्रजकः शतपत्रकः ॥ ७६ ॥
अनुष्टुप्
genderपुंmasc.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ वनौषधिवर्गः Koṣakalpataru 2.3.6 · p. 242
व्यासस्तु माठरः कृष्णः कानीनो वादरायणः ।पाराशर्यः सत्यवतीसूनुर्वैयासिकिः शुकः ॥ ६ ॥
अनुष्टुप्
genderपुंmasc.
निघण्टुशेष Nighaṇṭuśeṣa · हेमचन्द्र तृणकाण्डः Nighaṇṭuśeṣa 5.377 · p. 202
मुञ्जस्तु यज्ञियो मेध्यो दृढत्वग्ब्रह्ममेखलः ।अथ बालतृणे शष्पं शुकं शालिकमङ्गुलम् ॥ ३७७ ॥
अनुष्टुप्
genderक्लीneut.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास तृतीयः परिच्छेदः Paramānandīyanāmamālā 3.235 · p. 81
शशादनः श्येनचिल्लावातापी शकुनिश्च सः ।दूरदृग्गृध्रदाक्षाय्या रक्ततुण्डशुकौ समौ ॥ २३५ ॥
अनुष्टुप्
genderपुंmasc.
पञ्चतत्त्वप्रकाश Pañcatattvaprakāśa · वेणीदत्त अण्डजमरीचिः Pañcatattvaprakāśa 6.3.377 · p. 26
कीरः शुकः खगबुधः कैदारः शाल्मलिप्रियः ।हंसस्त्री वरटा हंसी कादम्बः कलहंसकः ॥ ३७७ ॥
अनुष्टुप्
genderपुंmasc.
शारदीयाख्यनाममाला Śāradīyākhyanāmamālā · हर्षकीर्ति व्योमवर्गः Śāradīyākhyanāmamālā 1.2.95 · p. 11
अनुवादी रक्ततुण्डः शुकः कीरः फलादनः ।खञ्जनः खञ्जरीटश्च नीलश्चाषः किकीदिविः ॥ ९५ ॥
अनुष्टुप्
genderपुंmasc.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि पञ्चेन्द्रियजीवनामानि Suśīlanāmamālā 5.9.2423 · p. 391
रक्ततुण्डः शुकः कीरः श्रीमान् वै प्रियदर्शनः ॥ २४२३ ॥
अनुष्टुप्metre not read in every line
genderपुंmasc.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश सिंहादिवर्गप्रकाशः Śabdaratnāvalī 3.5.56 · p. 86
गलेगण्डो मर्कटः स्याद् गलगण्डाख्यपक्षिणि ।शुकः कीरः वक्रतुण्डो मेधावी दाडिमप्रियः ॥
अनुष्टुप्
genderपुंmasc.
शब्दरत्नाकर Śabdaratnākara · वाचनाचार्यश्रीसाधुसुन्दरगणि द्वितीयः काण्डः Śabdaratnākara 2.117 · p. 186
शोचने शुक् शुकः शोकः, कोपे क्रोध-क्रुधा-क्रुधः ।रुषा-रोष-रुषश्चाप्युत्साहो तूद्याम उद्यमः ॥ ११७ ॥
अनुष्टुप्
genderपुंmasc.
शब्दरत्नाकर Śabdaratnākara · वाचनाचार्यश्रीसाधुसुन्दरगणि चतुर्थः काण्डः Śabdaratnākara 4.360 · p. 248
रामाश्रिते जटायुर्नोदन्तकः सान्तिमोऽपि च ।कीरे तालव्यदन्त्यादिः सुकोऽथ शारिका मता ॥ ३६० ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 थ (wrong syllable)
genderपुंmasc.doubtful
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण शकुन्ताध्यायः Śabdaratnākara 2.5.805 · p. 102
शुकः कीरश्च कोरः स्यादुत्पिबश्चन्द्रिकाप्रियः ।वाचाला शारिका गर्तकुक्कुटो वृत्तलोचनः ॥ ८०५ ॥
अनुष्टुप्
genderपुंmasc.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण शकुन्ताध्यायः Śabdaratnākara 2.5.814 · p. 103
हारीतः कोकिलो लट्वा कपोतशुकशारिकाः ।जीवंजीवकदात्यूहौ चटको भृङ्ग इत्यमी ॥ ८१४ ॥
अनुष्टुप्
genderपुंmasc.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण वैश्याध्यायः Śabdaratnākara 3.4.1491 · p. 180
फाणितं क्षुद्रकं खण्डमस्त्रियां शर्करा सिता ।बर्हिः पुष्पं ग्रन्थिपर्णं स्थौणेयं कुक्करं शुकम् ॥ १४९१ ॥
अनुष्टुप्
genderक्लीneut.
तन्त्राभिधान Tantrābhidhāna · अज्ञात बीजनिघण्टु Tantrābhidhāna 4.59 · p. 32
विभ्रमो बाहुलो दण्डी भैरवो नटकः शुकः ।वृकोदरो जटी भीष्मः क्षोभकः खे(ख)चरो नटः ॥
अनुष्टुप्
genderपुंmasc.
तन्त्राभिधान Tantrābhidhāna · अज्ञात बीजनिघण्टु Tantrābhidhāna 4.61 · p. 33
महानन्दी शुको दण्डी सुग्रीवः कलहो भवः ।दण्डी भाषान्तकोऽजेशो (गर्गो) हंसः पक्षैश्चरो हली ॥
अनुष्टुप्
genderपुंmasc.
वैजयन्ती Vaijayantī · यादवप्रकाश खगाध्यायः Vaijayantī 2.3.2 · p. 26
विहंगमो विर्विहगो विहंगो नभसंगमः ।नीडोद्भवः शुको नीडी मलूको विप्रुषो भसन् ॥ २ ॥
अनुष्टुप्
genderपुंmasc.
वैजयन्ती Vaijayantī · यादवप्रकाश खगाध्यायः Vaijayantī 2.3.25 · p. 28
शुकस्त्रिकेतुर्मेधावी श्रीमान् वाग्मी फलाशनः ।दरणो दण्डिकीरौ च लोपालोपायिके समे ॥ २५ ॥
अनुष्टुप्
genderपुंmasc.
वैजयन्ती Vaijayantī · यादवप्रकाश वैश्याध्यायः Vaijayantī 3.8.92 · p. 130
बर्हिपुष्पे ग्रन्थिपर्णं स्थौणेयं कुक्कुरं शुकम् ।शतपर्वं च मित्रञ्च कमलञ्च शिलं च तत् ॥ ९२ ॥
अनुष्टुप्
genderक्लीneut.
धरणिकोश Dharaṇikośa · धरणिदास कार्धश्लोकः Dharaṇikośa 1.2.7 · p. 5
त्रिकं त्रये त्रिका कूपवक्त्रे पृष्ठाधरे त्रिकम् ।शुको व्याससुते कीरे शुकं स्याद्ग्रन्थिपर्णके ॥
अनुष्टुप्
कोषकल्पतरु Koṣakalpataru · विश्वनाथ कान्ताः Koṣakalpataru 6.1.3 · p. 135
अकं तु दुःखे दुरितेऽपि शस्तम् ।शकस्तु देशे भुजगे च वर्णेशुको भवेद्व्याससुते च कीरे ॥ ३ ॥
उपजातिः
कोषकल्पतरु Koṣakalpataru · विश्वनाथ कान्ताः Koṣakalpataru 6.1.4 · p. 135
स्याद्ग्रन्थिपर्णे च शुकं शिरीषेद्विकस्तु काकेऽपि च कोकनाम्नि ।ईहामृगे स्यात्करटे वृकोऽथसृकः समीरोत्पलसायकेषु ॥ ४ ॥
उपजातिः
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् नानालिङ्गाध्यायः Nānārthārṇavasaṃkṣepa 2.5.1384 · p. 161
ज्योत्स्नापक्षे श्वेतवर्णे त्रि तु तद्वति नब्जले ।शुकस्तु कीरे द्वे क्ली तु स्थौणेयाह्वयभेषजे ॥ १३८४ ॥
अनुष्टुप्
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् नानालिङ्गाध्यायः Nānārthārṇavasaṃkṣepa 2.5.1385 · p. 161
ना तु व्यासमुनेः पुत्रे रावणानुचरेऽप्यथ ।शुक्तं क्ली काञ्जिके कल्कजातावित्यपरे विदुः ॥ १३८५ ॥
अनुष्टुप्
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास शकारादयः Paramānandīyanāmamālā 5.25.353 · p. 206
शुको व्यासात्मजे कीरे शौकं स्याच्छुकसंचये ।शको भूपेऽन्त्यजे देशे शङ्कुः कीलकरुद्रयोः ॥ ३५३ ॥
अनुष्टुप्
शिवकोष Śivakoṣa · शिवदत्तमिश्र कद्विः Śivakoṣa 1.2.12 · p. 2
शाकोऽस्त्री हरिते ना तु द्रेष्कायां च स्मरच्छदे ।शुकः शिरीषे स्थौणेये टिण्टुपूगे तु न द्वयोः ॥ १२ ॥
अनुष्टुप्
शब्दरत्नावली Śabdaratnāvalī · मथुरेश कान्ताः Śabdaratnāvalī 7.1.23 · p. 178
शिरीषपादपे पुंसि ग्रन्थिपर्णे नपुंसकम् ।शुकः कीरे व्याससुने तथा रावणमन्त्रिणि ॥
अनुष्टुप्
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण अनेकार्थाधिकाराध्यायः Śabdaratnākara 4.1.2009 · p. 244
वृत्रारौ कुटजे शक्रः शुको व्याससुते खगे ।शङ्कुः पत्रसिराकीलमेहनेष्वायुधान्तरे ॥ २००९ ॥
अनुष्टुप्
त्रिकाण्डशेष Trikāṇḍaśeṣa · पुरुषोत्तमदेव नानार्थवर्गः Trikāṇḍaśeṣa 3.3.44 · p. 106
शङ्कुः कीलकसङ्ख्यास्त्रजलजन्तुषु दृश्यते ।शिशुकः शिशुमारेऽपि शुकं ग्रन्थिशिरीषयोः ॥ ४४ ॥
अनुष्टुप्
त्रिकाण्डशेष Trikāṇḍaśeṣa · पुरुषोत्तमदेव नानार्थवर्गः Trikāṇḍaśeṣa 3.3.45 · p. 107
कीरे रावणपात्रे ना वचाऽपि शतपर्विका ।शल्कचूर्णेऽपि शूकस्तु स्यादनुक्रोशशृङ्गयोः ॥ ४५ ॥
अनुष्टुप्
doubtful

शुक as a meaning in nānārtha verses

  • नामलिङ्गानुशासनम् हरियमानिलेन्द्रचन्द्रार्कविष्णुसिंहांशुवाजिषु । शुकाहिकपिभेकेषु हरिर्ना कपिले त्रिषु ॥ १७५ ॥ Amarakośa 3.3.175
  • धरणिकोश कीरपौराः पुरभवा लोकाः पौरं कत्तृणमुच्यते । कीरा जनपदाः केऽपि कीराः शुकाख्यपक्षिणः ॥ Dharaṇikośa 26.2.11
  • धरणिकोश हरिहरिर्वातांशुचन्द्रार्कशुकभेकयमाहिषु । विष्ण्विन्द्रकपिसिंहेषु पिङ्गपिष्टप्रभेदयोः ॥ Dharaṇikośa 26.3.19
  • कोषकल्पतरु रजकरजकः शुकेऽप्यथो ना यष्ट्याह्वे मधुपर्णिकायाम् । मधुकः पक्षिविशेषे वन्दिविभेदे च पुंलिङ्गः ॥ २७ ॥ Koṣakalpataru 6.1.27
  • कोषकल्पतरु वचामधौ( ? )शुद्धे परवत् स्त्री तु रुचिः स्यादभिष्वङ्गे । शोभामयूखवाञ्छा- स्ववकाशे तु द्वयोर्वीचिः । स्वल्पतरङ्गे च सुखे- ऽथाभिनये सीवनद्रव्ये । नारीन्द्रिये च सूची शचीन्द्रपत्नी शतावर्याम् । काञ्ची देशविशेषे गुञ्जायां मेखलायां च । षड्ग्रन्थासारिकयो- र्वचा स्त्रियां स्याच्छुके पुंसि ॥ ७ ॥ Koṣakalpataru 6.5.7
  • कोषकल्पतरु कीरकीरः शुके स्यादपि देशवाची गौरस्तु पीतारुणपाण्डुरेषु । शुद्धे च वाच्ये सितसर्षपाष्ट- वर्षातनूजेन्दुषु संप्रदिष्टः ॥ २१ ॥ Koṣakalpataru 6.27.21
  • कोषकल्पतरु वक्रनक्रशुके खले पुंसि च वक्रनक्रः कटंभरा स्यात्सरणौषधौ च । गजाङ्गनायां च कलाम्बिकायां मूर्वासु गोलासु पुनर्नवायाम् ॥ ३५ ॥ Koṣakalpataru 6.27.35
  • नानार्थार्णवसंक्षेप कीरकीरः शुके द्वयोर्देशे कश्मीरेषु नृभूमनि । क्षीरं क्ली सलिले दुग्धेऽन्येऽर्धर्चादिष्वधीयते ॥ २१४ ॥ Nānārthārṇavasaṃkṣepa 2.5.214
  • नानार्थार्णवसंक्षेप दण्डिन्दण्डी पुंसि यमे द्वाःस्थेऽप्यथ दण्डवति त्रिषु । द्वे शुके द्वे तु दंष्ट्री स्यात् सर्पे ग्राहाख्ययादसि ॥ ५८४ ॥ Nānārthārṇavasaṃkṣepa 2.5.584
  • नानार्थार्णवसंक्षेप वाग्मिन्शुके तु द्वे अथो वाली पुमान् सुग्रीवपूर्वजे । अश्विन्याख्ये तु नक्षत्रे वालिन्यौ (तु?स्तः) स्त्रियावथ ॥ १२४८ ॥ Nānārthārṇavasaṃkṣepa 2.5.1248
  • नानार्थार्णवसंक्षेप श्रीमत्वृक्षयोर्गुग्गुलौ द्वे तु शुके लक्ष्मीवति त्रिषु । शीवा त्वजगरे द्वे स्यात् सर्प इत्यपरे पुनः ॥ १३७८ ॥ Nānārthārṇavasaṃkṣepa 2.5.1378
  • नानार्थार्णवसंक्षेप दरणद्विधाभावे शुके तु द्वे दण्डकस्त्वस्त्रियामयम् । समासप्रायवाक्ये स्यादुत्कृतेरधिकेषु च ॥ ९०० ॥ Nānārthārṇavasaṃkṣepa 4.900
  • नानार्थार्णवसंक्षेप दुग्धाशिन्स्त्री तु द्यूतशलाकायां द्वे तु कीटान्तरे भवेत् । दुग्धाशी तु शुके द्वे स्यात् क्षीराशिनि तु भेद्यवत् ॥ ९५२ ॥ Nānārthārṇavasaṃkṣepa 4.952
  • नानार्थार्णवसंक्षेप मेधाविन्मेधावी तु शुके द्वे स्यान्मेधावति तु भेद्यवत् । मैथिलस्तु प्रदोषे ना जनकाख्ये च राजनि ॥ १४५१ ॥ Nānārthārṇavasaṃkṣepa 4.1451
  • नानार्थार्णवसंक्षेप रजकत्रिषु त्वास्वादिते चैव स्वर्णादिखचितेऽपि च । वस्त्रनिर्णेजके तु द्वे शुके च रजकस्त्रि तु ॥ १४८४ ॥ Nānārthārṇavasaṃkṣepa 4.1484
  • नानार्थार्णवसंक्षेप जैवातृकअश्वे द्वे कुटिले तु त्रिरथ जैवातृकः पुमान् । चन्द्रे च परिखायां च परिघेऽथ द्वयोः शुके ॥ २४६ ॥ Nānārthārṇavasaṃkṣepa 6.246
  • नानार्थार्णवसंक्षेप फलाशनशुके पूर्ववदत्रापि पाटल्यां तु फलेरुहा । स्त्री ना तु तालवृक्षे स्याद् वन्धुजीवः पुनर्नरिः ॥ ४१७ ॥ Nānārthārṇavasaṃkṣepa 6.417
  • परमानन्दीयनाममाला कविकविर्मुनौ विधौ शुके हयोपकरणेऽपि च । लोहपृष्ठे यमे कङ्को द्विजलिङ्गोपजीविनि ॥ ११० ॥ Paramānandīyanāmamālā 5.7.110
  • परमानन्दीयनाममाला हारीकपोलावयवे हारी शुके हारान्वितेऽपि च । हरित्तृणान्तरे वर्णभेदे दिश्यपि कथ्यते ॥ ३७७ ॥ Paramānandīyanāmamālā 5.28.377
  • शारदीयाख्यनाममाला हरिश्रीसिंहे च कपौ शुके हरिहरे चामीकरे भार्गवे चन्द्रेभे कविराजवाजिवहने वंशे यमे पारदे । नागे वर्णसमीरणेऽपि दहने स्कन्दे च संक्रन्दने मार्तण्डेऽशनिपन्नगेश्वरदिने खड्गे हरिः कीर्तितः ॥ १२८ ॥ Śāradīyākhyanāmamālā 3.5.128
  • शब्दरत्नावली रुचापिचुर्ना दैत्यभित्कुष्ठभेदयोः कर्षतूलयोः । मोचः शोभाञ्जने मोचा शाल्मलीरम्भयोः स्त्रियाम् ॥ रुचिर्दीप्तौ च शोभायामभिलाषाभिषङ्गयोः । रुचा रुग्दीप्तिशोभेछाशारिकाशुकवाक्सु च ॥ Śabdaratnāvalī 7.6.8
  • शब्दरत्नावली मेधाविन्मालुधानी लताभेदे सर्पभेदे भवेत्पुमान् । मेधाविनी स्त्रियां लाक्ष्याशुके ना तद्वति त्रिषु ॥ Śabdaratnāvalī 7.20.119
  • शब्दरत्नावली कीरऐन्द्रिर्जयन्ते काके ना स्त्री शचीशिवयोरपि । ओड्रः पुंभूम्नि देशे स्यात्तरुभेदे पुमानयम् ॥ करो रश्मौ च करके शुण्डप्रत्यायपाणिषु । कद्रुस्त्रिषु पिशङ्गे स्यान्नागमातरि तु स्त्रियाम् ॥ कारो हिमगिरौ यत्ने वलौ पत्यौ वधे पुमान् । कारा स्त्रियां बन्धगृहे बन्धे दूत्यां प्रसेवके ॥ कारिः क्रियायां स्त्रीलिङ्गो वाच्यलिङ्गस्तु शिल्पिनी । क्रूरं स्यात्कठिने घोरे नृशंसेऽपि च वाच्यवत् ॥ कारुस्त्वष्टरि पुंसि स्यात्त्रिषु कर्तरि शिल्पिनि । कीरः शुके देशभेदे क्लीबं स्यान्नीरदुग्धयोः ॥ कुरुर्ना भक्तनृपयोः पुंबहुत्वे च निवृति । क्षुद्रः क्रूरेऽधमेऽल्पे च कृपणेऽपि च वाच्यवत् ॥ क्षुद्रा व्यङ्गानटीधृष्टाबृहतीसरधासु च । चाङ्गेरी मक्षिकामात्रे हिंस्रा वादरतासु च ॥ क्षुरः स्याच्छेदनद्रव्ये कोकिलाक्षे च गोक्षुरे । खुरः शफे कोलदले तथा छेदनवस्तुनि ॥ क्रोष्ट्री कृष्णविदार्युक्ताशृगालीलाङ्गलीषु च । खरो धर्मे गर्दभे ना तीक्ष्यो त्रिष्वौषधे स्त्रियाम् ॥ खरुर्दर्पे हरे दन्ते हये ना धवले त्रिषु ॥ Śabdaratnāvalī 7.27.7
  • शब्दरत्नावली हरिहंसकोकिलसिंहाश्वकपिभेदेशुकाहिषु । लोकान्तराग्निकृष्णेषु शिवे ना पिङ्गले त्रिषु ॥ हारः पुमानुरोभूषायुद्धमुक्तावलीषु च । हारि युद्धादि भङ्गेषु स्त्री पान्यसन्ततिवन्धयोः ॥ Śabdaratnāvalī 7.27.50
  • शब्दरत्नावली कुमारकुमारः स्कन्दशुकयोर्युवराजाश्ववारयोः । बालके वरुणे पुंसि क्लीबं स्याज्जात्यकाञ्चने ॥ Śabdaratnāvalī 7.27.64
  • वैजयन्ती हरिसूनं पुष्पे सुतायां स्त्री स्नेहोऽस्त्री द्रवहार्दयोः । विष्णुचन्द्रेन्द्रवातार्कयमाश्वांशुशुकाग्निषु ॥ ९९ ॥ Vaijayantī 6.5.99