पत्ररथ
patrarathaपुं · masc.In 11 kośas: 11 synonym verses, 1 as a meaning of another word.
खगे विहङ्गविहगविहङ्गमविहायसः ।शकुन्तिपक्षिशकुनिशकुन्तशकुनद्विजाः ॥ ३२ ॥पतत्रिपत्रिपतगपतत्पत्ररथाण्डजाः ।नगौकोवाजिविकिरविविष्किरपतत्रयः ॥ ३३ ॥नीडोद्भवाः गरुत्मन्तः पित्सन्तो नभसङ्गमाः ।
अनुष्टुप्
genderपुंmasc.
चिरसूता बष्कयणी घृष्टिः सूतवती सकृत् ।पक्षी पत्ररथः पत्नी शुको नीडोद्भवोऽपि च ॥ ६ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 ब (wrong syllable)
genderपुंmasc.
अथ पत्ररथः पक्षी द्विजो नीडोद्भवः खगः ।पत्री पतत्री विहगो विहङ्गः पत्रवाहनः ॥ ८० ॥
अनुष्टुप्
genderपुंmasc.
पक्षी पटाको विकिरः खजाकोनीडोद्भवः पत्ररथः सरण्डः ।वाजी शकुन्तः शकुनिः शकुन्तिः[69a]किरो नगौकाः शकुनो विहायाः ॥ ६४ ॥
इन्द्रवज्राmetre not read in every linenearly इन्द्रवज्रा: pāda 2, syllable 1 कि (wrong syllable)
genderपुंmasc.
शकुन्तिः शकुनिः [44] पत्ररथो द्विजविहंगमौ ।विष्किरो विर्वयः पित्सन्नीडजश्चाण्डजः स्मृतः ॥ २१८ ॥
अनुष्टुप्
genderपुंmasc.
शकुन्ते तु नगौकाः स्याद्गरुत्मान्विकिरोऽपि विः ।वाजी विविष्करः पत्रः पत्री पत्ररथः पतत् (न्?) ॥ ६५ ॥
अनुष्टुप्
genderपुंmasc.
genderपुंmasc.
पक्षी पत्री पतत्रिश्च पतत्री पतगः पतन् ।पत्ररथः पतङ्गश्च पित्रान् वयो द्विजः पुनः ॥ २३७८ ॥
अनुष्टुप्metre not read in every line
genderपुंmasc.
शकुन्तिः पतगः पत्ररथः कण्ठाग्निरित्यपि ।पतङ्गः स्यादगौकाश्च नगौका अपि चञ्चुभृत् ॥
अनुष्टुप्
genderपुंmasc.
विहगविहंगमद्विजविविष्किरपक्षिपतद्-विकिरपतत्रिपत्रिपतगाण्डजपत्ररथाः ।शकुनगरुत्मदंशुनभसंगमनीडभवाःशकुनिशकुन्तिवोजितरुधामशकुन्तखगाः ॥ ७८६ ॥
metre not recognised
genderपुंmasc.
पक्षी पत्ररथः पत्री पित्सन् पिपतिषन् पतन् ।पतंगः पतगः प्लावी पतत्र्यंगुपतत्रयः ॥ १ ॥
अनुष्टुप्
genderपुंmasc.
पत्ररथ as a meaning in nānārtha verses
- शब्दरत्नावली पत्रिन्तोदनं व्यथने तोत्रे दंशनं वर्मदंशयोः । दर्शनं दर्पणे शास्त्रे नयनस्वप्नबुद्धिषु ॥ दमनः कुसुमे वीरे उपशान्तेऽपि कुत्रचित् । दशनः शिखरे दन्ते कवचे तु नपुंसकम् ॥ दहनो दुष्टचेष्टाग्निभल्लाते चित्रकेऽपि च । दृशानं तेजसि क्लीबं स्यात्पुमांस्तु विरोचने ॥ देवनन्तु जिगीषायां स्यात्क्रीडाव्यवहारयोः । अक्षेषु देवनः पुंसि सेवायामपि देवना ॥ ध्वजी रथे च भूदेवे भये सर्पे धराधरे । धन्वी ककुभवृक्षे स्यादर्जुने च धनुर्धरे ॥ धन्व क्लीबे स्थले चापे धन्वा ना मरुदेशके । धमनो नालभेदे भस्त्राध्मापकक्रूरयोस्त्रिषु ॥ धमनी च शिराहट्टविलासिन्योरपि स्त्रियाम् । धावनन्तु गतौ शुद्धै पृश्नीपर्ण्यान्तु धावनी ॥ धाम गेहे तनौ रश्मौ स्थाने प्रभावजन्मनोः । नन्दनं वासवोद्यानं पुमानात्यजहर्षयोः ॥ नन्दी हरद्वारपाले कन्दवाले वटद्रुमे । नन्दिन्युमाधेनुभेदगङ्गाननान्दृषु स्त्रियाम् ॥ नलिन्याकाशगङ्गायां पद्मिन्यां कमलाकरे । अम्भोरुहे तु न पुमान् नीलिकायां नपुंसकम् ॥ निदानं वत्सदामादिकारणे क्षयकारणे । निधनं नाशकुलयोः प्रधनं युधि दारुणे ॥ पवनं स्यात्कुम्भकारपाकस्थाने नपुंसकम् । स्यात्पुमांस्तु जगत्प्राणे निष्पावे प्रयतेऽपि च ॥ प्रधानं प्रकृतिप्रज्ञामहामात्यपरात्मसु । एकत्वे चोत्तमे क्लीबं वाच्यलिङ्गन्तु कुत्रचित् ॥ पद्मिनी स्त्रीविशेषे स्यात्पद्मसङ्घे सरोऽम्बुजे । प्रसन्ना स्त्री सुरायां स्यात्सन्तुष्टामलयोस्त्रिषु ॥ प्रसूनं पुष्पफलयोः क्लीबं जाते तु वाच्यवत् । पत्री पत्ररथे श्येनेऽत्रिकाण्डे रथिके त्रिषु ॥ पर्व स्यादुत्सवे ग्रन्थौ प्रस्तावचिह्नभेदयोः । स्याद्दर्शप्रतिपत्सन्धौ विषुवत्प्रभृतिष्वपि ॥ पक्ष्मसूत्रांशमुद्रादिकिञ्जल्कनेत्ररोमसु । पाठीनः पाठके मीनभेदे च गुग्गुलुद्रुमे ॥ Śabdaratnāvalī 7.20.57