केकिन्
kekinपुं · masc.In 16 kośas: 15 synonym verses, 15 as a meaning of another word.
पेशीकोशोऽण्डे कुलायो नीडे केकी तु सर्पभुक् ।मयूरबर्हिणौ नीलकण्ठो मेघसुहृच्छिखी ॥ १३१९ ॥शुक्लापाङ्गोऽस्य वाक्केका पिच्छं बर्हं शिखण्डकः ।प्रचलाकः कलापश्च मेचकश्चन्द्रकः समौ ॥ १३२० ॥
अनुष्टुप्
genderपुंmasc.
मयूरो बर्हिणो बर्ही नीलकण्ठो भुजङ्गभुक् ।शिखावलः शिखी केकी मेघनादानुलास्यपि ॥ ३० ॥
अनुष्टुप्
genderपुंmasc.
केकी शिखी शिखण्डी प्रचलाकी वर्हिणः कलापी च ।सर्पाशनो मयूरः शिखावलः श्यामकण्ठश्च ॥ २४१ ॥
आर्या
genderपुंmasc.
शुक्लापाङ्गः शिखी केकी शिखण्डी चित्रपत्रकः ।वाताकविः स्वर्णपक्षः रक्तचञ्चुर्वनप्रियः ॥ ९ ॥
अनुष्टुप्
genderपुंmasc.
अपिच्छाथ मयूरस्तु चन्द्रकी गरलव्रतः ।गुरुमार्जारनीलेभ्यः कण्ठः केकी शिखाबलः ॥ १०३ ॥
अनुष्टुप्
genderपुंmasc.
केकी शिखावलश्च स्याच्छिखण्डी च कलापवान् ।केकास्य वाक्चन्द्रकस्तु मेचकोऽस्त्री शिखण्डकः ॥ १२ ॥
अनुष्टुप्
genderपुंmasc.
मयूरो बर्हिणः केकी शिखी प्रावृषिकस्तथा ।नीलकण्ठः कलापी च शिखण्डी तत्पतिर्गुहः ॥ १२६ ॥
अनुष्टुप्
genderपुंmasc.
कुलायो नीडमस्त्री स्यात्पेशीकोशोऽण्डके पुनः ।मयूरः सर्पभुक्केकी स्मृतो मेघसुहृच्च सः ॥ २२१ ॥
अनुष्टुप्
genderपुंmasc.
काकपुष्टो वनसखः कोकिलः पिकप[पा]ञ्चमौ ।शिखी मयूरोऽभ्रसखः केकी बर्ही भुजङ्गभुक् ॥ ३७२ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
genderपुंmasc.
बप्पीह(?)श्चातकसारङ्गस्तोकको नभोऽम्बुपः ।नीलकण्ठः शिखी केकी मयूरो जलमुक्सुहृत् ॥ ९० ॥
अनुष्टुप्metre not read in every line
genderपुंmasc.
शुक्लापाङ्गः शिखी चापि स्थिरमदः शिखाबलः ।केकी मेघसुहृन्नाम सर्पभुक् चित्रपिङ्गलः ॥ २३८८ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 म (wrong syllable)
genderपुंmasc.
लिङ्का लिका च लीक्षा च लीक्का च लिक्षिकेत्यपि ।स्यान्मयूरः शिखी केकी प्रचलाकी च चन्द्रकी ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 च (wrong syllable)
genderपुंmasc.
पतत्रयः पतंगाश्च पित्सन्तश्च विहायसः ।शुक्लापाङ्गः शिखी केकी नीलकण्ठः शिखावलः ॥ ७८७ ॥
अनुष्टुप्
genderपुंmasc.
कुकरः कर्करः केकी कृकवाकुः कपिञ्जलः ।वर्तिका वर्तको बालो गोनर्दो गिरिनर्तिका ॥ ८१२ ॥
अनुष्टुप्
genderपुंmasc.
वर्षामदः शिखी केकी शिखण्डी चित्रपत्रकः ।भुजंगारिः शापटिको मयूकश्चित्रपिंगलः ॥ ३७ ॥
अनुष्टुप्
genderपुंmasc.
केकिन् as a meaning in nānārtha verses
- धरणिकोश अहिभुज्सामजौ गजसामोत्थावहिभुक्केकितार्क्षयोः । द्विजराजो विधुस्तार्क्षो ग्रहराजो रविः शशी ॥ Dharaṇikośa 7.1.3
- धरणिकोश मसूरमालूरं पिचु बिल्वं च क्रीडाबद्धे तथा गुणैः । मसूरः स्यादपामार्गः खराश्वायां च केकिनि ॥ Dharaṇikośa 26.2.61
- कोषकल्पतरु लासकपिण्डे तु शर्करायाः शार्कक उक्तः स दुग्धफेनेऽपि । [251a]केकिनि लासक आद्ये भेद्याधीनस्तु नर्तके लसके ॥ ५१ ॥ Koṣakalpataru 6.1.51
- कोषकल्पतरु मेनादप्रह्लादः प्रमदे तथा दितिसुते दायाद उक्तः सुत- ज्ञात्योच्छाग बिडाल केकिषु पुनर्मेनाद उक्तो बुधैः । वृद्ध्याजीवनके कुसीद * * * त्रय्यां कुसीदप्रदे गोविन्दो गरुडध्वजे सुरगुरौ गोष्ठाधिपे वाच्यवत् ॥ ३५ ॥ Koṣakalpataru 6.19.35
- कोषकल्पतरु शिखिन्स्त्रियां गुडूचीत्रिवृतोः शिखी तु वह्नौ वृषे स्याद्विशिखे च वृक्षे । केतुग्रहे केकिनि कुक्कुटे च स्याच्छार्ङ्गकेषु त्रितये सचूडे ॥ ७४ ॥ Koṣakalpataru 6.21.74
- कोषकल्पतरु लाङ्गलिन्स्त्रियां तु मांसी कटुरोहिणीषु शूरे तरस्वी त्रिषु वेगभाजि । प्रलम्बशत्रावपि नालिकेरे स्याल्लाङ्गली केकिभुजंगयोस्तु ॥ ४३ ॥ Koṣakalpataru 6.21.43
- कोषकल्पतरु कलध्वनिस्यात्कुम्भयोनिर्मुनिवृक्षभेदे कामे पुनर्ब्रह्मणि चात्मयोनिः । स्याच्चित्रभानुस्तरणौ च वह्नौ कलध्वनिः कोकिलकेकिनोश्च ॥ ४६ ॥ Koṣakalpataru 6.21.46
- नानार्थार्णवसंक्षेप अर्जुनरभसस्तु द्वयोराह केकिनि क्ली तु दृग्रुजि । अरिष्टस्तु पुमान्निम्बे फेनिलाख्ये महीरहे ॥ १५ ॥ Nānārthārṇavasaṃkṣepa 4.15
- परमानन्दीयनाममाला कब्रह्मवायुसुहृत्केकिवह्न्युद्योतमात्मसु । कुः पापीयसि मह्यां च निवारणकुशब्दयोः ॥ १० ॥ Paramānandīyanāmamālā 1.10
- परमानन्दीयनाममाला अर्जुनमञ्जिष्ठातिविषा श्यामाथाम्बरं गगनेंऽशुके । द्रव्ये तूले सुगन्धेऽथार्जुनो धवलकेकिनोः ॥ ३१ ॥ Paramānandīyanāmamālā 5.1.31
- परमानन्दीयनाममाला कुण्डलिन्कौतुकं कुतुके गीतादौ स्मये [18] मङ्गलेऽपि च । कुण्डली कुण्डलोपेते वरुणे केकिनागयोः ॥ १११ ॥ Paramānandīyanāmamālā 5.7.111
- शारदीयाख्यनाममाला सारङ्गवीणावारणवाजिसिंहहरिणानङ्गप्रवालाचलाः चन्द्रश्चातकचञ्चरीकजलमुक्चापासिवज्राहयः । हंसः कोकिलकेकिकीरगरुडः स्वर्णानिलार्कास्तमो गुञ्जा श्रीफलपद्मदीपखटीकाः सारङ्गशब्दा इमे ॥ १२७ ॥ Śāradīyākhyanāmamālā 3.5.127
- वैजयन्ती मरूकविष्णौ वसन्ते वैशाखे मरूकौ भेककेकिनौ । मिहिरा वायुमेघार्का यज्वरौ तु हयाध्वरौ ॥ ६२ ॥ Vaijayantī 7.1.62
- वैजयन्ती सर्पनरो भुगन्ताः सर्पस्य राजसर्पमयूरयोः । तार्क्ष्ये चाथारिनामान्ता नकुले केकिताकर्क्ष्ययोः ॥ २१ ॥ Vaijayantī 8.6.21
- वैजयन्ती कण्ठपञ्चपूर्वास्तु वक्त्रस्य व्याघ्रे सिंहे हरे नरः । कण्ठस्य नीलनामभ्यो ग्रीवायाश्चेशकेकिनोः ॥ २२ ॥ Vaijayantī 8.6.22