कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

पञ्चानन

pañcānanaपुं · masc.

In 7 kośas: 7 synonym verses.

हलायुधकोशः (अभिधानरत्नमाला) Abhidhānaratnamālā (Halāyudha) · हलायुध भूमिकाण्डम् Abhidhānaratnamālā (Halāyudha) 2.214 · p. 26
मातङ्गद्विरदद्विपाः करिगजस्तम्बेरमानेकपाः,कुम्भीकुञ्जरवारणेभरदिनः सामोद्भवः सिन्धुरः ।तुल्यार्थाः कथिता हरिर्मृगपतिः पञ्चाननः केसरी,हर्यक्षो नखरायुधो मृगरिपुः सिंहश्च कण्ठीरवः ॥ २१४ ॥
शार्दूलविक्रीडितम्
genderपुंmasc.
गीर्वाणभाषाभूषण Gīrvāṇabhāṣābhūṣaṇa · त्रिविक्रम सिंहाधिकारश्चतुर्थस्तरङ्गः Gīrvāṇabhāṣābhūṣaṇa 4.1 · p. 25
सिंहः पञ्चाननो गन्धिः पारीन्द्रो मृगयूथपः ।व्याघ्रः शार्दूलकश्चन्द्रश्चन्द्रकीत्यभिधीयते ॥ १ ॥
अनुष्टुप्
genderपुंmasc.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास तृतीयः परिच्छेदः Paramānandīyanāmamālā 3.188 · p. 75
[42] सिंहः पञ्चाननः श्वेतपिङ्गः कण्ठीरवो हरिः ।महानादस्तथेभारिः पारीन्द्रो नखरायुधः ॥ १८८ ॥
अनुष्टुप्
genderपुंmasc.
पञ्चतत्त्वप्रकाश Pañcatattvaprakāśa · वेणीदत्त चतुःपदमरीचिः Pañcatattvaprakāśa 1.3.126 · p. 9
हर्यक्षः केसरी सिंहो हरिः पञ्चाननः सटी ।द्वीपी व्याघ्रो वर्त्तुलाक्षः शार्दूलो मृगमांसभुक् ॥ १२६ ॥
अनुष्टुप्
genderपुंmasc.
शारदीयाख्यनाममाला Śāradīyākhyanāmamālā · हर्षकीर्ति धरावर्गः Śāradīyākhyanāmamālā 1.3.152 · p. 17
कण्ठीरवो महानादो मृगारिर्नखरायुधः ।पञ्चाननो गजारातिः पुण्डरीकस्तु चित्रकः ॥ १५२ ॥
अनुष्टुप्
genderपुंmasc.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश स्वर्गवर्गप्रकाशः Śabdaratnāvalī 2.1.72 · p. 6
भगाली खण्डपरशुः खण्डपर्शुर्वृषध्वजः ।पञ्चाननो महादेवः कण्ठेकालो दिगम्बरः ॥
अनुष्टुप्
genderपुंmasc.
त्रिकाण्डशेष Trikāṇḍaśeṣa · पुरुषोत्तमदेव स्वर्गवर्गः Trikāṇḍaśeṣa 1.1.43 · p. 10
शम्भुर्भगाली कपिशाञ्जनश्च हीरः कटप्रूर्भरुरेरिहाणौ ।पुरारिपञ्चाननभैरवाट्टहासप्रहासाश्च खकुन्तलश्च ॥ ४३ ॥
उपजातिः
genderपुंmasc.