शिखण्डिन्
śikhaṇḍinपुं · masc.In 13 kośas: 10 synonym verses, 7 as a nānārtha head word, 3 as a meaning of another word.
केकी शिखी शिखण्डी प्रचलाकी वर्हिणः कलापी च ।सर्पाशनो मयूरः शिखावलः श्यामकण्ठश्च ॥ २४१ ॥
आर्या
genderपुंmasc.
शुक्लापाङ्गः शिखी केकी शिखण्डी चित्रपत्रकः ।वाताकविः स्वर्णपक्षः रक्तचञ्चुर्वनप्रियः ॥ ९ ॥
अनुष्टुप्
genderपुंmasc.
भुजङ्गभोजी पत्राड्यः शुक्लापाङ्गः शिखण्ड्यपि ।चित्रपिच्छः कलापी च मेघमत्तः शिखी ध्वजी ॥ १०४ ॥
अनुष्टुप्
genderपुंmasc.
कलापो बर्हभारेस्य पिच्छबर्हे च न स्त्रियाम् ।शिखण्डी च शिखण्डो ना नेत्रं षण् चन्द्रिका स्त्रियाम् ॥ १०६ ॥
अनुष्टुप्
genderपुंक्लीm. n.
बहुप्रजः शिखण्डी च विष्किरः स्यादुषःकलः ।कामकाकुरवो झिल्लीकण्ठोऽपि गुणलोचनः ॥ १३१ ॥
अनुष्टुप्
genderपुंmasc.
केकी शिखावलश्च स्याच्छिखण्डी च कलापवान् ।केकास्य वाक्चन्द्रकस्तु मेचकोऽस्त्री शिखण्डकः ॥ १२ ॥
अनुष्टुप्
genderपुंmasc.
मयूरो बर्हिणः केकी शिखी प्रावृषिकस्तथा ।नीलकण्ठः कलापी च शिखण्डी तत्पतिर्गुहः ॥ १२६ ॥
अनुष्टुप्
genderपुंmasc.
शिखण्डी बर्हिणो बर्ही कलापी च भुजंगभुक् ।परपुष्टा परभृता ताम्राक्षी कोकिला पिकी ॥ ९१ ॥
अनुष्टुप्
genderपुंmasc.
शिखण्डी बर्हिणो बर्ही मयूरो भुजगाशनः ।मेघनादानुलासी द्वौ समौ चन्द्रकमेचकौ ॥ ७८८ ॥
अनुष्टुप्
genderपुंmasc.
वर्षामदः शिखी केकी शिखण्डी चित्रपत्रकः ।भुजंगारिः शापटिको मयूकश्चित्रपिंगलः ॥ ३७ ॥
अनुष्टुप्
genderपुंmasc.
शिखण्डी च मयूरः स्याच्छिखण्डी क्षत्रियान्तरम् ।प्रत्यर्थी शत्रुराख्यातः प्रतिवादी च कीर्तितः ॥
अनुष्टुप्
बाणे शिखण्डी च तथा मयूरेगाङ्गेयशत्रौ गदितः कलापे ।स्त्री यूथिकायामपि रक्तिकायांतथा मयूर्यामपि संप्रदिष्टः ॥ ४१ ॥
उपजातिः
वैरोचनो वलौ बुद्धे सिद्धे सूर्याग्निपुत्रयोः ।शिखरी द्रुममात्रे स्यादपामार्गे महीधरे ॥शिखण्डिनी स्त्रियां यूथीगुञ्जयोः प्रमदाभिदि ।शिखण्डी वैरिगाङ्गेयकपालबर्हिणेषु च ॥शृङ्गारी तु सशृङ्गारे सुवेशे गजपूगयोः ।भवेच्श्लेष्मधना मल्लीकेतक्योरपि च स्त्रियाम् ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 ल (wrong syllable)
क्रमुकश्च सुवेशश्च पार्थेन्द्वोः श्वेतवाहनः ।मयूरे भीष्मशत्रौ च शिखण्ड्यथ विहेठनम् ॥ २६५ ॥
अनुष्टुप्
शिखण्डिन् as a meaning in nānārtha verses
- शब्दरत्नावली मयूरमन्थरः पुंसि मत्थानवाधकोषफलेषु च । पृथुवक्रमन्दगामिजडेष्वपि भवेत्त्रिषु ॥ मकरो जलजन्तौ स्यान्निधिराशिविशेषयोः । मयूरो बर्हिचूडायामपामार्गशिखण्डिनोः ॥ महेन्द्र इन्द्राचलयोर्मधुत्रः कामुकालियोः । मन्दुरा वाजिशालायां तथा शयनवस्तुनि ॥ Śabdaratnāvalī 7.27.95
- तन्त्राभिधान खशिखण्डी दन्तजातीशः कफोणिर्गरुडो यतिः । शून्यं कपाली कल्याणी सूर्पकर्णोऽजरामरः ॥ ६१ ॥ Tantrābhidhāna 2.19.61
- त्रिकाण्डशेष मेनादमेनादस्तु त्रयश्छागमार्जारकशिखण्डिनः । विशदः पाण्डरे व्यक्ते शारदोजलदेऽपि च ॥ २११ ॥ Trikāṇḍaśeṣa 3.3.211